Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 33
________________ तिलकमारी। . १७५ रणेन भर्तुरदर्शनेन च प्रकामकर्शितशरीराम् , उज्झितालङ्कारामप्यकृत्रिमेण कान्तिसुकुमारतादिगुणपरिगृहीतेनाङ्गमाधुर्येण सुकविवाचमिय सहृदयानां हृदयमावर्जयन्तीम् , ज्योत्स्नावदातनिर्मलाम्बरधारिणी राकारजनिमिव, वारंवारमधिगताधिकविकाशसंपदा मुखेन परिपूर्णमिन्दुमण्डलं तुलयन्तीम् , उपनीतविविधवस्त्राभरणमुत्सवागतं बन्धुवनितावर्ग सहस्रगुणमूल्यैरंशुकै रनालङ्कारैश्च संभावयन्तीम् , शक्रावतारगमने सबहुमानेन वेमानिकदर्शने सविस्मयेन दिव्यहाराङ्गुलीयकालङ्कारलाभे सपरितोषेण वैतालरूपव्यावर्णेन सत्रासेन कण्ठच्छेदसमये समासादितमूर्छन राजलक्ष्मीनर्मभाषितश्रवणे सहासोल्लासेन भाविखेचरचक्रसाम्राज्यसुतवरप्राप्स्यवसरे समारूढपरमानन्दनिःष्यन्देन मनसा पार्श्ववर्तिपरिजननिवेद्यमान पत्युरतिक्रान्तयामिनीवृत्तान्तमाकर्णयन्तीम् , पुनः सकलराज्यसुखोपभोगेषु सकलानि-समस्तानि, यानि राज्यसुखानि, तेषामुपभोगेषु-अनुभवेषु, निगृहीत. वृत्तिना निरुद्धमनोवृत्तिना; पुनः अतिदुष्करेण अतिदुःखसाध्येन च पुनः, भर्तुः पत्युर्मेघवाहनस्य, अदर्शनेन दर्शनाभावदुःखेन; पुनः कीदृशीम् ? उज्झितालङ्कारामपि त्यक्ताभरणामपि, पक्षे त्यक्तानुप्रासोपमायलङ्कारामपि, सुकविवाचमिव सत्कविवाणीमिव, अकृत्रिमेण स्वाभाविकेन, कान्तिसुकुमारतादिगुणपरिगृहीतेन कान्तिःदेहधुतिः, सुकुमारता-अतिकोमलता च आदियेषां तादृशः गुणैः, परिगृहीतेन-अन्वितेन, अङ्गमाधुर्येण शरीरसौन्दर्येण, पक्षे कान्तिः-औज्वल्यम् , हालिकादिपदविन्यासवैपरीत्येन विजातीयशोभाशालित्वमिति यावत् , सुकुमारता-अक्षराणाम्पारुष्यम्, तत्प्रभृतयो ये गुणा:-भात्मनः शोर्यादय इव रसस्योत्कर्षका धर्माः, तैः परिगृहीतेन, अङ्गमाधुर्येण अङ्गस्य-काव्यशरीरभूतस्य शब्दस्य, यन्माधुर्य-श्रुतिसुखाधायकत्वं तेन, सहृदयानां ददयवताम् , चेतनानामित्यर्थः, पक्षे काव्यार्थपरिशीलनपरिणतमतीनाम्, हृदयम् अन्तःकरणम्, आवर्जयन्तीम् आकर्षन्तीम्, पुनः राकारजनिमिव पूर्णिमारात्रिमिव, ज्योत्सनावदातनिर्मलाम्बरधारिणी ज्योत्स्नावत्-चन्द्रिकावत् , अवदातः-धवलः, निर्मल:-स्वच्छश्च, योऽम्बरः-वस्त्रम् , तद्धारिणीम् , पक्षे ज्योत्स्नया-चन्द्रिकया, अवदातं निर्मलं च यदम्बरम्-आकाशम्, तद्धारिणीम् , पुनः अधिगताधिकविकाससम्पदा अधिगता-प्राप्ता, अधिका-विपुला, विकाससम्पत्-प्रकाशसम्पत्तिर्येन