Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी ।
२४३
सप्रागल्भ्यमार्यामिमां पपाठ
गुरुभिरदत्तां वोढुं वाञ्छन् मामक्रमात् त्वमंचिरेण । स्थातासि पत्रपादपगहने तत्रान्तिकस्थाभिः ॥
अस्यां च पठ्यमानायामवहिताः सर्वे सभासदो बभूवुः । परिभावयतामेव च तेषां पाठसमकालमेव प्रज्ञाबलेन बुद्धा कोशलाधिपतिसूनुरवदत् - 'सखे ! यत् तदासादितं त्वया तथाविधं ताडीपत्रकम्, असावनङ्गलेखस्तावत् । स च कयाचिदीश्वरकन्यया समारूढमैौढयौवनया गुणानुरागप्रगुणितेन स्वचेतसा विदग्धाप्तसहचरीजनेन वा भूयो भूयः प्रवर्तितया कुमारीजन सहोत्थामपत्र पामपहाय कस्यचित् पूर्वमेवानुरागपिशुनैरिङ्गिताकारैरभिनन्दितोपांशुप्रयुक्तप्रार्थनस्य 'सुतनु ! सततानुवृत्तिपरोऽपि गुरुभिस्त्वदीयैर्नाह मनुगृहीतो भवत्याः प्रदाने, तदिदानीमनिच्छतोऽपि मे दुरात्मनानेन मदनवह्निना दह्यमानमिदमनुचितेनापि विधिना जीवितस्वामिनीं कर्तुमिच्छति त्वामतर्कितोपायान्तरं हतहृदयम्, अतो नाहमत्रापराधी'
टिप्पनकम् - उपांशु - रहः [ङ] ।
रणं यत्र तादृश्या, गिरा वाण्या, सप्रागल्भ्यं प्रागल्भ्येन- प्रौढतया सहितं यथा स्यात् तथा, इमाम् उपस्थिताम् आर्या पपाठ पठितवान् गुरुभिरदत्तां वोढुं वाञ्छन् मामक्रमात् त्वमचिरेण । स्थातासि पत्रपादप गहने तत्रान्तिकस्थानिः ॥ १ ॥ गुरुभिः मत्पित्रादिभिः, अदत्तां विद्वेषवशेन स्वयमप्रतिपादिताम् माम्, अक्रमात्प्रसिद्धोद्वाहृप्रकारं विनैव, बलादपहारेणेत्यर्थः, वोढुं परिणेतुम्, वाञ्छन् इच्छन् त्वम्, तत्र तस्मिन् यत्रावयोः सम्मेनमभूदित्यर्थः, पत्रपादपगहने पत्र पूर्णवृक्षवने, अन्तिकस्थाग्निः पार्श्वस्थितानिरूपवैवाहिकोपकरणः, अचिरेण अविलम्बेन, स्थातासि स्थास्यसि, गृहे गुरुजनानुमतिरहितोद्वाहस्यानौचित्यादसम्भवाच्चेत्यर्थः, यद्वा बलादपहरणपूर्व कोद्वा हजन्यप्रत्यवायेन, अन्तिकस्थाझिः पार्श्वज्वलदभिः, असिपत्रपादपगहने असयः खगाः, खड्गवन्मारणसामर्थ्य कलितानीत्यर्थः, पत्राणि येषां तादृशानां पादपानां नारकवृक्षाणाम् गहने वने, स्थाता स्थितिकर्ता, भविष्यतीति शेषः, नरकं प्राप्स्यतीत्यर्थः । च पुनः अस्याम् आर्यायाम्, पठ्यमानायाम् उच्चार्यमाणायाम्, सर्वे सकलाः, सभासदः सभोपविष्टाः, अवहिताः तदर्थविचारे सावधानाः बभूवुः जाताः । परिभावयतामेव तदर्थमालोचयतामेव, तेषां सभासदां मध्ये, कोशलाधिपतिसूनुः कोशलाधिपतेः - कोशल देशाधिपतेः, मेघवाहनस्य, सूनुः - कुमारः, हरिवाइनः, प्रशाबलेन खंबुद्धिबलेन, पाठसमकालमेव पाठसमय एव, बुद्ध्वा तत्तात्पर्यमवधार्य, अवदत् उक्तवान् । किमित्याह - सखे ! भो मित्र !, त्वया मञ्जीरेण, तथाविधं तादृशम्, तत् अनुपदप्रस्तुतम्, यत् ताडीपत्रकम्, आसादितं प्राप्तम्, असौ सः, अनङ्गलेखः कामदेव विषयक लेखः, तावदिति वाक्यालङ्कारे । स च प्रकृतलेखश्च कयाचित् अविदितनान्या, ईश्वरकन्यया धनाढ्य - कुमार्या, कस्यचित् कस्यापि, महानागरिकस्य अत्यन्त नागरिकस्य, नगरवास्तव्यतया कान्तोपभोगकुशलस्य, यूनः तरुणपुरुषस्य, पार्श्व इति शेषः, प्रेषितः प्रेषणकर्मीकृतः कीदृश्या तया ? समारूढप्रौढयौवनया समारूढं सम्यगवाप्तम्, प्रौढं-प्रगल्भम्, यौवनं तम्हण्यं यया तादृश्या, पुनः गुणानुरागप्रगुणितेन अभिमतनायक गुणप्रीतिवृद्धेन, स्वचेतसा स्वकीयहृदयेन, विदग्धाप्तसहचरीजनेन वा निपुणविश्वस्त सखीजनेन वा, भूयो भूयः पुनः पुनः प्रवर्तितया प्रेरितया, कीदृशस्य यूनः ? तयेश्वरकन्यया कुमारीजन सहोत्थामपत्रपां कुमारीजनानां सहोत्था सहजा, या अपत्रपा - अन्यहेतुक. लज्जा, ताम्, अपहाय त्यक्त्वा, अनुरागपिशुनैः अनुरागसूचकैः, इङ्गिताकारैः चेष्टिताकारैः, आकारचेष्टया, पूर्वमेव, अभिनन्दितोपांशुप्रयुक्तप्रार्थनस्य अभिनन्दिता - अनुमोदिता, अङ्गीकृतेत्यर्थः, उपांशुप्रयुक्ता - रद्दसि कृता, प्रार्थना यस्य तादृशस्य, पुनः 'सुतनु ! हे सुन्दराङ्गि !, सततानुवृत्तिपरोऽपि निरन्तरानुसरणपरायणोऽपि, अहं भवत्याः श्रीमत्याः, प्रदानेन त्वदीयैः भवदीयैः, गुरुभिः पित्रादिभिः, न अनुगृहीतः अनुकम्पितः, तत् तस्माद्धेतोः, इदानीं सम्प्रति, अनिच्छितोऽपि त्वामनभिलषतोऽपि, 'मम, दुरात्मना दुष्टात्मना, अनेन प्रत्यक्षभूतेन, मदनवह्निना कामामिना, दह्यमानं सन्तप्यमानम्, अतर्कितोपायान्तरम् अतर्कितम् - अनालोचितम् उपायान्तरम् - उचित प्रकारान्तरं येन ताहशम्, इदं सन्निकृष्टम्, हतहृदयं कलुषितहृदयम्, अनुचितेनापि अयोग्येनापि, अवैधेनापीत्यर्थः, विधिना प्रकारेण, त्वां जीवितस्वामिनीं स्वप्राणस्वामिनीम्, स्वप्राणप्रियामित्यर्थः कर्तुं विधातुम्, परिणेतुमित्यर्थः इच्छति अभिलषति,
3
Loading... Page Navigation 1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190