Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 86
________________ २२८ टिप्पनक-परागविवृतिसंवलिता विप्रलब्धेन कृतमुखालोकम् , हराट्टहासद्युतिहासिना दूरमुल्लसितेन हारप्रभावलयेन वक्षःस्थलनिवासिन्याः श्रियः क्षीरोदमिव दर्शयन्तम् , अतिबहलकेयूरपद्मरागांशुरञ्जितैश्चिरप्ररूढैरपि सरसैरिवारिशस्त्रप्रहारैः स्थपुटितोर:स्थलम् , तरुणतामरसताम्रतलस्य सविलासं प्रेङ्खतः पाणियुगलस्य विसर्पन्तीभिर्धवलनखदीधितिभिरम्बुधाराभिरिव सावष्टम्भचरणपातभरपीडितामुक्षन्तं क्षितिं क्षितिपतिः समरकेतुमद्राक्षीत् [इ]। दृष्ट्वा च संमुखचलितवदनो वारंवारमादरप्रणिहितप्रसादादृष्टिरासन्नसर्पिणा महाप्रतीहारेण कारितप्रणाममादरप्रणतिलग्नकुट्टिमोपहारकुसुमकिञ्जल्कशारीकृतशिरोरुहमे हीति दूरादेवाह्वयत् । उपसृत्य चरणान्तिके भूयः कृतप्रणामं च प्रेम्णातिदूरं प्रसारिताभ्यां भुजाभ्यामाकृष्याङ्कमारोपयत् । आश्लिष्टमुक्तं च तं विनयादनातससंभ्रमाधिकृतढौकितविकटवेत्रासनमासन्नोपविष्टमुन्नमितपक्ष्मणा निश्चलनिबद्धलक्ष्येण चक्षुषा निरीक्ष्य साचीकृतशिरोधरः मेहास्पदेन खभावतो मसृणेन वा, कर्णपूरमौक्तिकस्तबकेन कर्णाभरणभूतमौक्तिकगुच्छेन, कृतमुखालोकं कृतः, मुखस्य, आलोक:-प्रकाशो यस्य तादृशम् , केनेव ! कुमारशब्दविप्रलब्धेन कुमारशब्देन-"पाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः" इत्यादिकोशेषु कार्तिकेयपर्यायतया पठितेन समरकेतुबोधकेन शब्देन, निपलब्धेन-वपुत्रप्रत्यायनेन प्रतारितेन, कृत्तिकापुजेनेव पुत्रवात्सल्यादागतेन कार्तिकेयमातृभूतकृत्तिकास्यतारागगेनेवः पुनः हराट्टहासद्युतिहासिना हरस्यशिवस्य, योऽहासः महाहासः, तदीयद्युतिहासिना-तदीयकान्तितिरस्कारिणा, पुनः दूरमुल्लसितेन दूर यावदुद्भासितेन, हारप्रभावलयेन हारद्युतिमण्डलेन, वक्षःस्थलनिवासिन्याः उपास्यतया हृदयदेशवर्तिन्याः, श्रियः लक्ष्म्याः, क्षीरोदमिव क्षीरसागरमिव, दर्शयन्तं दर्शनेन प्रत्याययन्तम् । पुनः अतिबलकेयूरपारागांशुरञ्जितैः अतिबलैः-अतिप्रचुरैः, केयूरपदरागांशुभिः-केयूरस्थ-बाहुभूषणस्य, यः पद्मरागः-तदाख्यरक्तमणिविशेषः, तस्य अंशुभिः-किरणैः रञ्जितैः, रक्ततामापादितः, अतः चिरप्ररूढैरपि चिरकालोपजातैरपि, शुष्करपीत्यर्थः, सरसैरिव आरिव, अरिशस्त्रप्रहारैः शत्रुशस्त्रधातैः, स्थपुटितोरस्थालं स्थपुटितं-निनोमतीकृतम्, उरःस्थल-वक्षःस्थलं यस्य तादृशम् , पुनः