Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 87
________________ २२९ विलकमलरी। सुचिरमीपस्मितः समभाषत-वत्स! स्वागतं ते, साधुकृतं यदत्रागतोऽसि, अनेन तव निसर्गसुन्दरेण दृष्टमात्रेण देहाकारेण पुरुषकारेणेव श्रुतेन श्रोत्रमानन्दितं मे किमपि नेत्रयुग्मम् , धन्यस्त्वमेको जगति यस्मादुपजातमात्मनः पराजयं विजयमिव सभासु शंसति प्रीतिविकसिताक्षो विपक्षलोकः, तोकमुपजनयता भवन्तमस्तोकसंचितसुकृतसंभारेण धारितो धुरि समस्तानां पुत्रिणामात्मा महात्मना सिंहलेश्वरेण, तेजस्विसंगमेषु स्फुरदधिकोजसा सहजमार्दवगुणोपेतेन स्थिरप्रकृतिना त्वयैकेन भूषितं पुरुषरत्नेन परुषतरलैर्बहुभिरपि पाषाणरत्नैः परिष्कृताय प्रायो न मे गृहं स्पृहयत्यद्य सिंहलद्वीपाय, सर्वथा कृतार्थोऽहम् , अद्य फलितो मे दक्षिणापथविजयः, अद्य श्लाघनीयतां गतमिदं राज्यम् , अद्याधिगतपरिपूर्णशोभेयमुपजाता सभा, शिरश्छेदसाहसदर्शनादधिकपरितुष्टया दिव्याङ्गुलीयकार्पणव्यपदेशेन देशान्तरादानीय दत्तोऽसि मे द्वितीयस्त्वमात्मजो राजलक्ष्म्या । सामान्यममुना कुमारेण सह तवेदं राज्यमारव यदृच्छया भावितभूरिनिर्वृतिः [] मनसि मा स्म मंस्था:-यथाहमानीतः परैरिति, न कश्चिदप्यत्र परः, सर्वोऽप्येष तव पर्वतस्येव मैनाकस्म साचीकृता-तिर्यककृता, शिरोधरा प्रीवा यस्य तादृशः, सुचिरम् अतिदीर्घकालम् , ईषत्सितः इषद्धसितः, समभाषित आलपितवान् । किमित्याह-वत्स! भोः कुमार 1, ते सब, खागत-शोभनमागमनम् , अत्र मत्सविधे, यदागतोऽसि यदागमनं कृतम् , तत् साधु सभीचीनं कृतम् । निसर्गसुन्दरेण खभावमनोहरेण, अनेन पुरोवर्तिना, तव देहाकारेण शरीराङ्गसभिवेशेन, बष्टमात्रेण दृष्टिगोचरीभूतमात्रेण, मे मम, नेत्रयुग्मं नयनद्वयम् , किमपि अनिर्वचनीयप्रकारम् , आनन्दितम् आनन्दमनुभावितम् , केन किमिव ? श्रुतेन श्रवणगोचरीकृतेन, पुरुषकारेण पराक्रमेण, श्रोत्रमिव श्रवणेन्द्रियमिव । जगति लोके, एका अद्वितीयः, त्वं, धन्यः श्लाघ्यः, वर्तसे इति शेषः, यस्मात् त्वत्तः, उपजातम् उत्पन्नम, आत्मनः खस्य, पराजयं विजयमिव, प्रीतिविकसिताक्षः प्रेमप्रफुल्लितनेत्रः, विपक्षलोकः रिपुजनः, सभास जनतास, शंसति कथयति, श्लाघत इत्यर्थः । भवन्तं त्वद्रूपम् , तोकम् अपत्यम् , उपजनयता उत्पादयता, अत एवं अस्तोकसञ्चितसुकृतसम्भारेण अस्तोक:-अनल्पः, सञ्चितः-संगृहीतः, सुकृतसम्भारः-पुण्यराभिर्येन तादृशेन, महात्मना पूज्यात्मना, सिंहलेश्वरेण सिंहलद्वीपनृपेण चन्द्रकेतुना, समस्तानां सकलानाम् , पुत्रिणां-पुत्रवताम् , धुरि अने, मात्मा खः, धारितः स्थापितः, पुत्रवतां प्रथमो जात इत्यर्थः । तेजखिसङ्गमेषु पराक्रमिगणेषु, स्फुरदधिकौजसा प्रकाशमानप्रचुरपराक्रमेण, सहजमार्दवगुणोपेतेन स्वाभाविकमृदुत्वगुणशालिना, स्थिरप्रकृतिना प्रकृत्या स्थिरेण, स्वया त्वद्रूपेण, एकेन अद्वितीयेन, पुरुषरत्नेन पुरुषाणां मध्ये रमरूपेण, भूषितम् अलङ्कतम् , मे मम, गृहम् , परुषतरलैः परुषाणि-कठोराणि च तानि, तरलानि च तैः, बहुभिरपि प्रचुरैरपि, पाषाणरत्ने प्रस्तररनैः, परिष्कृताय विभूषिताय, सिंहलद्वीपाय सिंहलाख्यद्वीपविशेषाय, अद्य अस्मिन् दिने, न स्पृहयति स्पृहां करोति, प्रत्युत, तिरस्करो. तीत्यर्थः । अहं सर्वथा सर्वप्रकारेण, कृतार्थः सिद्धार्थः, अस्मीति शेषः । अद्य अस्मिन् दिने, इदं भवद्विभूषितम् , राज्य श्लाघनीयतां प्रशंसनीयताम् , गतं प्राप्तम् , अध अस्मिन् दिने, मे मम, दक्षिणापथविजयः दक्षिणापथस्त्रऋक्षवदवन्तिनगरीमतिक्रम्य दक्षिणदिग्वर्तिदेशविशेषस्य विजयः, सफल:-भवादृशप्राया सफलतां गतः। अद्य अस्मिन् दिने, इयं प्रत्यक्षभूता, समा राजपरिषत् , अधिगतपरिपूर्णशोभा प्राप्तनिरतिशयसौन्दर्या, उपजाता सम्पना । शिरश्छेदसाहसदर्शनात् खशिरःकर्तनाकातरताऽवलोकनात् , अधिकपरितुष्टया अतिसन्तुष्टया, राजलक्ष्म्या राजोपास्यलक्ष्मीदेच्या, दिव्याङ्गलीयकार्पणव्यपदेशेन मनोहराहुलीयकवितरणद्वारा, देशान्तरात् अन्यदेशात्, सिंहलद्वीपादित्यर्थः, आनीय आकृष्य, द्वितीयः हरिवाहनादन्यः, मे मम, आत्मजः पुत्रः, त्वं दत्तोऽसि समर्पितोऽसि । अमुना हरिवाहनेन कुमारेण सह तव इदं राज्य, सामान्यं तुल्यम् , यदृच्छया यथेच्छम् , भावितभूरिनिर्वृतिः अनुभूताधिकसुखः सन्, भास्व उपविश [ई]। मनसि खहृदि, मा स्स मंस्थाः न मन्यताम् , यथा यत् , अहं, परैः शत्रुभिः, अन्यैर्वा, भानीतः बलादाकृष्योपस्थापित इति । अत्र अस्मिन् स्थाने, कश्चिदपि कोऽपि, परः शत्रुः, अन्यो वा, न नाति, अपि स्वात्मीय एवेत्यर्थः । मैनाकस्य तदाख्यख, पर्वतस्येव पर्वतविशेषस्पेव, तव समरकेतोः, एषः सनिष्टः,

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190