Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 104
________________ २४६ टिप्पनक- परागविवृतिसंवलिता 'युवराज' ! किमर्थमनवगतार्थ इव अप्रगल्भ इव मत्सरीवाऽरसिक इव मूकतामवलम्ब्य स्थितः, किं न वर्णयसि शतमुखो भूत्वा सर्वतोमुखीम खिलबुधजनाश्चर्यकारिणीं कुमारस्य काव्यतत्त्वावबोधशक्तिम्, अस्मद्विधानां हि स्वभावकश्मलस्थूलबुद्धीनां सर्वांत्मनापि प्रयुक्ता बाह्येव वर्णना न प्रविश्य सम्यग्वस्तुतत्त्वमुल्लिखति, अतोऽद्यापि त्वयि प्रजल्पति परितोषः प्रत्ययश्चात्मविषयः कुमारस्य भविष्यति [ज]। किं चाश्रुसलिलक्किन्ननिश्चलचक्षुTatar बारबद्ध व वनकरी लब्धमिध्याभिशाप इव साधुरकस्मात् प्रनष्टसकलगृहस्वापतेय इव गृहपतिरायतोष्णान् मुहुर्मुहुः सृजसि निःश्वासान्, अजातप्रेयसीपाणिग्रहो महद्दुःखमनुभविष्यति महात्मेति कचिन्न तं कुमारोपवर्णितवृत्तान्तयुवानमनुशोचसि : किमेकमिह शोच्यते, सर्व एवायमेवंप्रकारः संसारः न जानासि, यदुत दुःखहेतुरनुरागः, विषोपमा विषयोपभोगवाञ्छा, वाञ्छितार्थप्रतिपन्थीन्यधर्मविलसितानि, सर्वतः देशाधीशसूनुः कलिङ्गदेशाधिपतिपुत्रः शनैः मन्दम्, विहस्य, किमपि किश्चित् अवोचत् उक्तवान् । कीदृशः ? तेषां सभासदाम्, पुरोवर्ती अप्रवर्ती, पुनः समरकेतुना तत्संज्ञककुमारेण, समानप्रतिपत्तिः तुल्यगौरवः पुनः राजपुत्रस्य हरिवाहनस्य, अत्यन्तम् समधिकम्, अभिमतः इष्टजनः पुनः सकलशास्त्र भाषाविचक्षणः अखिलशास्त्रभाषाभिज्ञः; पुनः क्षीणभूयिष्ठशैशवे क्षीणं-व्यतीतम् भूयिष्ठं- बहुतरम्, यत् शैशवं बाल्यम्, तद्रूपे, वयसि अवस्थायाम्, शैशवशेषावस्थायामित्यर्थः, वर्तमानः पुनः कुमारपरिग्रहस्य हरिवाहनपरिजनस्य, माननीयः आदरणीयः; पुनः प्रकृतिप्रगल्भवाक् प्रकृत्या स्वभावेन, प्रगल्भा - प्रौढिपूर्णा, वाक्-वाणी यस्य तादृशः पुनः परिहासकेलिषु परिहासक्रीडासु, कोविदः निपुणः । किमवोचदित्याह युवराज ! भोः समरकेतो!, किमर्थ केन हेतुना, मूकतां मौनम् . अवलम्ब्य गृहीत्वा स्थितः असीति शेषः । क इव ? अनवगतार्थ इव अविज्ञाततदभिप्राय इवः पुनः अप्रगल्भ इव कातर इवः पुनः मत्सरी इव अन्यशुभद्वेषी इव; अरसिक इव नीरस इव । शतमुखः शतं मुखानि यस्य तादृशः, भूत्वा, सर्वतोमुख चतुरस्राम्, अखिल बुधजनाश्चर्यकारिणीम् अशेषकविजनविस्मापिनीम्, कुमारस्य हरिवाहनस्य, काव्य तत्त्वावबोधशक्तिं काव्य