Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 155
________________ तिलकमलरी। २९७ नोदिलिष्यत्यन्यथा चिरेणापि चरणम् ; आसन्नमरणः कृष्यतामितो वेत्रगहनादेष मुण्डनिहिततण्डुलप्रसेवको वृद्धसेवकः, प्रविष्टः सङ्कटे; निरनुक्रोशं जनमाक्रोशसि, न तु क्रोशसि रुद्धमिदमप्रतो निजतुन्दम् ; तीरमासाद्य श्रमविसंस्थुलः स्थूलपाषाणशङ्कया पृष्ठदेशे निषण्णत्रासदूरोप्लुतेन स्थलशायिना महाप्लवकेन पश्यत कथं पातितः पुनरगाधे पयोधिवारिणि वराको वरुणक:' [प] इत्यादिश्रूयमाणानेकसैनिकशतालापः, कचित् पलायमानपुलिनशायिजलमानुषमिथुनचरणचालितवालुकारणितरमणीयः, कचित् प्रधावितोवृत्तजननिर्दयाक्रान्तशुक्तिसंपुटस्फुटनरवविस्फारितः, कचिद् दलितसरसविट्ठमाडरटसत्कारदन्तुरः, कचित् पिच्छिलशिलातलस्खलित निपतत्पदातिदत्तहास्यसहयासिलोकतालध्वनितरङ्गितो विस्तारवत्यपि नितान्तमवतारमार्गे कृच्छूलब्धान्तरस्य सत्वरं तीरमवतरतः शिबिरलोकस्योल्ललास कलकलः [स] टिप्पनकम्-दन्तुरः-करालः [स]। अन्यथा तत्पीडनाभावे, चरणं पादं, चिरेणापि दीर्घकालेनापि, न उद्विलिष्यति मुखादुन्मोक्ष्यति; पुनः मुण्डनिहिततण्डुलप्रसेवकः मस्तकधूततण्डुलपोलिकः, पुनः सङ्कटे विपदि, प्रविष्टः ममः, अत एव आसन्नमरणः निकटमृत्युः, एषः अयं, वृद्धसेवकः जराजीर्णसेवकः, इतः अस्मात् , वेत्रगहनात् वेत्रवनात् , कृष्यताम् अपसार्यताम् ; निरनुक्रोशं निर्दयं यथा स्यात् तथा, निरनुक्रोश इति पाठे निर्दय इत्यर्थः । जनं लोकम् , आक्रोशसि तर्जयसि, तु किन्तु, अग्रतः अग्रे, रुद्धं कृतावरोध, निजतुन्दं खकीयमांसलोदर, न क्रोशसि शोचसि, क्रोशनिरुद्धम् इति पाठे तु क्रोशविस्तीर्णमित्यर्थः; तीरं तटम् , आसाद्य प्राप्य, श्रमविसंस्थुलः श्रमविह्वलः, पुनः स्थूलपाषाणशङ्कया स्थूलप्रस्तरसन्देहेन, पृष्ठदेशे पथाद्भागे, निषण्णः उपविष्टः, वराकः शोचनीयः, वरुणकः तदाख्यसैनिकः, त्रासदूरोत्लुतेन भयदूरोत्पतितेन, स्थलशायिना स्थलशयनशीलेन, महाप्लवकेन महामण्डूकेन, पश्यत अवलोकयत, अगाधे गम्भीरे, पयोधिवारिणि समुद्रजले, कथं केन प्रकारेण, पुनरिति वाक्यालकारे निश्चये वा, पातितः मज्जितः [प]। पुनः कीदृशः कलकल: ? कचित् कस्मिंश्चित् प्रदेशे, पलायमानपुलिनशायिजलमानुषमिथुनचरणचालितवालुकारणितरमणीयः पलायमानस्य-सेनाभयाद् विद्रुतस्य, पुलिनशायिनः-सैकततटखापशीलस्य, जलमानुषमिथुनस्यजलीयमनुष्यदम्पत्योः, चरणाभ्या-पादाभ्यांचालितानाम-उत्क्षिप्तानाम.वालुकानो-सिकतानां. रणितैः शब्दविशेषेः. रमणीयः मनोहरः; पुनः कचित् कस्मिंश्चित् प्रदेशे, प्रधावितोत्तजननिर्दयाक्रान्तशुक्तिसम्पुटस्फुटनरवविस्फारितः प्रधावितैः-प्रकर्षेण कृतधावनैः, उदृत्तजनैः-उद्धतलोकैः, निर्दयं-नितान्तम् , आक्रान्तस्य-आमर्दितस्य, शुक्तिसम्पुटस्य-सम्पुटितशुक्तः, स्फुटनेन-विश्लेषेण, यो रवः-शब्दः, तेन विस्फारितः-विस्तारितः; पुनः क्वचित् कुत्रचित् प्रदेशे, दलितसरसविद्रुमारटसत्कारदन्तुरः दलिताना-खण्डिताना, सरसानाम्-आर्द्राणां, विट्ठमाङ्कराणां-प्रवालाहराणा, टसत्कारेणध्वनिविशेषेण, दन्तुरः-समृद्धः; पुनः क्वचित् वापि स्थले, पिच्छिलशिलातलस्खलितनिपतत्पदातिदत्तहास्यसहवासिलोकतालध्वनितरङ्गितः पिच्छिलात्-चिक्कणात्, शिलातलातू-प्रस्तरतलात, स्खलितैः-विचलितः, अत एव निपतद्भिः, पदातिभिः-पादगामिभिः, दत्तैः कृतः, हास्यसहवासिभिः--हास्यसहभाविभिः, लोकानां तालध्वनिभिःकरतलशब्दध्वनिभिः, तरङ्गितः-वर्धितः। कीदृशस्य शिबिरलोकस्य ? नितान्तम् अत्यन्तम्, विस्तारवत्यपि विस्तृतेऽपि, समुद्रावतारस्थले, कृच्छलब्धान्तरस्य कृच्छ्रेण-क्लेशेन, लब्धं-प्राप्त , अन्तरम्-अवकाशो येन तादृशस्य, पुनः सत्वरं शीघ्रं, तीरं तटम् , अवतरतः आगच्छतः [स]। ३८ तिलक.

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190