Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 20
________________ १६२ टिप्पनक-परागविवृतिसंवलिता ग्रहणोपचाराभिः पुत्रकाम्यन्तीभिरन्तःपुरकामिनीमिर्विधीयमानविविधप्रतविशेषम् [१], परशुकैरपि प्रस्तुतंवादिभिर्बन्दिभिरिवोधार्यमाणमङ्गलम् अन्तःपुरसारिकाभिरपि परिमितव्याहारिणीभिराराध्यअरतीभिरिव वितीर्यमाणराजवनिताशीर्वादम् अर्भकैरपि विनयनिभृतैः प्रवीणपुरुषैरिव निवार्यमाणक्षुद्रदासीपरस्परकलहम् [क्ष]। सर्वतश्च प्रशान्तेन शुचिना शुद्धवेषधारिणा परिजनेनाधिष्ठितम् उत्साहमयमिव प्रयत्नमयमिव श्रद्धामयमिव विनयमयमिवाचारमयमिव राजकुलमबजत् [ज्ञ]। तत्र च समाहृतसमस्तोपकरणेन परिजनेन यथाविधिविहितमजनोपचारः सकललोकाचारकुशलामिः ससंभ्रममितस्ततो विचरन्तीभिरिवनिताभिः कृतावतारणकमङ्गलः क्षणमात्रं विलम्ब्य ताम्बूलक'रातिसर्जनविसर्जितपुरोधःप्रमुखमुख्यद्विजाति: 'उत्तिष्ठत ! ब्रजामो देवतायतनेषु' इत्यभिधान: संनिधानभाजं प्रणयिजनमासनादुत्तस्थौ [अ] । अनूत्थितासन्नराजलोकपरिवृतश्च तत्कालमेकहेलयोच्छलितेन संमूर्च्छतां दिगन्तरेषु मुहुर्मुखन्यस्तकरतलप्रतिस्फलनविस्फारितनिनादानां बन्दिनां जयशब्दकलकलेन कथितनिर्गमो द्विजावसर दृष्टः-अनुभूतः, प्रत्ययः-विश्वासो येषां तादृशाः, प्रतीताः-प्रख्याताः, ये परिव्राजकास्तैः, उपदिष्ठा-उपदर्शिता, या नीति:पद्धतिः, तया, स्नपनमङ्गलानि अभिषेककृतमङ्गलानि, प्रवर्तयता प्रादुर्भावयता [६]। पुनः कीदृशं राजकुलम् ? बन्दिभिरिव, प्रस्तुतवादिभिः प्रकृतपुत्रोत्पत्तिसंवादिभिः, पक्षे प्रकर्षेण स्तुतं स्तुतिः, तद्वादिभिः-तत्पाठिभिः, पञ्जर कैरपि, उचार्यमाणमङ्गलम् उद्घोष्यमाणमाङ्गलिकवाक्यम् । पुनः आराध्यजरतीभिरिव पूज्यश्रद्धाभिरिव, परिमितव्याहारिणीभिः परिमितभाषणशीलाभिः, अन्तःपुरसारिकाभिरपि अन्तःपुरस्थपक्षि विशेषैरपि, वितीर्यमाणराजवनिताशीर्वादं वितीर्यमाणः-दीयमानः, क्रियमाण इति यावत् , राजवनिताना-राजीनाम् , आशीर्वादः-शुभाशंसनं यस्मिंस्तादशम् । पुनः प्रवीणपुरुबैरिव सभ्यजनैरिव, विनयनिभृतैः विनयनिश्चलैः, अर्भकैरपि बालकैरपि, निवार्यमाणशुद्धदासीपरस्परकलह निवार्यमाणः-निरुध्यमानः, क्षुद्रदासीनां नीबदासीनाम् , परस्परकलहः-अन्योऽन्यविवादो यस्मिस्ता. दृशम् [क्ष] | पुनः सर्वतः सर्वप्रकारेण, प्रशान्तेन शान्तिशालिना, शुचिना पवित्रेण, शुद्धवेषधारिणा निर्मल. देवावृतेन, परिजनेन परिवारेण, अधिष्ठितम् आश्रितम् । पुनः उत्साहमयमिव उत्साहपूर्णमिव, श्रद्धामयमिय श्रद्धासमृद्धमिव, आचारमयमिव चारुचरित्रपूर्णमिवेति सर्वत्रोत्प्रेक्षा [a] तत्र तस्मिन् , राजकुल इत्यर्थः, समाहतसमस्तोपकरणेन समाहृत-संगृहीतम् , समस्त-सर्वम् , उपकरणमानोपकरणं येन तादृशेन, परिजनेन परिवारण, यथाविधिविहितमझनोपचारः यथाविधि-विधिपूर्वकम् , विहितः-कृतः, मजनोपचारः-अपनरूपसेवा यस्य तादृशः; पुनः सकललोकाचारकुशलाभिः निखिललौकिकव्यवहारनिपुणाभिः, ससम्भ्रमं सत्वरम्, इतस्ततः तत्र तत्र,विचरन्तीभिः विहरन्तीभिः, वारयनिताभिः वेश्यामि णकमल: कृतम्, अवतारणकमल-नसाखलादिना अर्चनरूपं मंगलं वागतमजलगानं वा यस्य तादृशः क्षणमात्रमुहर्तमात्र, विलम्ब्य स्थित्वा, ताम्बूलकर्पूरातिसर्जनविसर्जितपुरोधःप्रमुखमुख्यद्विजातिः ताम्बूलानि-नागवालीपत्राणि, कर्पूराः-सुगन्धिद्रव्यविशेषाः, तेषाम् , अतिसर्जनेन-दानेन, विसर्जिताः-त्यक्ताः, प्रस्थापिता इति यावत्, पुरोधःप्रमुखाः-पुरोहितप्रभृतयः, मुख्यद्विजातयः-विशिष्टब्राह्मणा येन तादृशः; सन्निधानभाजं निकटस्थितं, प्रणयिजनं खस्नेहास्पदव्यक्तिम् , उत्तिष्ठत स्वस्थानादुस्थानं कुरुत । देवतायतनेषु देवतामन्दिरेषु, बजामः वयं गच्छामः, इति एवम् , अभिदधानः ब्रुवन् , आसनात् उपवेशनस्थानात् , उत्तस्थौ उस्थितवान् [अ] | च पुनः, अनूस्थितासभराजलोकपरिवृतः भत्थितैः-पश्चादुत्थितः, आसन्नैः-पावर्तिभिः, राजलोकैः-राजकीयजनैः, परिवृतः-परिवेष्टितः सन् , तत्कालं तत्क्षणम् , एकहेलया एकवारं युगपदित्यर्थः, उच्छलितेन सवेगं प्रधावितेन, पुनः दिगन्तरेषु दिमध्येषु, सम्मूर्छतां सड़ीभवताम्, मुहर्मुखन्यस्तकरतलप्रतिस्फलनविस्फारितनिनादानां मुहुः-अनेकवारम् , मुखेषु, न्यस्तानि-विक्षिप्तानि, यानि करतलानि, तेषां प्रतिस्फलनेन-अभिधावेन, विस्फारितः पर्धितः, निनादः-ध्वनियस्तादशानाम, बन्दिना स्तुतिपाठका.

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190