Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 41
________________ तिलकमञ्जरी। १८३ वामनोऽनेकशतसंख्यः शुद्धान्तवारस्त्रीजनः [ध]। प्रमुदितपौरजनजयजयारावपीवरः प्रतिभवनमाहतानामसंख्यकाहलाशङ्खझल्लरीमुरजपटहानामनुसृतः पटीयसा झात्कृतेन वादित्राणामाह्वयन्निव नर्तनाय व्योनि वैमानिकवधूवृन्दमाकारयन्निव महोत्सवालोकनाय दिक्षु लोकपालपरिषदमादिशन्निव रङ्गावलीयोग्यरत्नानयनाय पृथ्वीतलोपान्तेषुपाथोनिधीन् बभ्राम मथनभ्रान्तमन्दरविघूर्णितमहाणवध्वानघघरो जगति नान्दीघोषः [न]। प्रसर्पन्नितस्ततः प्रस्तुतपरीहास इव तत्कालमधिगतविकाशासु प्रमुदिताविव दिक्षु चिक्षेप पिष्टातरजःपिञ्जरं सरोकिञ्जल्कजालमुद्यानानिलः [प] । कृताध्ययनभङ्गविद्वजनविसर्जितानि प्रष्ठीकृतैकैकबठरच्छात्रहस्तार्पितविशालपूर्णकलशानि युगपदुञ्चारिताशी:परम्परावचनवाचालानि चेलुरन्तःपुराभिमुखमखिलानि विद्यासत्रशालान्तेवासिमण्डलानि [फ] 1 प्रचलितारुणपाणिमणिपल्लवमान्दोलितालिनीललीलालकभङ्गमाभङ्गुरमुरोज नान्दीघोषः-“देवद्विज मृपादीनामाशीर्वादपरायणाः । नन्दन्ति देवता यस्मात् तस्मानान्ही प्रकीर्तिता ॥" इत्युक्तमङ्गलध्वनिः, जगति भुवने, बभ्राम भ्राम्यति स्म, कीदृशः ? प्रमुदितपौरजनजयजयारावपीवरः प्रमुदिताना प्रहृष्टानाम् , पौरजनानां-तत्पुरवासिजनानाम् , जयजयारावैः जयजयकारैः, पीवरः स्थूलः, प्रवृद्ध इति यावत् , पुनः प्रतिभवनं प्रतिगृहम् , आहतानां ताडितानाम् , असंख्यकाहला-शब-झलरी-मुरज-पटहानाम्, असंख्याःअनियतसंख्याकाः, बहव इति यावत् , ये कालाः-महाढक्काः, शङ्काः-समुद्रोत्पन्नमुखवाद्यविशेषाः, झलयः-कास्यवाद्यविशेषाः, मुरजाः-मृदङ्गाः, पटहाः-दुन्दुभयः, तेषाम्, वादित्राणां वाद्यविशेषाणाम्, पटीयसा मनोहरेण, झात्कृतेन ध्वनिविशेषेण, अनुसृतः अन्वितः, किं कुर्वन्निव ? ब्योम्नि आकाशे, स्थितमिति शेषः, वैमानिकवधूवृन्दं विमानवासिदेवानागणम् , नर्तनाय नृत्यार्थम् , आह्वयन्निव आकारयन्निवेत्युत्प्रेक्षा; पुनः दिक्षु दशदिशासु स्थितामिति शेषः, लोकपाल परिषदं दिक्पालदेवसभाम् , महोत्सवालोकनाय राजपुत्रजन्ममहोत्सवदर्शनाय, आकारयन्निव आह्वयनिवेति वोत्प्रेक्षा; पुनः रङ्गावलीयोग्यरत्नानयनाय रज्यत्यस्मिन्निति रङ्गः-नृत्यमण्डपः, तस्व आवली-पतिः, तद्योग्यानितन्निवेशनयोग्यानि, यानि रत्नानि, तेषामानयनाय-उपहरणाय, पृथ्वीतलोपान्तेषु पृथ्वीतलप्रदेशेषु, आदिशनिव