Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 150
________________ टिप्पन क - परागविवृतिसंवलिता शस्त्रपातविद्राविताखिलदस्युलोकञ्च शोकलम्बालकं सबालकमादाय तदीयमन्तःपुरपुरन्ध्रिसार्थमर्थसंभारं च भूयः स्वशिबिराभिमुखोऽभवम् [ थ ] । प्रस्थितस्य च प्रथम एव प्रयाणके मम त्रिभागशेषायां निशी - थिन्यामत्रिनामा भट्टपुत्रः 'क्व युवराजः, क्क युवराज:' इति पृच्छञ्जवनिरायतपातया नौकया निकटमाजगाम [द], जगाद च - " कृतप्रणामः कुमारसेनापतिर्विज्ञापयति योऽयमनतिदूरे दर्शित परिमण्डलाभोगदर्शनीयाकृतिरुन्नत्य पर्याप्ताम्बरो गौरीस्तन इव त्र्यम्बकोरःस्थलस्य स्थपुटयन् विस्तारमर्णवजलस्य वामतोऽत्रलोक्यते [ध ], एष चूडालंकारः पञ्च शैलकद्वीपस्य लीलावतंसकः सागरस्य क्रीड स्थाननगर ममरमिथुनानां सिद्धिक्षेत्रं विद्याधरगणानामप्रिमो रामणीयकेन सर्वपर्वतानां रत्नकूटो नाम सानुमान [ न ], एष किल हृदयस्खलन्मैथिलीविरहशोकशङ्कोर्लङ्कापुरीमभि प्रस्थितस्य दाशरथेराज्ञया पर्वतानाहरद्भिः प्लवगयूथाधिपैरुत्पाट्य हागिरेः सानुरानीतः [ प ], उपनीतश्च भुजबलावलेपादनादर प्रसारितैककरतलस्य सेनापतेर्नलस्य तेनापि २९२ टिप्पनकम्— नौकया लघुनावा [द] स्थपुटयन् निम्नोन्नतं कुर्वन् [घ] t कस्य, किरातराजस्य भिल्लाधिपतेः अप्रतर्कितम् आकस्मिकम् अवस्कन्दम् आक्रमणम्, अपातयं कृतवानहम् । व पुनः, अदयशस्त्रपातविद्राविताखिलदस्युलोकः अदयशस्त्रपातैः निर्दयशस्त्राघातैः-- विद्राविताः कारितपलायनाः, अखिला:- समस्ताः, दस्युलोका:- चौरशत्रुजना येन तादृशः, शोकलम्बालकं शोकेर लम्बमानकेशम्, सबालकं बालसहितं, तदीयं रिपुसम्बन्धिनम्, अन्तःपुरपुरन्धिसार्थम् अन्तःपुराङ्गनासमूहम् च पुनः, अर्थसंभारं धनराशिम्; आदाय गृहीत्वा भूयः पुनः स्वशिबिराभिमुखः स्वसैन्यावासाभिमुखः, तद्गमनोयत इत्यर्थः, अभवं जातः [थ ] | प्रस्थितस्य कृतप्रयाणकस्य प्रथम एव मम प्रयाणके प्रस्थाने, त्रिभागशेषायां अवशिष्टतृतीयभागायां, निशीथिन्यां रात्रौ, अत्रिनामा तत्संज्ञकः, भट्टपुत्रः भट्टकुमारः, 'क्व युवराजः क युवराज : ' अस्तीति शेषः, इति पृच्छन् प्रश्नं कुर्वन्, जव निरायतपातया जवेन वेगेन, निरायतः - अतिदीर्घः, पातः - सञ्चारो यस्यास्तादृश्या, जवनिरायत पताकया इति पाठे तु जवेन वेगेन, नितराम्, आयताः- दीर्घीभूताः, पताका यस्यास्तादृश्या, नौकया लघुनावा, निकटं समीपम्, आजगाम आगतवान् [द] । च पुनः, जगाद उक्तवान् । किमित्याह - कृतप्रणामः विहिताभिवादनः, कुमारसेनापतिः कुमारस्य - भवतः, सेनाध्यक्षः, विज्ञापयति सूचयति, यद्वा हे कुमार ! कृतप्रणामः सेनापतिर्विज्ञपायतीत्यर्थः किमित्याह- अनतिदूरे किचिद्दूरे, दर्शितपरिमण्डलाभोगदर्शनीयाकृतिः दर्शिता-दृष्टिगोचरतां गमिता, परिमण्डलेन-वर्तुलेन, आभोगेनविस्तारेण, दर्शनीया, आकृति : - आकारो येन तादृशः, पुनः उन्नत्य उन्नतो भूत्वा उद्गत्येत्यर्थः, पर्याप्ताम्बरः व्याप्तगगनमण्डलः, त्र्यम्बकोरःस्थलस्य शिववक्षःस्थलस्य, गौरीस्तन इव, अर्णवजलस्य समुद्रजलस्य, विस्तारं स्थपुटयन् आच्छादयन्, निम्नोन्नतं कुर्वन् वा, योऽयं, वामतः वामभागे, अवलोक्यते दृश्यते, एष सोऽयं रत्नकूटः अन्वर्थतत्संज्ञः, सानुमान् पर्वतः अस्तीति शेषः, नामेति वाक्यालङ्कारे, कीदृशः ! पञ्चशैलकद्वीपस्य पञ्चशैलाः पर्वताः सन्ति यस्मि नित्यन्वर्थ तत्संज्ञकद्वीपस्य, चूडालङ्कारः मस्तकालङ्कारः, पुनः सागरस्य समुद्रस्य, लीलावतंसकः क्रीडालङ्कारः, पुनः अमरमिथुनानां देवदम्पतीनां, क्रीडास्थानं क्रीडाक्षेत्रम्, विद्याधरगणानां विद्याधरः- प्राप्तातिशयमानुषविशेषः, तत्समूहानां सिद्धिक्षेत्रम् अणिमाद्यष्टसिद्धिपीठम्, पुनः रामणीयकेन सौन्दर्येण, सर्वपर्वतानां निखिलपर्वतानाम्, अग्रिमः अग्रेसरः [ न ] | हृदयस्खलन्मैथिली विरहशोकशङ्कोः हृदये स्खलन्-आपतन्, मैथिली विरइजन्यशोकरूपः शङ्कः--कीलको बागः शूलं वा यस्य तादृशस्य, पुनः लङ्कापुरीमभि लङ्काऽभिमुखं, प्रस्थितस्य कृतप्रस्थानस्य, दाशरथेः रामचन्द्रस्य, आज्ञया पर्वतान्, आहरद्भिः सेतुबन्धार्थमानयद्भिः प्लवगयूथाधिपैः मर्कटगगणाधिपैः, उत्पाट्य त्रोटयत्वा, हाटकगिरेः सुवर्णपर्वतस्य, सुमेरोरित्यर्थः, एषः सोऽयं, सानुः समस्थलरूप एकदेशः, किल निश्वयेन, आनीतः [ प ] । च पुनः, भुजबलावलेपात् बाहुबलाभिमानात्, अनादरप्रसः रितैककरतलस्य अनादरेण प्रसारितम् एकं

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190