Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 113
________________ तिलकमञ्जरी । २५५ वृद्धाभिः प्रीतिनिर्भरदृष्टिपातकुवलयितदिग्वलयाभिरवलोक्यमानो नागरिकाभिर्नगरानिरगमम् [ न ] । क्रमेण च शरत्समय परिचयप्रपश्चितशोभाम्, आभोगिनीम्, उदारकलमकेदारपरिमलामोदितवनानिलाम्, उन्मदकुररकादम्बसारसाराव मुखरितसरस्तीरनीराम्, कीरचनु संपुटच्युतार्धजग्धप्रियङ्गमञ्जरीपिञ्जरजरहुमतलाम् [प], अक्षुद्रपादपालानितैरनवर तबेल्लत्कर्णपल्लवतरलितेन प्रतिषेलमुड्डीयमानेन निलीयमानेन च झङ्कारकारिणा मधुकरमण्डलेन पीयमानोद्दामदान निर्झरैरप्रमत्तरक्षकपदातिवार्यमाणा संस्तुतजनप्रत्यासत्तिभिः पर्यन्तरचिततृणकुटीरकेण प्रतिक्षणमाधोरणगणेन क्रियमाणविविधोपचारैरनवलोकितपरस्परैः प्रसिद्धाभिधानैर्जगंति प्रधानवारणैरधिष्ठितोदेशाम् [फ], आगृहीतद्वीपान्तरगामिभूरिभाण्डैराभरणपर्याणकादिवृषोपस्कर समारचन संतत सिद्धिर्यस्य तादृशः; पुनः प्रीतिनिर्भरदृष्टिपातकुवलयित दिग्वलयाभिः प्रीतिनिर्भरद्दृष्टिपातैः - प्रेमपूर्णकटाक्षपातैः, कुवलयितं - संजातानि कुवलयानि कमलानि यस्मिंस्तादृशम्, दिग्वलयं-दिमण्डलं याभिस्तादृशीभिः, नागरिकाभिः नगरतरुणीभिः, अवलोक्यमानः दृश्यमानः; नगरात् रङ्गशालाख्यनगरात् निरगमम् निर्गतवानहम् [ न ] | च पुनः क्रमेण क्रमिकगल्या, नगरसीमाम् उक्तनगर परावधिम् अलङ्घन्यम् अतिक्रान्तवानहम् कीदृशीम् ? शरत्समयपरिचयप्रपञ्चितशोभाम् शस्त्समयेन - आश्विन कार्तिकमासात्मकशरत्कालेन यः परिचयः - सङ्गमः, तेन पश्चिता- विस्तारिता, शोभा यस्यास्तादृशीम् पुनः आभोगिनीं विस्तारवतीम्; पुनः उदारकलमकेदार परिमला. मोदितवानिलाम् उदाराः - महान्तः, समृद्धा इति यावत्, कलमाः - शालयो येषु तादृशानाम्, केदाराणां ये परिमलाःसौरभाणि तैः आमोदिताः - सुरभिताः, वनानिलाः- वनपवना यस्यां तादृशीम् ; पुनः उन्मद् कुररकादम्बसार - सारावमुख रितसरस्तीरनीराम, उन्मदानाम् - उन्मत्तानां कुरर - कादम्ब सारसानाम्, कुरराः - उत्क्रोशपक्षिणः, कादम्बाःकलहंसाः, सारसाः - स्वनामख्याताः पक्षिणः तेषाम्, आरावैः शब्दैः, मुखरितानि - प्रतिध्वनिता नि, सरस्तीरनीराणिकासारतटस्थितजलानि यस्यां तादृशीम्; पुनः कीरचञ्चसम्पुटच्युतार्धजग्धप्रियङ्गुमञ्जरीपिअरजरद्रमतलाम् कीराणां - शुकानाम्, चसम्पुटात् - सम्पुटितच सकाशात्, च्युताभिः - स्खलिताभिः, अर्धजग्धाभिः - अर्धभुक्ताभिः, प्रियमञ्जरीभिः प्रियङ्गुलतामञ्जरीभिः, पिञ्जराणि - पीतानि, जरतां जीर्णानाम्, द्रुमाणां वृक्षाणाम्, तलानि - अघः स्थलानि यस्यां तादृशीम् [प]; पुनः प्रधानवारणैः प्रधान हस्तिभिः, अधिष्ठितोद्देशाम् अधिष्ठितः - आक्रान्तः, उद्देशः- उच्चप्रदेशो यस्यां तादृशीम् ; कीदृशैः ? अक्षुद्रपादपालानितैः विशालवृक्षरूपस्तम्भबद्धैः, पुनः मधुकरमण्डलेन भ्रमरपुञ्जेन, पीयमानोद्दामदाननिर्झरैः पीयमानः - पानकमक्रियमाणः, उद्दामा उद्धतः, अप्रतिहत इत्यर्थः ; दाननिर्झरः- मदजलप्रवाहो येषां ताः कीदृशेन ! अनवरतवेल्लत्कर्णपल्लवतरलितेन अनवरतं निरन्तरम्, वेल्लद्भ्याम्-उच्चलद्भयाम्, कर्णमल्लवाभ्यां कर्णरूपपल्लवाभ्याम्, तरलितेन - चञ्चलितेन उत्क्षिप्तेनेति यावत् अत एव प्रतिवेलम् सर्वकालम्, उड्डीयमानेन उपरि भ्रमता च पुनः, निलीयमानेन मदजलनिर्झरे तिरोभवता; पुनः झङ्कारकारिणा कोलाहलकारिणा, पुनः अप्रमतरक्षकपदातिवार्यमाणासंस्तु तजनप्रत्यासत्तिभिः अप्रमत्तैः - अवहितैः, रक्षकैश्च पदातिभिःपादगामिजनैः, वार्यमाणा - अवरुध्यमानां, असंस्तुतानां - अपरिचितानाम् जनानां प्रत्यासत्तिः - सान्निध्यं येषां तादृशः, पर्यन्तरचिततृणकुटीरकेण पर्यन्ते-निकटे, रचितः - निर्मितः, तृणकुटीरः - तृणमयहस्त्रकुटी येन तादृशेन, आधोरणगणेन हस्तिपक समूहेन, प्रतिक्षणं प्रतिपलम्, क्रियमाण विविधोपचारैः क्रियमाणाः - विधीयमानाः, विविधाः - अनेकप्रकाराः, उपचाराः - सेवा येषां तादृशैः, पुनः अनवलोकित परस्परैः कलहभिया परस्परदृष्टिपथमगसितैः पुनः जगति भुक्ने, प्रसिद्धाभिधानैः विश्रुतनामधेयैः [फ ]; पुनः कीदृशीम् ! आढ्यनैगमानाम् धनाढ्यवणिजाम्, साथैः समूहैः, स्थानस्थानेषु प्रतिस्थानम् कृप्तावस्थानाम् कृतम्, अवस्थानम् - अवस्थितिर्यस्यां तादृशीम् कीदृशैः ? आगृहीतद्वीपान्तरगामिभूरिभाण्डैः आ - समन्तात्, गृहीतानि द्वीपान्तरगामीनि अन्यद्वीप गन्तुकानि भूरिभाण्डानि - बहुभाण्डानि यैस्तादृशैः, 'पुनः आभरणपर्याणकादिवृषोपस्कर समारचन सन्त तन्या पृतभृतकैः आभरणम् - अलङ्कर

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190