Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 42
________________ १८४ टिप्पनक-परागविवृतिसंवलिता स्तबकभारेण रणरणितताररत्नाभरणमालमनिलाहतकल्पलतावनमिव ननर्त सान्तःपुरं नगरनारीवृन्दम् [4] ॥ ___ अवनीश्वरोऽपि परमोत्पन्ननिर्वृतिर्जलकटाहकोडनिक्षिप्तनाडिकानिहितचक्षुषा गणकनिवहेन निश्चित्य देव्याः प्रसवलप्रमागतेन मुहुर्मुहुरनेकप्रकारैः कृतोपवर्णनमाकर्ण्य जन्मग्रहबलं बालकस्य कृतमज्जनादिकृत्यः शुभे मुहूर्ते निवर्तितानुचरलोकः परिगतप्रान्तमुत्खातखङ्गैः समन्ततो वीरपुरुषैः प्रशस्सतरुपल्लवास्तृतमुखेन द्वारशाखासङ्गिना मङ्गलकलशयुगलेनावभासितमुदारगन्धोदगारगुग्गुलघूपधूमान्धकारदूरीकृतदुष्टचक्रवक्राक्षीसंचारमचिरधौतचरणाभिः प्रविश्य साशीर्वादमन्तःप्रकीर्णकुसुमाक्षतकणाभिर्बन्धुवृद्धाभिराबद्धमङ्गलगीतकोलाहलमदत्तबाह्यपरिजनप्रवेशेन प्रशस्तालापिना सकललौकिकाचारकुशलेन 'कुरुत हरिचन्दनोपलेपहारि मन्दिराङ्गणम् , रचयत स्थानस्थानेषु रत्नचूर्णस्वस्तिकान् , दत्त द्वारि नूतनं चूतपल्लवदाम, विकिरतान्तरुत्फुल्लपङ्कजोपहारम् , समासोत्तरपदभूतमण्यादिशब्दानां पूर्वपदार्थगतसौन्दर्यबोधकत्वात् ; पुनः आन्दोलितालिनीललीलालकभङ्गम् आन्दो लिता:-उत्क्षिप्ताः, अलिनीलाः-भ्रमरसदृशश्यामवर्णाः, लीलालकभना:-क्रीडार्थकल्पितकुटिलकेशा यस्य तादृशम् । पुनः उरोजस्तबकभारेण उरसि वक्षसि, जायत इत्युरोजः-स्तनः, तद्रूपस्य स्तबकस्य-पुष्पगुच्छस्य, भारेण, आभड्रं समन्तानम्रम् ; पुनः रणरणितताररत्लाभरणमालं रणरणितानि-ध्वनिविशेषान्वितानि, ताररत्नानाम्-उत्तमरत्नानाम् , भाभरणानि-कटकनूपुराधलङ्करणानि माला च यस्य तादृशम् [व]॥ अवनीश्वरोऽपि राजापि, परमोत्पन्न निर्वृतिः परमम्-अत्यन्तं यथा स्यात् तथा, उत्पन्ना निर्वृतिः--हषों यस्य तादृशः; पुनः जलकटाहक्रोडनिक्षिप्तनाडिकानिहितचक्षुषा जलकटाहस्य-जलपूर्णमहाभाजनविशेषस्य, कोडे-मध्ये, निक्षिप्तास्थापिता, या नाडिका-कालप्रमापकयन्त्रविशेषः, तत्र निहितानि-निवेशितानि, चक्षषि येन तादृशेन, देव्याः मदिरावत्याः, प्रसवलग्नं प्रसवकालिकलमम् , निश्चित्य निणीय, आगतेन तत्रोपस्थितेन, गणकनिवहेन दैवज्ञसमूहेन, मुहुर्मुहुः पुनः पुनः, अनेकप्रकारैः विविधप्रकारैः, कृतोपवर्णनम् उपवर्णितम् , बालकस्य जातकस्य, जन्मग्रहबलं जन्मकालिकोच्चस्थानस्थितप्रहरूपं बलम् , आकर्ण्य-श्रुत्वा, कृतमजनादिकृत्यः कृतस्नानादितात्कालिककार्यः