Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 158
________________ टिप्पनक - परागविषृतिसंबलिता यानवहंसयुथानाम्, आभरणनिस्वन इव स्वनिवासवीथिप्रस्थितानामसुरनगराभिसारिकाश्रातानाम्, अनारंतप्रसृतमुरजमृदङ्गझल्लरीकांस्यतालझाकृतिः, अन्तरान्तरा विसर्पदुच्छृङ्खल शङ्खकाहलाकोलाहलः, स्फुटप्रसृतटङ्कारेण वारंवार मास्फालित द्विगुणबाहुफलकानामुल्ला सितो मल्लाना मास्फोटरवेण, सविस्तरस्तुतिवृत्तपाठपुर : सरीभिरितस्ततो विस्तारितस्तारमुश्चरन्तीभिश्चतुरचारणवृन्द जयशब्दपरम्पराभिः, अनेकवेणुवीणारव सहस्रसंवर्धितः, प्लावयन्निवामृतस्रोतसा गगनमार्गमाजगाम तं प्रदेशम तिशयश्रव्य दिव्यमङ्गलगीतनिनदः [ आ ] | श्रुत्वा च तमहमश्रुतपूर्वमवधान निश्चलेन चेतसा परमयोगीव क्षणमात्रमुपजाततत्प्रभवदर्शनाभिलाषः प्रेष्य निकटवर्तिनं नरेन्द्रलोकमात्मपरिजनं च पार्श्वविधृतचामरच्छत्रधारादिद्वित्रपरिचारकः, तत्कालमन्तिकस्थमुदधिकूलासन्नसलिलस्थिरावस्थापितनावमच्छिन्नसंतानमागच्छतस्तस्य गीतध्वनेर्दत्तावधानं ध्याननिश्चलनयनतारकं तारकमवोचम् [इ] - 'सखे ! किमपि सुन्दरो गीतनिःष्यन्दः श्रुतिविषयमवतरन्नेष वारंवारमभिनवाम्भोदगर्जीद्वार www.www. ३०० टिप्पनकम् – कांस्यताळा:- कंसालकानि [ आ ] । नष्टा- क्षीणा, निद्रा येषां तादृशानां वरुणयानहंसयूथानां वरुणः - पश्चिमाशापतिः, तस्य यानभूताः - वाहनभूत ये हंसातेषां यूथानां - राशीनाम्, विरुतसंघात इव निनादसमूह इव, पुनः स्वनिवासवीथिप्रस्थितानां निजवासपङ्क्तिप्रयात्तानाम्, असुरनगराभिसारिकावातानां राक्षसपुरवास्तव्यव्यभिचारिणीगणानाम्, आभरणनिखन इव अलङ्करणझणत्कार इवः पुनः अनारतप्रसृतमुरज- मृदङ्ग - झल्लरी कांस्यतालझात्कृतिः अनारतप्रसृता - अविरत प्रवृद्धा, मुरज- मृदङ्ग -झलरी- कांस्यतालानां तत्तदाख्य वाद्यविशेषाणां ज्ञात्कृतिः- ध्वनिविशेषो यस्मिंस्तादृशः; पुनः अन्तरान्तरा मध्ये मध्ये, विसर्पदुच्छृङ्खल शङ्ख- काहलाकोलाहलः विसर्पन्- प्रसरन्, उच्छृङ्खल : - उचः, शङ्खस्य, काहलायाःमहाढक्कायाः, कोलाहलः--ध्वनियस्मिंस्तादृशः पुनः स्फुटप्रसृतटङ्कारेण स्फुटं स्पष्टं यथा स्यात् तथा प्रसृतः प्रवृद्धः, टङ्कारः- ध्वनिविशेषो येन तादृशेन, वारं वारम् अनेकवारम्, आस्फालित द्विगुणबाहुफलकानाम् आस्फालितेन - आहननेन यद्वा आस्फालिते- आहते, द्विगुणे--द्विगुणस्थूले, बाहुफलके--भुजपरिघी