रहस्यार्थोत्प्रेक्षण सामर्थ्यम्, किं कस्माद्धेतोः, न वर्णयसि कीर्तयति । हि यतः, सर्वात्मना सर्वांशेन, प्रयुक्तापि कृतापि, वर्णना कविता, बाह्येव बहिरेवावस्थितेव, स्वभावकश्मलस्थूलबुद्धीनां खभावेन, कश्मला–मलिना, स्थूला-सूक्ष्मविषयानवगाहिनी, बुद्धिर्येषां तादृशानाम्, अस्मद्विधानाम् अस्मत्सदृशानाम्, प्रविश्य अन्तःप्रवेशं कृत्वा, सम्यक् समीचीनं यथा स्यात् तथा वस्तुतत्त्वं वस्तुनः- काव्यार्थस्य, तत्त्वं - सारांशम्, न उल्लिखति प्रकटयति । अतः अस्माद्धेतोः, अद्यापि अधुनापि, त्वयि समरकेतौ प्रजल्पति प्रकथयति सति, अनुमोदयति सतीत्यर्थः, कुमारस्य हरिवाहनस्य, परितोषः सन्तोषः, आत्मविषयः खोत्प्रेक्षितकाव्यार्थविषयः, प्रत्ययः विश्वासश्व, भविष्यति उत्पत्स्यते [ ज ] । च पुनः, अश्रुसलिल क्लिन्ननिश्चलचक्षुः अश्रुसलिलेन - नयननिःसृतजलेन, क्लिन्नम् - आलुतम् निश्चलं-निःस्पन्दम्, चक्षुर्यस्य तादृशः; पुनः अधोमुखः अवनतमुखः, त्वमिति शेषः, वारिबद्धः जल निगृहीतः, वनकरीव वनगज इव, पुनः लब्धमिथ्याभिशापः प्राप्तमिथ्यापवादः, साधुः सच्चरित्रपुरुष इत्र, अकस्मात् अतर्कितम्, प्रनष्टसकलगृहस्वापतेयः प्रनष्टं - प्रध्वस्तम्, अपहृतमित्यर्थः, सकलं समस्तम्, गृहखापतेयं - गृहस्थितं धनं यस्य तादृशः, गृहपतिरिव गृहस्वामीव, आयतोष्णान् आयतान् दीर्घान्, उष्णान् - उष्णस्पर्शाच, निःश्वासान् नासावायून्, मुहुर्मुहुः बारं वारम्, किं किमर्थम्, सृजसि मुश्चसि । अजातप्रेयसीप्राणिग्रहः अजातः - असम्पन्नः, प्रेयस्याः प्रकृतप्रियतमायाः, पाणिग्रहः-परिणयो यस्य तादृशः माहात्मा महनीयात्मा, महद्दुःखम् अत्यन्तदुःखम्, अनुभविष्यति अनुभवविषयीकरिष्यति, इति अस्माद्धेतोः तं प्रकृतम्, कुमारोपवर्णितवृत्तान्तयुवानं कुमारेण - हरिवाहनेन, उपवर्णितः--प्रतिपादितः, वृत्तान्तः--समाचारो यस्य तादृशं युवानं तरुणपुरुषम्, न अनुशोचसि अनु-पश्चात्, शोचसि कश्चित् किम् ? इह लोके, एकम् एकमात्रम्, किं कुतः, शोच्यते, अपि तु सर्व एव समस्त एव, एवंप्रकारः एतादृशः, संसारः, शोचनीय इति शेषः । यदुत यस्माद्धेतोः, अनुरागः प्रीतिः, दुःखहेतुः दुःखजनकः, पुनः विषयोपभोगवाञ्छा विषयोपभोगेच्छा, विषोपमा विषसदृशी, पुनः अधर्मविलसितानि पापविलासाः, वाञ्छितार्थप्रतिपन्थीनि अभि 1

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190