Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी ।
'देव ! स कृतो यं न कश्चिदन्यः करोति, आकर्णयतु देवः, इतः समनन्तरातीतवर्षे निवृत्तास्वविरलजलासारवर्षासु वर्षासु प्रवृत्ते संवर्तितसिन्धुपूरपयसि परिणमत्कलमकपिलायमानकैदारिके बद्धस्तम्बतृण संबाधग्रामसीनि जनितविजिगीषुपार्थिवजनोत्साहे शरत्समये सेनापतिरर्थशास्त्र परामर्शपूतमतिभिरमात्यैः सह कृतकार्यवस्तुनिर्णयः प्रशस्तेऽहनि समस्तबलपरिवृतश्चरणतलमृदितभुजबलावलिप्तारिभूपालशिरः शेखरं कुसुमशेखरनामानमवनिपालमुन्मूलयितुकामः कुण्डिनपुरात् काश्चिमण्डलाभिमुखमचलत् [ ] । क्रमेण चाबद्धदृढकक्षाभिराटोपकम्पमानवितत केतुवनराजिभिरभ्यर्थनापदेशस्तम्भितोदयमगस्त्यमुनिमभियोद्धुमुज्वलिताभिविन्ध्यशिखरावलीभिरिव करिघटाभिरन्धकारितैराज्ञाकृष्टानां दुष्टसामन्तानामनीकैरापूर्यमाणकटकविनिवेशः
१९३
टिप्पनकम्-वर्ष - वृष्टिः । कैदारिकं - केदारसमूहः [ ६ ] । कक्षा - करिमभ्यवखा, कक्षः - सतॄणप्रदेशः । भपदेश:- ब्याजम् । अतियोक्तुं - [ अभियातुं - ] गृहीतुम् [ ए ].1
• जगाद उवाच । देव ! राजन् ! स तादृशः, उपकार इति शेषः कृतः विहितः, यं यादृशमुपकारम्, कश्चित् कोऽपि, अन्यः तद्व्यतिरिक्तः, न करोति देवः भवान्; आकर्णयतु शृणोतु । इतः वर्तमानवर्षात् समनन्तरातीतचर्षे अव्यवहितभूतपूर्ववर्षे, परुदित्यर्थः । अविरलजलासारवर्षासु अविरलम् - अविच्छिन्नम्, जलस्य आसारवर्ष-धारासम्पाति वर्षे यासु तादृशीषु, वर्षासु वर्षत, निवृत्तासु व्यतीतासु, पुनः शरत्समये शरहतो, प्रवृत्ते प्रारब्धे सति, कीदृशे तस्मिन् ! संवर्तितसिन्धुपूरपयसि संवर्तितं संकोचितम्, सिन्धुपूरस्य-नदीप्रवाहसम्बन्धि, पयो-जलं येन तादृशे; पुनः परिणमत्कलमक पिलायमान कैदारिके परिणमद्भिः - परिपाकावस्थामापाद्यमानैः, कलमैः- धान्यविशेषैः, कपिलायमानंपिङ्गलायमानम्, कैदारिकं - केदारसमूहो यस्मिंस्तादृशे; पुनः बद्धस्तम्बतृणसंबाधग्रामसीनि बद्धः - उद्गृहीतः, स्वम्बःकाण्डो यैस्तादृशैः, तृणैः, संबाधाः - संकीर्णाः, ग्रामसीमानो यस्मिंस्तादृशेः पुनः जनितविजिगीषुपार्थिवजनोत्साहे जनितः - उद्भावितः, विजिगीषूणां विजयेच्छूनाम्, पार्थिवजनानां नृपजनानाम्, उत्साहो येन तादृशे । सनापतिः वज्रायुधः, अर्थशास्त्र परामर्शपूतमतिभिः अर्थशास्त्रस्य - अर्थनीतिशास्त्रस्य परामर्शन - परिशीलनेन, पूता - परिमार्जिता, मांत:बुद्धिर्येषां तादृशैः, अमात्यैः सचिवैः सह कृतकार्य वस्तुनिर्णयः कृतः, कार्यवस्तूनां - कर्तव्यवस्तूनाम्, निर्णयः- निश्चयो येन तादृशः सन् प्रशस्ते शुभे, अहनि दिवस, समस्तबलपरिवृतः समग्रसैन्य परिवेष्टितः सन्, चरणतलमृदितभुजबलावलिप्तारिभूपालशिरः शेखरं चरणतलेन - पादाधस्वलेन, मृदिता - मर्दिता, भुजबलावलिताना - बाहुबलगर्वितानामू, अरिभूपालानां शत्रुभूतानां राज्ञाम् शिरः शेखराः- शिरोमुकुटा येन तादृशम्, कुसुमशेखरनामानं तत्संज्ञकम् अवनिपालं राजानम्, उन्मूलयितु कामः उच्छेत्तुमिच्छुः कुण्डिनपुरात् कुण्डिनपुराख्यनगरात् काञ्चिमण्डलाभिमुखं कचिदेशाभिमुखम्, अचलत् अगच्छत् । [ ] च पुनः क्रमेण क्रमशः, विन्ध्यशिखरावलीभिरिव विन्ध्यगिरिशिखरपङ्क्तिभिरिव, आबद्धद्दढ कक्षाभिः आ-समन्तात् बद्धाः, दृढाः - प्रबलाः, कक्षाः-बन्धनरज्जवो याभिस्वादृशीभिः, पक्षे आबद्धाः सन्निवेशिताः स्थिता इत्यर्थः, दृढाः - सान्द्राः, कक्षाः - लताः शुष्कतृणपुजाः शुष्कवनानि वा यासु तादृशीभिः, पुनः आटोपकम्पमान वितत केतुवनराजिभिः आटोपेन अतिशयेन, कम्पमानाः - व्याधूयमानाः, बितताःबिस्तृताः, केतवः -- पताका एव, वनराजि:- वनपाङ्कः, पक्षे विततकेतु :- विस्तृतद्युतिर्वनराजिर्यासु तादृशीभिः, पुनः अभ्यर्थनापदेशस्तम्भितोदयम् अभ्यर्थनापदेशेन - प्रार्थनाव्याजेन, स्तम्भितः-निरुद्धः, उदयः- वृद्धिर्येन तादृशम्, अगस्त्यमुनिम्, अभियोद्धुम् अभि-सर्वतोभावेन, योद्धुम् अभियो कुमिति पाठे अभियातुमित्यर्थः, उच्चलिताभिः उत्थितानिः, करिघटाभिः हस्तियूथैः; अन्धकारितैः कृतान्धकारैः, आज्ञया-नियोगेन, आकृष्टानाम् - आहूतानाम्, दुष्टसामन्तानाम् दुष्टविषयान्तरवर्तिनृपतीनाम्, अनीकैः सैन्यैः, आपूर्यमाणकटकनिवेशः आपूर्यमाणः - व्याप्यमानः, कटकनिवेशः - सैन्यावासो येन तादृशः, काश्विदेशम्, अविशत् प्रविष्टवान् । सुरगिरिस्पर्धयोन्नमन्तं विन्ध्यगिरिमवलोक्य तनादित्यगति प्रतिरोधेन जगतामन्धकारमयत्वभयेन तत्पार्श्व गत्वा यावदहं न प्रत्यागच्छामि तावत् त्वया न वर्धनीयमिति वरमभ्यर्च्य गतो, न २५ तिलक •
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190