Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 82
________________ २२४ टिप्पनक-परागविवृतिसंवलिता नृपतिभिः समं समकालमेव नीत्वा वश्यतामिहानीतोऽसि, स तु प्रभावोऽन्यस्य कस्यचित् , अथवा किमनेन दूरस्थोऽपि दृष्टमात्रेण येन प्रनष्टसकलचेष्टस्तदा समिति संजातोऽसि तदेव ते प्रकटमुपदर्शयामि' इत्युदीर्य तत्कालमादिष्टनिकटराजलोकढौकितमनेकमहाप्रभावमाणिक्यखचितमुद्रमङ्गुलीयकरत्नमप्रतो दर्शयन् 'कुतः प्राप्तमेतत्' इति पृष्टश्च देवस्य शक्रावतारगमनात् प्रभृति पूर्ववृत्तं ज्वलनप्रभदेववृत्तान्तमखिलमपि राजलक्ष्मीस्वस्थानगमनपर्यवसानं यथाश्रुतमकथयत् [ज्ञ] । - सोऽपि तच्छ्रुत्वा किंचिदुपशान्तचिन्तासंज्वरः शत्रुभुजयलोत्कर्षसंभावनाकृतामवज्ञाबुद्धिमात्मनि श्लथामकरोत् । अब्रवीच-'दण्डाधिप ! बाढमावर्जितोऽहममुना दूरविनिवारिताहङ्कारप्रवेशपेशलेन त्वदीयसौजन्येन । सदृशनिन्दाप्रशंसो मुनिरपि क ईदृशमात्मगुणापलापबद्धकक्षमरातिपक्षोत्कर्षवर्णनामुखरमखिलराजलोकसमक्षमुल्लपति, यादृक् त्वया सकलदिगन्तविश्रुतपराक्रमेण दक्षिणापथचक्रवर्तिना गदितम् । न केवलमव्याहतप्रसरया बाणसंहत्या महत्तयापि ते तिरस्कृतं भुवनमेतत् । कथमिव न प्रशस्यते स राजा देवराज अस्ति किम् ? नास्ति कोऽपीत्यर्थः, यः समरकर्मणा संग्रामक्रियया, धृताधिज्यधन्वानं धृताकृष्टधन्वानम् , त्वां विमुखं परावृत्तम् , करोति कुर्यात् । यत् तु यत् पुनः, मुख्यैः प्रधानः, नृपतिभिः राजभिः, समं सह, समकालमेव एककालमेव, इह अत्र, वश्यतां पराधीनताम् , आनीतोऽसि प्रापितोऽसि, स तु अन्यस्य मदतिरिक्तस्य, कस्यचित वस्तुनः, प्रभावः महिमा । अथवा अनेन केवलतत्प्रभावप्रतिपादनेन, किम् अलम् , दूरस्थोऽपि दूरे विद्यमानोऽपि, त्वमिति शेषः, दृष्टमात्रेण केवलमवलोकनेन, येन वस्तुना, तदा तस्मिन् काले, समिति युद्धे, प्रनष्टसकलचेष्टः विलीनाखिलचेष्टाशक्तिकः, मूछित इत्यर्थः, सातोऽसि संवृत्तोऽसि, तदेव वस्तु, ते तुभ्यम् , प्रकटं स्फुटम् , उपदर्शयामि दृष्टिगोचरतामापादयामि । इत्युदीर्य इत्युक्त्वा, तत्कालं तत्क्षणम् , आदिष्टनिकटराजलोकढौकितम् आदिष्टेन-आज्ञप्तेन, निकटराजलोकेन-पार्श्ववर्तिनृपजनेन, ढौकितम्-आनीतम् , अनेकमहाप्रभावमाणिक्यखचितमुद्रम् अनेकानि यानि महाप्रभावाणि-परमप्रभावशालीनि, माणिक्यानि-रत्नविशेषाः, तैः खचिता-व्याप्ता, मुद्रा-आकृतिविशेषो यस्य तादृशम् , अङ्कलीयकरत्नम् अकुल्यलकरणरत्नम्, अग्रतः अग्रे, अदर्शयत् दर्शितवान् । च पुनः, एतत् पुरोवर्ति अङ्गुलीयकरत्नम् , कुतः कस्मात् , प्राप्तं लब्धमिति पृष्टः जिज्ञासा ज्ञापितः, देवस्य भवतः, शक्रावतार. गमनातू प्रभृति तदाख्यतीर्थगमनादारभ्य, राजलक्ष्मीस्वस्थानगमनपर्यवसानं राजलक्ष्म्या यत् खस्थानगमन तत्पर्यन्तम् , पूर्ववृत्तं पूर्वनिष्पन्नम् , अखिलमपि अशेषमपि, ज्वलनप्रभदेववृत्तान्तं ज्वलनप्रभसंज्ञकदेवसमाचारम् , यथाश्रुतं श्रुतमनतिक्रम्य, अकथयत् कथितवान् [श]। सोऽपि नृपकुमारोऽपि, तद् उक्तवृत्तम् , श्रुत्वा, किञ्चिदुपशान्तचिन्तासंज्वरः किञ्चिदुपशान्तः-किश्चिन्निवृत्तः, चिन्तारूपः संज्वरः-सन्तापो यस्य तादृशः, शत्रुभुजबलोत्कर्षसम्भावनाकृतां शत्रूणां-वैरिणाम् , भुजबलस्य-बाहुविक्रमस्य, य उत्कर्षः-प्रकर्षः, तत्सम्भावनाजनिताम् , आत्मनि खविषये, अघझाबुद्धिम् तिरस्कारदृष्टिम् , श्लथां शिथिलाम् , अकरोत् कृतवान् । च पुनः, अब्रवीत् उक्तवान् , किमित्याह-दण्डाधिप ! चतुरङ्गसेनाध्यक्ष ! अहम् , दूरनिवारिताहङ्कारप्रवेशपेशलेन दूरनिवारितेन, अहङ्कारप्रवेशेन-अभिमानोदयेन, यत् पेशलं-मनोहर तादृशेन, अमुना, त्वदीयसौजन्येन त्वत्सुजनतया, बाढम् अत्यन्तम् , आवर्जितः आनमितः । सदृश निन्दाप्रशंसः सदृश्यौ-तुल्ये, निन्दा-प्रशंसे यस्य तादृशः, मुनिरपि कः, ईदृशम् एवंविधम् , आत्मगुणापलापबद्धकक्षम् आत्मगुणानां-खगुणानाम् , अपलापे-अपहवे, बद्धा-कक्षा अन्तरीयपश्चादञ्चलो यस्मिंस्तादृशम् , पुनः अरातिपक्षोत्कर्षवर्णनामुखरम् अरातिपक्षस्य-शत्रुपक्षस्य, य उत्कर्षः-प्रकर्षः, तद्वर्णनया, मुखरं-वाचालं यथा स्यात् तथेति सर्व क्रियाविशेषणम् , अखिलराजलोकसमक्षं सकलनृपजनसमक्षम् , उल्लपति लपति, न कोऽपीत्यर्थः, यादृक् यथा, सकलदिगन्तविश्रुतपराक्रमेण अखिलदिगन्तप्रसिद्धपराक्रमशालिना, पुनः दक्षिणापथचक्रवर्तिना दक्षिणदेशसम्राजा, त्वया, गदितम् उक्तम् । एतद् इदम् , भुवनं जगत् , केवलम् , अव्याइतप्रसरया अप्रतिहतप्रचारया, ते तव, वाणसंहत्या बाणसमूहेन, न तिस्कृतम् अभिभूतम् , किन्तु तादृश्या महत्त

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190