Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 32
________________ १७४ टिप्पनक-परागविवृतिसंवलिता प्रवेश्य प्रत्येकशः कारितप्रणाममुपनीतविविधोपायनकलापं द्वीपान्तरायातमवनीपतीनां प्रधानप्रणधिलोकमवलोकनासनदानसंभाषणादिना यथोचितं प्रयुक्तेनोपचारेण पूजयित्वा स्थित्वा च क्षणं विसर्जितास्थानलोकः स्तोकशुचिसमाचारपरिचारकपरिवृत्तः सर्वतः कृतालोकेन पुरतः प्रसर्पता गतिरभसदोलायमानकजलस्निग्धनीलशिखाकलापेन दीपिकानिवहेन वेत्रधारीसमूहेन च समकालमावेद्यमानवा शुद्धान्तमगच्छत् [घ]॥ ___ तत्र चाविरलविप्रकीर्णपुष्पबलिशबलितातिमसृगमणिकुट्टिमे विकटपत्रभङ्गचित्रितचामीकरस्तम्भविरचनाचारुण्युपरिविस्तारिततारनेत्रपटविताने वितानकप्रान्तलम्बमानलोलमुक्तास्रजि ज्वलदकम्पयष्टिप्रदीपप्रकटितप्रशस्तभित्तिचित्रे सुकल्पिताचरणतल्पतलोपशोभिनि शय्याशिरोभागनिहितधौतकलधौतनिद्रा कलशो विशालवेश्मनि कृतावस्थानाम् , निवर्तितनिरन्तराहारग्रहणेन निगृहीतवृत्तिना सफलराज्यसुखोपभोगेष्वतिदुष्करेण व्रवच एकैकशः, कारितप्रणामं विधापिताभिवादनम्, उपनीतविविधोपायनकलापम् उपनीतः-आनीतः, विविधानाम्अनेकविधानाम् , उपायनाना-प्राभूतानाम् , कलापः-समूहो येन तादृशम् , द्वीपान्तरायातम् अन्यद्वीपेभ्य आगतम् , अवनीपतीनाम् राज्ञाम् , प्रधानप्रणधिलोकं प्रधानदूतजनम् , यथोचितं यथायोग्यम् , प्रयुक्तेन अनुष्ठितेन, अवलोकनासनदानसम्भाषणादिना दर्शनोपवेशनाऽऽलापप्रभृतिना, उपचारेण पूजोपकरणेन, पूजयित्वा, च पुनः, क्षणं मुहूर्तम् स्थित्वा, विलम्ब्य, विसर्जितास्थानलोकः वक्तसभोपविष्टजनः सन् , शुद्धान्तम् अन्तःपुरम् , अगच्छत् गतवान् कीदृशः! स्तोकशचिसमाचारपरिचारकपरिवतः शुचिः-पूतः. समाचार:-चरितं.यस्य तादृशेन. स्तोकेनपरिमितेन, परिचारकेण-सेवकेन, परिवृतः-परिवेष्टितः; पुनः दीपिकानिवहेन दीपिकासमूहेन, वेत्रधारीसमूहेन द्वारपालिकासमूहेन च, समकालं युगपत् , आवेद्यमानवमा आवेद्यमान-दर्यमानम् , धर्म-मार्गो यस्य तादृशः; कीदृशेन तेन ! सर्वतः सर्वदिक्षु, कृतालोकेन कृतः, आलोकः- प्रकाशः, पक्षे अवलोकन, जयशब्दो वा येन तादृशेम, पुनः पुर: अने, प्रसर्पता प्रसरता, पक्षे प्रकर्षण गच्छता, पुनः गतिरभसदोलायमानकजलस्निग्धनीलशिखाकलापेन गतिरभसेन-स्फुरणवेगेन, दोलायमानः-दोलावदितस्ततः सञ्चलनशीलः, कजलस्निग्धा-कजलवत् श्लक्ष्णः, नीलःइन्द्रनीलमणिकृतः, शिखाकलापः-ज्वालासमूहो यस्य तादृशेन, पक्षे गतिरभसेन-गमनवेगेन, दोलायमानः, कजलवत् स्निग्धः-लक्ष्णः, नील:-श्यामवर्णश्च शिखाकलापः-शिरःस्थितकेशपाशो यस्य तादृशेन [घ]॥ तत्र तस्मिन् , अन्तःपुर इत्यर्थः, मदिरावती तन्नानी निजभार्याम् ,अपश्यत् दृष्टवान् कीदृशीं विशालवेश्मनि विशालभवने, कृतावस्थानां कृतस्थितिम् , कीदृशे ? अविरल विप्रकीर्णपुष्पबलिशवलितातिमसृणमणिकुट्टिमे अवि. रलविप्रकीर्णेन-निरन्तरप्रक्षिप्तेन, पुष्पवलिना-पुष्पप्रचुरपूजोपचारेण, शबलितः-चित्रितः, अतिमसृणमणिकुट्टिमः-अतिचिक्कण; मणिखचितभूमियस्मिस्तादृशे; पुनः विकटपत्रभङ्गचित्रितचामीकरस्तम्भरचनाचारुणि विस्टैः-प्रकटः, पत्रभङ्गैःपत्ररचनाभिः, चित्रिता:-चित्रान्विताः, ये चामीकरस्तम्भाः-सुवर्णमयस्तम्भाः, तेषां रचनामिः-निर्माणैः, चारुणि-मनोहरेपुनः उपरिविस्तारिततारनेत्रपटविताने उपरि-ऊर्यभागे, विस्तारितः, तारनेत्र:-तार-विशालं, नेत्राकृतियस्मिस्तादृशः, पटवितानः-वस्त्ररूप उल्लोचो यस्मिंस्तादृशे पुनः वितानकप्रान्तलम्बमानलोलमुक्तास्त्रजि वितानकप्रान्ते- उल्लोचपार्क, लम्बमाना-अवनमन्ती,लोला-चञ्चला,मुक्तास्रक्-मौक्तिकमाला यस्मितादृशे पुनः ज्वलदकम्प्रयष्टिप्रदीपप्रकाटेतप्रशस्तभित्तिचित्रे ज्वलन्तः-दीप्यमानाः, अकम्पा:-निश्चलाः, ये यष्टिप्रदीपाः-यष्टयुपरि निहिताः प्रदीपाः, तैः प्रकटितानि, प्रशस्तानि, भित्तिचित्राणि-कुड्यस्थितचित्राणि, यस्मिंस्तादृशे पुनः सुकल्पितास्तरणतल्पोपशोभिनि सुछ कल्पितंरचितम् , आस्तीर्ण मिति यावत् , आस्तरणम्-आवरणं, यस्मिन् तादृशेन, तल्पेन-शय्यया, उपशोभिनि-मनोहारिणिः पुनः शय्याशिरोभागनिहितधौतकलधौतनिद्राकलशे शय्यायाः शिरोभागे-मस्तकभागे, निहितः-सन्निवेशितः, धौत:खच्छः, कलधौतस्य-सुवर्णस्य, निद्राकलशः-सुखेन निद्राजनकः कुम्भो यस्य तादृशे, पुनः कीदृशीम् ? प्रकामकर्शितशरीरां प्रकामम्-अत्यन्तम्, कर्शित-शतामापादितम्, शरीरं यस्यास्तादृशीम् , केन ?वतचरणेन नियमाचरणेन, कीदृशेन! निवर्तितनिरन्तराहारग्रहणेन निवर्तितं-निवारितम् , निरन्तर-सार्वदिकम् , आहारग्रहणं-भोजनग्रहणं यस्मिंस्तादृशेन;

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190