Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 124
________________ २६६ टिप्पनक-परागविवृतिसंवलिता गिलैरप्यलचितभीषणावर्त मैनाकगोत्रगिरिभिरप्यनवगाढकुक्षिगुहागत [ऐ] प्रभवं विषस्य पीयूषस्य च पात्रं जलस्य जातवेदसश्च पदं वृद्धेः क्षयस्य च सदनमसुरारेर्दानवानां च धुर्य मर्यादावतामदृष्टसीनां च कुलमन्दिरं मदिराया द्विजराजस्य च [ओ] निवातकवचयुद्धमिव मुक्ताफलववेन्द्रनीलप्रभासुरदुरालोकं वृत्रमिवोपकण्ठलग्नवनानुविद्धफेनच्छटापहृतहदयासुखं सुराचलमिव स्वर्णदीप्रकटकान्तं स्थिरमपि विसारि चारुकल्लोलमपि टिप्पनकम्-द्विजराजः-चन्द्रः [ओ] । निवातकवचयुद्धमिव मुक्ताफलवजेन्द्रनीलप्रभासुरदुरालोकं निवातकवचः-दानवविशेषः, तस्य युद्धमिव प्रेरितनिष्फलकुलिशशक्र-कृष्णतेजोऽसुराभ्यां दुःखदर्शनीयम् , अन्यत्र मौक्तिकहीरक-मरकतैः प्रभासुर-दुरालोकम् , तेषां वा प्रभा तया सुराणामपि दुःखदृशम् । [वृत्रमिवोपकण्ठलग्नवज्रानुविद्धफेनच्छटापहृतहृदयासुखं] वृत्रमिवोपकण्ठलग्नवज्रानुविद्धफेनच्छटा पहृतं लोकमनसामसुख-दुःखं येन स तथोक्तस्तम् । सुराचलमिव स्वर्णदीप्रकटकान्तं एकत्र सुवर्णदीप्यमानप्रस्थपर्यन्तम् , अन्यत्र गङ्गाव्यक्तभर्तारम् । स्थिरमपि विसार यदि स्थिरं कथं प्रसरणशीलम् ? अन्यत्र मत्स्यवत् । चारुकल्लोलमपि कृर्मि यदि शोभनोर्मि कथं कुत्सितकल्लोलम् ? अन्यत्र सकच्छपम् । ता_वपुरिवाखण्डितं सर्पदशनैः अहिदन्तैः, अन्यत्र सर्पत्-प्रसरत् , अशनैः-शीघ्रम् । वसुन्धराया मधुरिपोश्च वासः एकत्र वासः-वस्त्रम् , अन्यत्र निवासः [ औ]। मनापादितः, गोंगार:-गर्जनातिरेको यस्य तादृशम् ; पुनः खेचरैरपि आकाशगामिभिरपि, किमुतान्यैः अवीक्षितशिखाविश्रामम् अवीक्षितः-अदृष्टः, शिखायाः-अग्रभागस्य, विश्रामो-विरामो यस्य तादृशम् ; पुनः सर्वशेनापि सर्वज्ञात्रापि, अविज्ञातसर्वजलचरनामग्रामम् अविज्ञातः-अविदितः, सर्वजलचराणाम्-अशेषजलजन्तूना, नामनामः-नामसमूहो यस्य तादृशम् ; पुनः तिमिगिलगिलैरपि “अस्ति मत्स्यस्तिमि म शतयोजनविस्तृतः । तिमिझिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति राघव !" इत्यन्यत्रोक्तमहामत्स्यैरपि, अलवितभीषणावर्तम् अलचितः-न लखितः, भीषणः, आवर्तः-जलभ्रमो यस्य तादृशम् ; पुनः मैनाकगोत्रगिरिभिरपि स्वोदरस्थमैनाकवंशजपर्वतैरपि, किमुतान्यैः, अनवगाढकुक्षिगुहागर्तम् अनवगाढम् -अगाधतयाऽप्रविष्टम् , कुक्षिरूपायाः-उदररूपायाः, गुहाया:-कन्दरायाः, गर्तः-श्वभ्रं