येषां यैर्वा तेषां मल्लानां मल्लपुरुषाणाम्, भास्फोटरवेण भुजास्फालनध्वनिना, उल्लासितः उन्नमितः; पुनः चतुरचारणवृन्दजयशब्दपरम्पराभिः चतुरस्यनिपुणस्य, चारणवृन्दस्य - बन्दिगणस्य, जयशब्दपरम्पराभिः --जयकार श्रेणीभिः इतस्ततः अत्र तत्र, विस्तारितः वर्धितः, कीदृशीभिः ? सविस्तरस्तुतिवृत्तपाठपुरस्सरीभिः सविस्तरः- विस्तारसहितो यः स्तुतिपाठ - वृत्तयोः - प्रशंसाचारित्रयोः, पाठ: - कीर्तनं, तत्पुरस्सरीभिः- तत्प्रमुखाभिः पुनः सारम् उच्चैः, उच्चरन्तीभि उद्गच्छन्तीभिः पुनः अनेकवेणु-वीणारवसहस्रसंवर्धितः अनेकेषां वेणूनां वंशमयवाद्यानां, वीणानां च रवसहस्रैः सहस्र संख्याकध्वनिभिः, संवर्धितः विस्तारितः; किं कुर्वन्निव ? अमृतस्त्रोतसा अमृतप्रवाहेण, गगनमार्गम् आकाशमार्गम्, प्लावयन्निव प्रवाहयन्निवः पुनः कीदृशः ? अतिशयश्रव्यः अत्यन्तश्रवणार्हः [आ] | अहं परमयोगीव उत्कृष्टयोगीव, अवधाननिश्चलेन ऐकाम्यस्थिरेण चेतसा, अश्रुतपूर्व पूर्वमतं तं निनदं श्रुत्वा, क्षणमात्रं किञ्चित्कालम्, उपजाततत्प्रभवदर्शनाभिलाषः उपजातः- उत्पन्नः, तत्प्रभवस्य - तदुत्पत्तिस्थानस्य, दर्शनाभिलाषः - साक्षात्काराभिलाषो यस्य तादृशः, निकटवर्तिनं पार्श्ववर्तिनं, नरेन्द्रलोकं नृपजनम्, आत्मपरिजनं स्वपरिवारं च, प्रेष्य प्रस्थाप्य, पार्श्वविधृतचामरच्छत्रधारादिद्वित्रपरिचारकः पार्श्वेनिकटे, विधृताः - अवस्थापिताः, चामरच्छत्र धारादयः, द्वित्राः द्वौ वा त्रयो वा परिचारकाः - सेवका येन तादृशः, तारकं तदाख्यकर्णधारकम् अवोचम् उक्तवान् कीदृशम् ? तत्कालं तत्क्षणम् अन्तिकस्थं निकटस्थम्, पुनः उदधिकूलासन्नसलिलस्थिरावस्थापितनावम् उदधिकूलस्य - समुद्रतटस्य, आसने-निकटे, सलिले- जले, स्थिरं यथा स्यात् तथा, अवस्थापिता- धृता नौर्येन तादृशम्, पुनः अच्छिन्नसन्तानम् अविरतसन्ततिकं यथा स्यात् तथा, आगच्छतः आपततः, तस्य प्रकृतस्य, गीतध्वनेः गानशब्दस्य, तच्छ्रवण इत्यर्थः, दत्तावधानं समाहितहृदयं, ध्याननिश्चलनयनतारकं ध्यानेन - मनःसमाधानेन, निश्चला-स्थिरा, नयनतारका - नेत्र कनीनिका यस्य तादृशम् [इ] । किमवोचमित्याह - सखे ! मित्र !, किमपि सुन्दरः अनिर्वचनीयमनोहरः, एषः गीतनिःष्यन्दः गीतप्रवाहः, गीतनिनाद इति पाठे तु गानध्वनिः, वारं

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190