Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 165
________________ तिलकमञ्जरी। रुगमनशंसी. सागरोद्देशः, तटमिव पुरस्तरङ्गैरुल्ललद्भिरुद्भाव्यते कुरुत वंशक्षेपमन्तर्वारि, दुर्वात इव दृश्यते मुकुलयत सितपटरज्जुजालम् , अग्रतो विसारिमत्स्य इव वहति लम्बयत नांगरानविलम्बितं [] मित्राणि! मन्दोऽतिमात्रं मरुत्, प्रलम्वैर्वाहुभिर्वाहयत सत्वरमरित्राणि; मकरक! मनागुदञ्चय मार्गतटरुहश्चन्दनतरोरस्य तिरश्चीमुपरिशाखाम , मूर्ख ! किमधोमुखं स्थितोऽसि मुधा, बधान हस्त एनं मण्डूकमस्तकमणिम् , अवश्यं न दश्यसे दन्दशूकैः; सकुलक! विधेहि वेदोद्धारिणः शकुलस्य केलिम् , उद्धर रक्ततैलपङ्कमग्नमूलामिमां नावम् , अधीर! माऽवधीरय मद्वचः, विचर निराकुलो, नक्रवसयाऽञ्जितलोचनस्य स्थलं ते सकलमम्बुधिजलं; शम्बूक ! बाद प्रचलायसे, न चेतयसि ग्राहेणापि गृह्यमाणचरणः, चेतसि कृतं बैलक्ष्येण, क्षालय क्षारेण सामुद्रेण वारिणा वारं वारमास्य, यास्यति द्रागेव निद्रा सहेक्षणाभ्यां क्षयं राजिलक ! सर्जितोऽपि नोपरमसि, प्रगुणयायिनीमपि नावमागस्ती गतिं प्राहयसि, अस्ति कञ्चिन्न ते दिङ्मोहः ? यधुदाहृतामप्यहृदय ! न जानास्युत्तराशावर्तनीम् , प्रवर्तस्व दृष्ट्वा दृष्ला सप्तर्षिमण्डलम्' [अ] टिप्पनकम्-क्षेपीयः क्षिप्रतरम् [अं] । अवं च ऊर्ध्व भुत्पाटयन् (? उदञ्चय ऊर्ध्वमुत्पाटय) [अ]। निपीतः-तिरोभावितः, कल्लोलस्य-महातरजस्य, कालिमा-कृष्णता यस्मिंस्तादृशः, अत एव अनिलं पवनं, पातुम् , उद्यतस्य कृतोद्योगस्य, कस्यचित् अविज्ञातनामकस्य, महाहेः महासर्पस्य, उद्गमनशंसी उत्सर्पणावेदकः, अयं सागरोदेशः सागरान्तर्गतोन्नतदेशः, क्षेपीयः अतिशीघ्रम् , लवयताम् अतिक्रम्यताम् , यः सागरोद्देशः, पुरः अग्रे, उल्ललद्भिः उच्छलद्भिः, तरः, तटमिव तीरमिव, उद्भाव्यते प्रत्याय्यते, अत एव अन्तर्वारि जलमध्ये, वंशक्षेपं मानकृते गतिरोधनादिकृते वा वंशप्रक्षेपणं, कुरुत; पुनः दुर्वात इव उद्धतपवन इव, दृश्यते, अत एव सितपटरजुजालं सितपटाना-श्वेतवस्त्राणां, रजना च, जालं-समूह, मुकुलयत संकोचयत, पुनः अग्रे विसारिमत्स्य इव विसारिजातीयमत्स्यविशेष इव, वहति स्पन्दते, अत एव नांगरान् लाङ्गराणि, अविलम्बितं सत्वर, लम्बयत नमयत [अं]। पुनः मित्राणि! भो सखायः।, मरुतू पवनः, अतिमात्रम् अत्यन्तं, मन्दः अनुद्धतः, अस्तीति शेषः, अतः प्रलम्बै: दीर्धेः, बाहुभिः भुजैः, अरित्राणि नौसञ्चारणकाष्ठानि, वाहयत चालयत । पुनः मकरक! तत्संज्ञक1, मार्गतटरुहः भूततटप्ररूढस्य, अस्य पुरोवर्तिनः, चन्दनतरोः चन्दनवृक्षस्य, तिरश्चीं कुटिलाम् , उपरिशाखाम् अव॑शाखां, मनाक किश्चित् , उदञ्चय उन्नय, मूर्ख ! भो निष्प्रज्ञ!, मुधा व्यर्थम् , अधोमुखम् अवनतमुखं यथा स्यात् तथा, किम् ? किमर्थम् , स्थितः उपविष्टः, असि वर्तसे, एनम् इम, मण्डूकमस्तकमणि मण्डूकस्य-भेकस्य, मस्तके यो मणिः-रत्नं, तं हस्ते बधान गृहाण, दन्दशूकैः सर्वैः, अवश्यं निश्चितं, न दश्यसे तन्महिन्ना न दक्ष्यसे । सकुलक! तत्संज्ञक!, रक्ततैलपङ्कमग्नमूलां रक्त-रक्तवर्ण रुधिरस्वरूपं वा, यत् तैलं तन्मये, पङ्के-कर्दमे, मन्नं मूलं यस्यास्तादृशी, नावम् , उद्धर तत्पङ्कादुन्नय, वेदोद्धारिणः प्रलयपयोधेः वेदान् उद्धृतवतः, शकुलस्य मत्स्यविशेषस्य, केलिं लीला, विधेहि कुरु, अधीर धैर्यशून्य!, मद्वचः मद्वाक्यं, मा अवधीरय तिरस्कुरु, निराकुलः स्वस्थः सन् , विचर समुद्मार्गे विहर, नवसया नकाख्यजलचरमजया, अञ्जितलोचनस्य आतिनयनस्य, ते तव, सकलं समग्रम् , जलं समुद्रजलं, स्थलं स्थलतुल्यम् , अस्तीति शेषः । पुनः शम्बूक! तसंज्ञक!, बाढम् अत्यन्तं, प्रचलायसे घूर्णसे, ग्राहेणापि तदाख्यहिंस्रजलचरेणापि, गृहामाणचरणः आक्रम्यमाणपादोऽपि, न चेतयसे न अवधत्से, चेतसि मनसि, वैलक्ष्येण, विषादेन, कृतं व्यर्थ, क्षारेण क्षाररसान्वितेन, सामद्रण समुद्रसम्बन्धिना, वारिणा जलेन, वारंवारम् अनेकवारम् , आस्यं मुखं, मुखमण्डलमिति यावत् , क्षालय सिञ्च, द्रागेव शीघ्रमेव, ईक्षणाभ्यां नेत्राभ्यां, सह, निद्रा, क्षयं विनाशं, यास्यति प्राप्स्यति । पुनः राजिलक! तत्संज्ञक!, तर्जितोऽपि भर्तिसतोऽपि, न उपरमसि निवर्तसे, प्रगुणयायिनीमपि ऋजुगामिनीमपि,नावम् , आगस्तीम् अगस्त्यसम्बन्धिनी, दक्षिणामिति यावत् ,गर्ति मार्ग, ग्राहयसि गमयसि, ते तव, कच्चित् कोऽपि, दिङ्मोहः दिगभ्रमः, न ! खाभिलषितज्ञापनाय कृते प्रश्ने 'कच्चित्' इत्यस्य वर्तमानत्वाद् अधि

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190