आज्ञापयन्निवेति चोत्प्रेक्षाः कीदृशः? मथनभ्रान्तमन्दरविघूर्णितमहार्णवध्वानघर्धरः मथने-सुरासुरकृतसमुद्रविलोडने, भ्रान्त:-प्राप्तभ्रमणः, यो मन्दरः-मेहः, तेन विघूर्णितः-विक्षोभितः, यो महार्णवः-महासमुद्रः, तस्य यो ध्वानः-ध्वनिः, तद्वद् घर्घर:-खरविशेषान्वितः [न]। इतस्ततः अत्र तत्र प्रदेशे, प्रसर्पन प्रवहन् , उद्यानानिलः आरामवातः पिष्टातरजमंपिञ्जरं पिष्टातरजोवत्-पटवास नुवत् पिजरं-किञ्चिद्रक्तपीतवर्णम्, सरोजकिजल्कजाल सरोजाना-कमलानाम्, किजल्कजालं-केसरसमूहम्, दिक्ष सकलदिशासु, चिक्षेप विक्षिपति स्म । कीदृशीषु दिक्षु? तत्कालं तत्क्षणम् , अधिगतविकासासु प्राप्त विकासासु, विकसितास्वित्यर्थः, अत एव प्रमुदिताखिव प्राप्तप्रमोदाखिवेत्युत्प्रेक्षा । कीदृश इव ? प्रस्तुतपरिहास इव प्रस्तुतः-प्रारब्धः, परिहासः-परि सर्वतोभावेन हासो येन तादृश इवेत्युत्प्रेक्षा, यथा नायको होलिकोत्सवे परिहासेन नायिकोपरि रक्तचूर्णानि विक्षिपति तथेत्यर्थः [प] । अखिलानि सकलानि, विद्यासत्रशालान्तेवासिमण्डलनि विद्यासत्रशालायाः-विद्यादानशालायाः, ये अन्तेवासिनः-छात्राः, तेषां मण्डलानि-समूहाः, अन्तःपुराभिमुखं राजनीनिवासभवनाभिमुखम् , चेलुः जम्मुः, कीदृशानि ? कृताध्ययनभङ्गविद्वज्जनविसर्जितानि कृतोऽध्ययनस्य भयो विच्छेदो यैस्तादृशैः, विद्वजनैः-अध्यापकजनैः, विसर्जितानि-परित्यक्तानि दत्तावकाशानीत्यर्थः पुनः प्रष्टीकतैकैकबटरच्छात्रहस्तार्पितविशालपूर्णकलशानि प्रष्टीकृतस्य-एकैकेन मण्डलेन खाने गमितस्य, एकैकस्य बैठरच्छात्रस्यमूर्खच्छात्रस्य, हस्ते, अर्पितः-निहितः, विशाल:-बृहदाकारः, पूर्णकलशः-जलपूरितपलवायुतमुखकुम्भो यैस्तादृशानि, पुनः युगपदुचारिताशी परम्परावचनवाचालानि युगपदुचारितैः-एककालावच्छेदेनोक्तैः, आशीःपरम्परावचनैः-शुभैषणासमूहार्थकवाक्यैः, वाचालानि-शब्दायमानानि [फ] 1 सान्तःपुरम् अन्तःपुरेण-तास्थ्येनोपचारादन्तःपुरस्त्रीजनेन सहितम् , नगरनारीवृन्दं प्रकृतनगरवास्तव्यस्त्रीसमूहः, अनिलाहतकल्पलतावनमिव अनिलेन-वायुना, आहतम् - आस्फालितम् , कल्पलतावनं-कल्पवृक्षसमूह इव, ननर्त नृत्यं चकार । कीदृशम् ? प्रचलितारुणपाणिमणिपल्लवं प्रचलितानि-प्रकम्पितानि, अरुणानि-रक्तवर्णानि, पाणिमणिरूपाणि-मनोहरहस्तरूपाणि, पल्लवानि-नवपत्राणि यस्य तादृशम्,

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190