Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 153
________________ तिलकमञ्जरी । २९५ कुलिशपातशङ्काविदीर्णहृदयनिर्गलत्प्राणैरिव निशम्यमानो मैनाकवग्र्यैर्गिरिभिः समन्तात् तस्तार दिगन्तराणि तारगम्भीरः सैन्यावासमेरीध्वनिः [र], येन श्रुतिविषय मायातेन स्तम्भितेवाऽऽहूतेव दत्ताज्ञेव सावरूथिनी क्षणमेकमखापि निश्चला बभूव, उच्चचाल च गतिरभसचलितध्वजावचूलचामरा प्रत्यचलम, अन्योऽन्यसंघट्टविघटितानेकयानपात्रा च प्राप कष्टेन घट्टोद्देशम् [ ल ] । अथ दशाशामुखविसर्पी सर्पितस्तास्तुमुलेन प्रतिवेलमास्फालितवेलातटानामुदधिवीचीनामुदचता दूरमश्रान्तसंतानेन कलकलेन विघटितजलदेवतावृन्द निद्रः [ व ] 'भद्र ! सर पुरः किञ्चित्; आर्य ! देहि गमनमार्गम्; अङ्ग ! मा पीडय ममाङ्गमङ्गेन; मङ्गलक ↓ कोऽयं बलदर्पः ? कूर्पराघातैः परानाहंसि; हंस ! हस्य से दूरमुत्क्षिप्तनिष सनाग्र पल्लवोऽनया, लावण्यवति ! पृष्ठतो निबिडलग्ना पीडयसि मामन्तर्बहिश्चातिनिष्ठुरेण वल्गता पुरस्तनपीठेन; तरङ्गिके ! दूरमपसर, विनिता गतिस्तव टिप्पनकम् - तालतुमुलेन उच्चाव्यक्तशब्देन [व] | मानानि दीर्घीभवन्तीत्यर्थः पुनः गुहामुखात् कन्दराग्रात् उत्पतन्ति - उच्छलन्ति, केसरिकुलानि - सिंहगणा येषु तादृशैः, मैनाकवयैः मैनाकजातीयैः, गिरिभिः पर्वतैः कुलिशपातशङ्काविदीर्णहृदय निर्गलप्राणैरिव कुलिशपातशङ्कयावज्रपातशङ्कया, विदीर्णात् पाटितात्, हृदयात, निर्गलन्तः- निर्गच्छन्तः प्राणा येषां तादृशैरिवेत्युत्प्रेक्षा, निशम्यमानः श्रूयमाणः [र] | श्रुतिविषयं श्रवणगोचरताम्, आयातेन आगतेन प्राप्तेनेत्यर्थः, येन मेरीध्वनिना, स्तम्भितेव निरुद्धेव आहूतेव कृताहानेव, दत्ताज्ञेव कृतादेशेव, अखिलापि समस्तापि, वरूथिनी सेना, एकं क्षणं निश्चला स्थिरा, बभूव अभूत् । च पुनः, गतिरभसचलितध्वजावचूल वामरा गतिरभसेन-गमन वेगेन, चलितानि - उद्धूतानि, ध्वजावचूलचामराणि - ध्वजाधोमुखशिख चामराणि यस्यां तादृशी सती, च पुनः प्रत्यचलं पर्वतं प्रति, उच्चचाल उत्कर्षेण चलितवती । अन्योऽन्यसङ्घट्ट विघटितानेकयानपात्रा अन्योऽन्यसङ्घट्टेन- परस्पर सङ्घर्षेण, विघटितानि - विश्लेषितानि, विदारितानीति यावत्, अनेकानि यानपात्राणि - पोता यस्यास्तादृशी सती, कष्टेन क्लेशेन, घट्टोद्देशं तीरोर्ध्वदेश, प्राप प्राप्तवती [ल ] | अथ अनन्तरं शिबिरलोकस्य सैनिकजनस्य, कलकलः कोलाहलः, 'उल्ललास उदभूत्' इत्यत्रेणान्वेति कीदृश: ? दशाशामुखविसर्पी दशदिगन्त प्रसरणशीलः, पुनः प्रतिवेलं तस्यां तस्यां जलधिनीरविकाररूपायां वेलायाम्, आस्फालितवेलातटानाम् आइतनिरुक्तवेलाविषयतीराणाम् उदधिवीचीनां समुद्रतरङ्गाणां, दूरम्, उदञ्चता उद्गच्छता, पुनः अधान्तसन्तानेन अविच्छिन्नपरम्परेण, पुनः तारतुमुलेन उच्चगम्भीरेण, कलकलेन - कोलाहलेन, विसर्पितः प्रसारितः, वर्धित इति यावत् । पुनः कीदृशः कलकलः ? विघटितजलदेवता वृन्दनिद्रः विघटिता- विध्वंसिता, जलदेवतावृन्दस्य जलवासिदेवगणस्य, निद्रा येन तादृशः पुनः इत्यादिश्श्रूयमाणानेक सैनिकशतालापः इत्यादयःएवंविधाः श्रूयमाणा अनेके सैनिकशतस्य - शतसंख्यक सैनिकानाम्, आलापाः - आभाषणानि यस्मिंस्तादृश इति दूरवर्तिविशेषणान्तरम् [ व ], तत्र किमादयस्तदालापा इत्याह · भद्र कल्याणिन् ! पुर: अग्रे, किञ्चित् ईषत् सर गच्छ; आर्य! श्रेष्ठ !, गमनमार्ग गमनावकाशं, देहि; अङ्ग ! भो ! मम अङ्गं शरीरावयवम्, अङ्गेन शरीरावयवेन, तत्संघट्टनेनेत्यर्थः, मान, पीडय व्यथय; मङ्गलक ! कल्याणिन् ! यद्वा तत्संज्ञक1 अयम् अनुभूयमानः, बलदर्पः बलगर्वः कः ? येनेति शेषः, कूर्पराघातैः भुजमध्यप्रन्थिकृताभिघातैः, परान् अन्यान्, आहंसि ताडयसि; हंस ! तत्संज्ञक !, दूरमुत्क्षिप्त निवसनाग्रपल्लवः दूरमुत्क्षिप्तः - आर्द्रताभयादत्यन्तमुपरिगात्रे समानीतः, निवसनापत्रः - वस्त्रप्रान्तभागरूपः पलवो येन तादृशः, अनया स्त्रिया, हस्यसे विडम्ब्य से; लावण्य वति ! सौन्दर्यवति !, पृष्ठतः पृष्ठभागे, निबिडलग्ना अतिसंसृष्टा, त्वमिति शेषः, अतिनिष्ठुरेण अतिकठिनेन, पुनः पुरः अमे, चलता गच्छता, स्तनपीठेन स्तनतलेन, अन्तः मनसि बहिश्च बाह्यप्रदेशे च पीडयसि क्लेशयसि तरङ्गिके ! तन्नाम्नि ! दूरम्, अपसर अपगच्छ, तव जघनभित्त्या कटिपुरोभागरूपभित्त्या, सर्वतः सर्वभागेषु, निरुद्धमार्गस्य

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190