Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 164
________________ टिप्पनक-परागविवृतिसंवलिता कलभसंवरणविहस्तयूथपं तीरशायि जलहस्तियूथमग्रपथेन पायोनिधिमवतिनीर्षति, त्वरितमुत्सारयत युगपदाहितेन हस्ततालशब्देन दूरम् ; असौ रसातलात् सद्य एवोन्मनो वनाग्निधूम्रिकामधीकल्माषपक्षसंपुटैः शिखरिभिरधिष्ठितपृष्ठभागो मठ इव सपारापतः संचरति कमठो, मा प्रतिष्ठध्वमभिमुखमेव निकषा प्रस्थितो नेष्यत्यपथेन नावम् औ] असावपि विदारितगिरिकन्दराकारतुण्डो मानदण्ड इव सागरस्य ग्रासीकृताकन्दजलकरिजटालवदनैर्बालमत्स्यैरनुसृताभिर्मत्सीभिरनुगम्यमानो मृगयते निजप्रासोचितं सत्त्वं सत्वरमितस्ततः स्तिमितया गत्या तिमिङ्गिलो, मा विधत्त कलकलं, यातु निभृतमेव, विकृत एष महतेऽनर्थाय; वश्यतामयमतिचटुलवीचिवेगाकृष्टैर्ऋमद्भिरन्तःकुलालचक्रमेण रिक्तोदरलघुभिररित्रैरावेदितो द्वारमिव रसातलस्य वामतः समीपवर्ती शीघ्रमावर्तो; लङ्घयतामयमपि क्षेपीयः क्षयसमयसन्ध्यानुरञ्जिताम्बरैकदेशविडम्बी दक्षिणतः प्रतिक्षणमुदश्चता फणचक्रवालरत्नरागपटलेन क्रमनिपीतकल्लोलकालिमा पातुमनिलमुद्यतस्य कस्यचिन्महाहे टिप्पनकम्-वल्लूरं-मांसम् । विहस्त:-व्याकुलः । कल्माषः-कर्पुरः । निकषा समीपम् [ औ] । जले, ज्वलन्तीः उद्दीप्यमानाः, अग्नितैलच्छटाः साग्मितैलधाराः, किरत क्षिपत । पुनः अकस्मात् अतर्कितम् अस्सदवलोकनक्षुभितम् अस्मदवलोकनेन-अस्मद्दर्शनेन, क्षुभितं-सम्भ्रान्तम् , पुनः उन्नस्तकलभसंवरणविहस्तयूथपम् उनस्तानां विभीतानां भयाद् भ्रान्तानामिति यावत्, कलभानां-हस्तिशावकानां, संवरणेन-संघटनेन, विहस्तः-व्यप्रहस्तः, यूथप:यूथाधिपहस्ती यस्मिंस्तादृशं, तीरशायि तटसुप्तम् , इदं जलहस्तियूथं, पाथोनिधि समुद्रम् , अवतितीर्षति अवतरीतुम् अवगाहितुम् इच्छति, युगपदाहितेन एककालावच्छेदेनोत्पादितेन, हस्ततालशब्देन प्रस्तहस्ततलध्वनिना, त्वरितं भीघ्रं, - दूरम् , उत्सारयत अपनयत, हस्तियूथमिति शेषः। पुनः रसातलात् पातालात् , सद्य एव तत्क्षणमेव, उन्मग्नः ऊर्च मागतः, पुनः वज्राग्निधूम्रिकामषीकल्माषपक्षसम्पुटैः वज्राग्निना-इन्द्रोत्क्षिप्तवज्रेण, धूम्रिकाणां-शिंशपावृक्षाणां, या मषी-ऋजलं, तेन कल्माष-चित्रं श्यामलं वा, पक्षसम्पुटं येषां तैः, शिखरिभिः पर्वतैः, अधिष्ठितपृष्ठभागः आक्रान्तपृष्ठप्रदेशः, असौ कमठः कच्छपः, सञ्चरति उद्गच्छति, क इव ? सपारापतः पारापतैः-कपोतैः, अधिष्ठितः, मठ इव देवालय इव, मा प्रतिष्ठध्वं प्रयात, अभिमुखमेव सम्मुखमेव, निकषा समीपं, प्रस्थितः कृतप्रयाणः, अपथेन कुमार्गण, नावं, नेष्यति समयिष्यति, असाविति शेषः [ख] । पुनः विदारितगिरिकन्दराकारतुण्डः विदारितविकासितं, गिरिकन्दराकार-पर्वतगुहाकार, तुण्डं-मुखं येन तादृशः, पुनः मानदण्ड इव परिच्छेदकदण्ड इव, सागरस्य समुद्रस्य, पुनः मत्सीभिः मत्स्यत्रीभिः, अनुगम्यमानः अनुत्रियमाणः, कीडशीभिः? ग्रासीकृताक्रन्दज्जलकरिजटालघदनैः प्रासीकृतैः-कवलितः, आक्रन्दद्भिः-सशब्दं रुदद्धिः, जलकरिभिः-जलहस्तिभिः, जटालं-व्याप्तं, वदनं येषां तादृशैः, बालमत्स्यैः शैशवावस्थमत्स्यैः, अनुसृताभिः अनुगताभिः, असावपि, तिमिङ्गिलः शतयोजनविस्तृतमत्स्यविशेषः, स्तिमितया स्थिरया, गल्या, इतस्ततः अत्र तत्र, सत्वरं शीघ्रं, निजप्रासोचितं खभक्षणयोग्य, सत्त्वं जीवं मृगयते अन्विष्यति, कलकलं कोलाहलं, मा विधत्त कुरुत, महते अधिकाय, अनर्थाय अहिताय, स्याद् इति शेषः, विकृतः दुरुद्यतः, एषः अयं, निभृतं स्थिरमेव यथा स्यात् तथा, यातु गच्छतु । पुनः अतिचटुलवीचिवेगाकृष्टैः अतिचटुला:अतिचञ्चलाः, ये वीचयः-तरजाः, तेषां वेगैः-आकृष्टः-कृताकर्षणैः, कुलालचक्रक्रमेण कुम्भकारचक्रभ्रमिप्रकारेण, अन्तः समुद्रस्य मध्ये, भ्रमद्भिः, रिक्तोदरलघुभिः रिक्त-जलरहितं, यद् उदरं मध्यभागः, तेन लघुभिः-लघुत्वमापन्नैः, संचालने गतगुरुत्वैरित्यर्थः, अरित्रैः नैकाचालनकाहः, आवेदितः ज्ञापितः, पुनः रसातलस्य पातालस्य, द्वारं प्रवेशस्थानमिव, वामतः वामभागे, समीपवती, अयम् , आवर्तः जलनमिः, शीघ्र वश्यतां प्रतार्यतां वज्यतामिति यावत् । पुनः क्षयसमयसन्ध्यानुरञ्जिताम्बरैकदेशविडम्बी क्षयसमये-प्रलयकाले, या सन्ध्या तया अनुरञ्जितं-रक्तीकृतं यदम्बरम्-आकाशः, तदेकदेशविडम्बी-तदेकदेशानुकारी, पुनः दक्षिणतः दक्षिणभागतः, प्रतिक्षणं प्रतिपलम्, उदश्चता उद्गच्छता, फणचक्रवालरत्नरागपटलेन फणमण्डलस्थरत्नसम्बन्धिरक्तिमसमूहेन, कमनिपीतकल्लोलकालिमा क्रमेण

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190