तरुणतामरसताम्रतलस्य तरुणपरिणतम् , यत् तामरसं-रक्तपद्मम् , तद्वत् ताम्र-रतं, तलं-चपेटं यस्य तादृशस्य, सविलासं विलासपूर्वकं यथा स्यात् तथा, प्रेतः प्रचलतः, पाणियुगलस्य हस्तद्वयस्य, विसर्पन्तीभिः प्रसरन्तीभिः, धवलनखदीधितिभिः खच्छनखकिरगैः, अम्बुधाराभिरिव जलधाराभिरिव, सावष्टम्भचरणपातभरपीडितां सावष्टम्भस्य-साक्रमणस्य, चरणपातस्य-पादारोपणस्य, भरेण-भारेण, पीडितां-व्यथिताम् , क्षिति पृथवीम् , उक्षन्तं सिञ्चन्तम् , सेचनेन तत्पीडामपनयन्तमित्यर्थः [इ]। च पुनः, दृष्ट्वा तं दृष्टिगोचरीकृत्य, सम्मुखचालितवदनः तदभिमुखीभूतमुखः, वारंवारम् असकृत् , भादरप्रणिहितप्रसादाद्रदृष्टिः आदरेण-प्रीत्या, प्रणिहिता-समारोपिता, प्रसादाा-प्रसादेन-प्रसन्नतया, आर्द्रा-सरसा, दृष्टियेन तादृशः, आसनसर्पिणा पार्श्वगामिना, महाप्रतीहारेण प्रधानद्वारपालेन, कारितप्रणामं कारितनमस्कारम् , पुनः आदरप्रणतिलग्नकुट्टिमोपहारकुसुमकिञ्जल्कशारीकृतशिरोरुहम् आदरेण या प्रणतिः, तया लग्नः-सम्पृक्तः, कुट्टिमस्य-मणिबद्धप्रदेशस्य, उपहारभूताना-प्राभूतभूतानाम् , कुसुमाना-पुष्पानाम्, किजल्क:-केसरैः, शारीकृताः-चित्रिताः, शिरोरुहा:-केशा यस्य तादृशम् , समरकेतुमिति शेषः, पहि एहि आगच्छ आगच्छति, दुरादेव दूरत एव, आयत् आहूतवान् । च पुनः, चरणान्तिके चरणसमीपे, उपसृत्य आगत्य, भूयः पुनः, कृतप्रणाम कृतनमस्कारम् , तमिति शेषः, प्रेम्णा स्नेहेन, अतिदूरम् अत्यन्तदूरपर्यन्तम् , प्रसारिताभ्यां विस्तारिताभ्याम् , भुजाभ्यां-बाहुभ्याम् , आकृष्य गृहीत्वा, अङ्क क्रोडम् , आरोपितवान् तत्र स्थापितवान् , च पुनः, आश्लिष्टमुक्तं पूर्वमाश्लिष्टम्-आलिङ्गितम् , पश्चान्मुक्तं त्यतम् , विनयात् नम्रभावात् , अनादृतससम्भ्रमाधिकृतढौकितविकटवेत्रासनम् अनाहतं-तिरस्कृतं त्यक्तमिति यावत् , ससम्भ्रम-सत्वरम्, अधिकृतेन-नियुक्तजनेन, दौकितम्-आनीतम्, विकट-विशालम्, वेत्रासन-वेत्ररचितमूर्खासन येन तादृशम् । आसन्नोपविष्टं पार्वोपविष्टम् , तं समरकेतुम्, उन्नमितपक्ष्मणा उन्नमितमू-उद्धृतम्, पक्ष्म-नयनोपरितनरोमराजिर्यस्य तादृशेन, उम्मीलिवेनेत्यर्थः, निश्चलनिबद्धलक्ष्येण निश्चलं-निर्निमेषं यथा स्यात् तथा, निबद्धमिजरदिमना नियन्त्रितम्, लक्ष्य-दृश्यं येन तादृशेन, चक्षुषा नेत्रेण, निरीक्ष्य अवलोक्य, साचीकृतशिरोधरस

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190