यस्य तादृशम् [पे] च पुनः, विषस्य, पुनः पीयूषस्य अमृतस्य, परस्परविरुद्धयोरपि तयोरित्यर्थः, प्रभवम् उत्पत्तिस्थानम् ; पुनः जलस्य, च पुनः, जातवेदसः अग्नेः, परस्परविरोधिनोरपि तयोरित्यर्थः, पात्रं स्थानम् , पुनः वृद्धः समृद्धेः, च पुनः, तद्विरुद्धस्य क्षयस्य हासस्य, स्थानम् अधिकरणम् ; पुनः असुरारेः विष्णोः, च पुनः, तद्विरोधिनां दानवानां दैत्यानाम् , सदनं गृहम् ; पुनः मर्यादावतां व्यवस्था शालिनाम् , तद्विरुद्धानाम् , अदृष्टसीनाम् अदृष्टा-न दृष्टा, सीमा-व्यवस्था, पक्षे अवधिर्येषां तादृशानां वस्तूना, धुर्यम् अग्रेसरम् ; पुनः मदिरायाः तदाख्यमादकवस्तुनः, च पुनः, द्विजराजस्य तद्विरुद्धब्राह्मणस्य, पक्षे चन्द्रस्य, कुलमन्दिरम् उत्पत्तिगृहम् [ओ]; पुनः निवातकवचयुद्धमिव निवातः-निवृत्तो वातः-वायुर्यस्मात् तादृशः, दृढ इत्यर्थः, कवचः-वर्म येषां तादृशानां तन्नामकासुराणां युद्धमिव, मुक्ताफलवजेन्द्रनीलप्रमासुरदुरालोकं मुक्कं-प्रहितम् , अफलं निष्फलं, वज्रं येन तादृशेन, इन्द्रेण, नीलप्रभैः, असुरैः-राक्षसैश्च, दुरालोकं-दुर्निरीक्ष्यम् , पक्षे मुक्ताफलंमुक्तामणिः, वज़-हीरकमणिः, इन्द्रनीलं नीलमणिः, तैः प्रभासुरम्-अतिभासुरम् , अत एव दुरालोक-दुःखेन आलोकितुं शक्यम् । पुनः वृत्रमिव वृत्रासुरमिव, उपकण्ठलग्नवज्रानविद्धफेनच्छटाऽपहतहृदयासुखम् उपकण्ठलमाभिः-निकटलग्नाभिः, वज्रानुविद्धाभिः-हीरकमणिसम्पृक्ताभिः, फेनच्छटाभिः-जलविकारराशिभिः, अपहृतं-निवारितं, हृदयासुख-निर्धनताप्रयुक्तदुःखमाजां जनानां हृदयदुःखं येन तादृशम् , पक्षे कण्ठसमीपलम्माभिः, वज्रेण-अस्त्रविशेषेण, अनुविद्धाभिः-सलमाभिः, फेनच्छटाभिः-अधिकफराशिभिः, अपहृतं-हृदयासुख-तत्पीडितजनहृदयदुःखं येन तादृशम् ; पुनः सुराचलमिव मेरुगिरिमिव, स्वर्णदीप्रकटकान्तं स्वर्गद्याः-खर्गनद्या गङ्गायाः, प्रकटं-प्रकाशमानं, कान्तं-पतिम् , पक्षे खर्णेन-सुवर्णेन, दीप्रः-भासुरः, कटकस्य-नितम्बस्य, अन्तः-खरूपं चरमावयवो वा यस्य तादृशम् पुनः स्थिरमपि निवृत्तगतिकमपि विसारि विशेषेण गमनशीलमिति विरोधः. तदद्धारे तु विसारि विसाराः-मत्स्याः सन्ति अस्मिन्निति व्याख्येयम् । पुनः चारुकल्लोलमपि चारवः-मनोहराः, कल्लोला:-महातरजा यस्य तादृशमपि, कूर्मि कुत्सिताः-ऊर्मयो

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190