सन् , निवर्तितानुचरलोकः परित्यक्तभृत्यजनः, शुमे उत्तमे, मुहूर्त समये, प्रियायाः मदिरावत्याः, प्रसूतिगृहं प्रसवालयम् , अविक्षत प्रविष्टवान् । कीदृशम् ?, उत्खातखड़ेः उद्भतखङ्गः, वीरपुरुषैः, समन्ततः सर्वतः, परिगतप्रान्तं व्याप्तप्रान्तप्रदेशम पुनः प्रशस्ततरुपल्लवास्तृतमुखेन प्रशस्तैः-उत्तमैः, तरुपल्लवैः-वृक्षनवदलैः, प्रशस्तानां वा तरूणां पल्लवैः, आस्तृतम्आवृतम्, मुखम्-ऊर्श्वभागो यस्य तादृशेन, पुनः द्वारशाखासङ्गिना द्वारशाखा-द्वारस्य ऊर्ध्वभागः, तत्सजिना-तत्र स्थितेन, मङ्गलकलशयुगलेन मङ्गलोद्देश्यकघटद्वयन, अवभासितम् उद्दीपितम् । पुनः उदारगन्धोद्गारगुग्गुलु धूपधूमान्धकारदुरीकृतदुष्टचक्रवकाक्षीसञ्चारम् उदारः-महान् , गन्धोद्गारः-गन्धाविर्भावो यस्य तादृशो यो गुग्गुलु धूपस्य-गुग्गुलधूपसम्बन्धी, धूमः, तद्रूपान्धकारेण, दूरीकृतः-निरुद्धः, दुष्टाना-बालधातनदोषवतीनाम, चक्रवक्राक्षीणांचक्रवक्राकारनेत्राणां स्त्रीणाम् , सञ्चारो यस्मिंस्तादृशम् । पुनः अचिरधौतचरणाभिः तत्क्षणप्रक्षालितपादाभिः, साशीदिम् आशीर्वादेन सहितं यथा स्यात् तथा, अन्तः प्रसूतिगृहाभ्यन्तरम् , प्रविश्य प्रवेश कृत्वा, प्रकीर्णकुसुमाक्षतकणाभिः प्रकीर्णानि-प्रक्षिप्तानि, कुसुमानि-पुष्पाणि, अक्षतकणाः-तण्डुलकणाश्च याभिस्तादृशीभिः, बन्धुवृद्धाभिः खबन्धु भूतवृद्धस्त्रीभिः, आबद्धमङ्गलगीतकोलाहलम आवद्धः-आयोजितः. कृत इति यावत् , मङ्गलगीतानां कोलाहल:-शब्दविशेषो यस्मिंस्तादृशम् । पुनः शुद्धान्तजरतीजनेन अन्तःपुरसम्बन्धिवृद्धस्त्रीजनेन, क्रियमाणविविधशिशुरक्षाविधानं क्रियमाणं-विधीयमानम्, विविधम्-अनेकप्रकारकम् , शिशुरक्षाविधानं शिशुरक्षाप्रयोजकं कार्य यमिंस्तादृशम् । कीदृशेन तेन ? अदत्तबाह्यपरिजनप्रवेशेन अदत्तः-अवरुद्धः, बायपरिजनस्य-बायखजनस्य, प्रवेशःअन्तरागमं येन तादृशेन; पुनः प्रशस्तालापिना प्रियालापशीलेन; पुनः सकललौकिकाचारकुशलेन समप्रलौकिकव्यवहाराभिलेन; पुनः जल्पता प्रतिपादयता, किमित्याह-मन्दिराङ्गणं राजभवनप्राङ्गणम् , हरिचन्दनोपलेपहारि हरिचन्दनस्य-चन्दनविशेषस्य, यद्वा-"पृष्टं च तुलसीकाष्ठं कर्पूरागुरुयोगतः । अथवा केसरैर्योज्यं हरिचन्दनमुच्यते ॥" इत्युक्तम मिश्रितद्रव्यविशेषस्य, उपलेपेन-विलेपनेन, हारि-मनोहरम् , कुरुत सम्पादयत; पुनः स्थामेषु स्थानेषु तत्तत्स्था

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190