तादृशेन, मुखेन, वारं वारं पुनः पुनः, परिपूर्ण-सम्पूर्णम् , इन्दुमण्डलं चन्द्रमण्डलम् , तुलयन्तीम् उपमिन्वतीम् , पुनः उपनीतविविधवस्त्राभरणम् उपनीतानि-उपहृतानि, विविधानि वस्त्राणि, आभरणानि-आभूषणानि च येन तादृशम् , उत्सवागतम् उत्सवप्रसङ्गेनागतम्, बन्धुवनितावर्ग स्वबन्धुरूपनारीगणम् , सहस्रगुणमूल्यैः तदुपनीतवस्त्राभरणमूल्यापेक्षया सहस्रगुणानि-सहस्रगुणाधिकानि, मूल्यानि-निष्क्रयद्रव्याणि, येषां तादृशः, अंशुकैः श्लक्ष्णवस्त्रैः, कौशेयवस्वैरिति यावत् ; च पुनः, रत्नालङ्कारैः रममयाभूषणैः, सम्भावयन्ती सत्कुर्वतीम् । पुनः पार्श्ववर्तिपरिजननिवेद्यमानं पार्श्ववर्तिपरिजनेन-निकटवर्तिपरिवारेण, बोध्यमानम् , पत्युः मेघवाहनस्य, अतिक्रान्तयामिनीवृत्तान्तं व्यतीतरात्रिसमाचारम् , मनसा हृदयेन, आकणेयन्ती शृण्वतीम्, कीदृशेन मनसा? शक्रावतारगमने शकावताराख्यतीर्थप्रयाणश्रवणक्षणे, स बहुमानसहितेन; पुनः वैमानिकदर्शने विमानवासिदेवदर्शनश्रवणक्षणे, सविस्मयेन आश्चर्यान्वितेन; पुनः दिव्यहारालीयकालङ्कारलाभे परमोत्तमहाराहुलीयकरूपाभरणप्राप्तिश्रवणक्षणे, सपरितोषेण सन्तुष्टेन; पुनः वेतालरूप. व्यावर्णने देतालसम्बन्धिभयङ्कराकृतिवर्णनश्रवणक्षणे, सत्रासेन भीतेन; पुनः कण्ठच्छेदसमये कष्ठकर्तनश्रवणक्षणे, समासादितमूर्छन मूच्छितेन; पुनः राजलक्ष्मीनर्मभाषितश्रवणे राजलक्ष्म्याः -राजवैभवाधिष्ठातृदेव्याः, नर्मणा भाषितम्-उत्तम, तस्य श्रवणे-श्रवणक्षणे, सहसोलासेन सहसा-शीघ्रम् , उल्लास:-आनन्दो यस्य तादृशेन, सहासोल्लासेनेति पाठे हासेन सहितः सहासः, हासपूर्वक उल्लासो यस्य तादृशेन पुनः भाविखेचरचक्रसाम्राज्यसुतवरप्राप्स्यवसरे खेवरचक्रस्य-विद्याधरसमूहस्य, यत् साम्राज्य-सम्राट्वम्, तद् भावि-भविष्यद् यस्य तादृशो यः सुतःपुत्रः, तदर्थवरलाभश्रवणक्षणे, समारूढपरमानन्दनिःस्यन्देन समारूढः-समासादितः, परमानन्दस्य-अत्यानन्दामृतस्य, निःस्यन्दः-प्रस्रवणम् ,प्रादुर्भाव इति यावत् , येन.तादृशेन । पुनः कीदृशीम् ? अन्तःपुरविलासिनीभिः अन्तःपुरवधूभिः, परिवृतां वेष्टिताम् , कीदृशीभिः ? अनतिदूरवर्तिनीभिः निकटवर्तिनीभिः; पुनः संनिधापितसितकुसुमदामदूर्वाक्षतधिलवाभिः संनिधापिताः-मङ्गलार्थमुपस्थापिताः, सितकुसुमदानः-श्वेतपुष्पमाल्यस्य, दूर्वायाः-तदाख्यतृणविशेषस्य,

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190