Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 114
________________ टिप्पनक - परागविवृति संवलिता व्यापृतभृतकैरभिनवस्यूत ताम्रपटकुटीरकोणावस्थापितस्थूलद्रविणकण्ठालैः प्राङ्गणोपरचितगोणीगणाट्टालकसूचितैः प्रस्थाननिर्गतानामाढ्यनैगमानामनेकतुरगाश्वतरसंकुलैः साथै: स्थानस्थानेषु कृतावस्थानाम् [ब], अच्छशीतलस्वादुसलिलाभिः सुधाधवलव रण्डिका वलया कुण्डलितकूलाभिर्द्वारभित्तिगर्भप्रतिष्ठितानेकदेवताप्रतिमाभिस्तृष्णातुरावतरदनन्तपथिकपातभयादिव पुरः प्रसारितोभयाग्रहस्तेन भेककुटुम्बिनीकदम्बकेन कृतकल कलेनावलम्बितसोपानमाल।मूलदेशाभिरतिसुश्लिष्टलोहेष्टकचिताभिर्मार्गवा पीभिः स्थपुटितमहावटद्रुमोपान्तस्थलाम् [भ], अन्तराऽन्तरा च प्रावृषेण्यसलिलपूरक्षालना पनीत सकलपङ्कमलाभिरासन्नग्रामवासिना वणिग्जनेन तत इतः प्रकटितौदनाज्यदधिभाण्डखण्डमोदकप्राय पण्यप्रसारका भिस्तटस्थपथिकबालिकाविलोक्यमानभुक्तोज्झितान्नलयकवलना २५६ णम्, पर्याणकं - पृष्ठास्तरणम्, तदादिः तत्प्रभृतिः, यः, वृषाणां - बलीवर्दानाम्, उपस्करः- वेषः, तत्समारचने - तद्विन्यासे, सन्ततम्-अनवरतम्, व्यावृताः- संलग्नाः भृतकाः किङ्करा येषां तादृशैः, पुनः अभिनवस्यूतताम्रपट कुटीर कोणाव स्थापितस्थूलद्रविणकण्ठालै : अभिनवस्यूताः - अचिरत्रोताः, ये ताम्रपदाः- रक्तवस्त्राणि, तत्कुटीरस्य - तन्निर्मितह्रस्वकुव्याः कोणे, अवस्थापिताः धृताः, स्थूलाः- बृहदाकाराः, द्रविणकण्ठालाः- धनभाण्डविशेषा यैस्तादृशैः, पुनः प्राङ्गणोपरचितगोणीगणाट्टालकसूचितैः प्राङ्गणे, उपरचितैः सन्निवेशितैः, गोणीनाम् - आवपनानाम्, गणैः- समूहरूपैः, अट्टालकैः - प्रासादोपरितनगृहैः, सूचितैः-उपलक्षितैः, पुनः अनेकतुरगाश्वतरसङ्कुलैः अनेकैः - बहुभिः, तुरगैः-अर्वैः, अश्वतरैःखचरैश्च संकुलैः-व्याप्तैः [ व ]; पुनः मार्गवापीभिः मार्गदीर्घिकाभिः स्थपुटित्तमहावटद्रुमोपान्तस्थलाम् स्थपुटितम् - उन्नतानतीकृतम्, महावदद्रुमाणां - विशालवटवृक्षाणाम् उपान्तस्थल - निकटस्थानं यस्यास्तादृशीम् कीदृशीभिः ? अच्छशीतलखादुसलिलाभिः अच्छे-निर्मलम्, शीतलं, खादु-मधुरं च सलिलं जलं यासां तादृशीभिः पुनः सुधाधवलवरण्डिकावलया कुण्डलितकूलाभिः सुधाधवलानां - चूर्णोपलेपशुभ्राणाम्, वरण्डिकानाम् लघुप्राकार भूतभित्तिविशेषाणाम्, वलयेन मण्डलेन, आकुण्डलितानि - आवेष्टितानि, कूलानि -तटा यासां तादृशीभिः पुनः द्वारभित्तिगर्भप्रतिष्ठितानेकदेवताप्रतिमाभिः द्वारभित्तिगर्भे-द्वारस्थ कुज्यमध्ये, प्रतिष्ठिता स्थापिता, अनेकासां देवतानाम् प्रतिमा-प्रतिकृतिर्यासां तादृशीभिः, पुनः भेककुटुम्बिनीकदम्ब्रेन भेकानां - मण्डूकानाम्, याः कुटुम्बिन्यः स्त्रियः, तासां कदम्बकेनसमूहेन, अवलम्बितसोपान मालामूलदेशाभिः अवलम्बितः - आश्रितः, सोपानमालानाम् अधिरोहणीपङ्कीनाम्, मूलदेशः-मूलस्थानं यासां तादृशीभिः कस्मादिव ? तृष्णातुरावतरदनन्तपथिकपातभयादिव तृष्णातुराणां पिपासा - पीडितानाम्, अवतरताम्-अवरोहताम्, अधस्तादागच्छतामित्यर्थः, अनन्तानां - बहूनाम् पथिकानां मार्गगामिनाम् यः पातः- निपतनम्, तद्भयादिवेति हेतूत्प्रेक्षा, कीदृशेन ? पुरः प्रसारितोभयाग्रहस्तेन पुरः- अग्रे, प्रसारितौ-तत्पातनिवारणाय विस्तारितौ, उभयाग्रहस्तौ उभयहस्ताग्रभागौ येन तादृशेन, पुनः कृतकलकलेन तदातङ्कवशाद् विहितकोलाहलेन, पुनः अतिसुलिष्टलोहेष्टकचिताभिः अतिसुश्लिष्टम् - अतिशयेन परस्परसम्पृक्तम्, लोहेष्टकानां- लोहमयेष्टकानाम्, चितंसमूहो यासु तादृशीभिः [ भ ]; च पुनः, अन्तरा अन्तरा मध्ये मध्ये, वनस्रोतोवहाभिः वननदीभिः, सीमन्तिताम् सञ्जातकेशवेशाम्, प्रावृषेण्यसलिलपूरक्षालनापनीतपङ्कमलाभिः प्रावृषैण्येन, सलिलपूरेण - जलप्रवाहेण, यत् क्षालनं-मार्जनम्, तेन, अपनीताः - दूरीकृताः, पङ्करूपाः - कर्दमरूपाः, मला यासां तादृशीभिः; पुनः आसन्नग्रामवासिना निकटग्रामवास्तव्यैन, वणिग्जनेन वणिग्लोकेन तत इतः अत्र तत्र, प्रकटितौदनाज्यदधिभाण्डखण्डमोदकप्रायपण्यप्रसारकाभिः प्रकटितः - प्रकाशितः, ओदनः - भक्तम्, आज्यं घृतम्, दधि- दुग्धघनीभावावस्थाविशेषः, तेषां भाण्डखण्डानां भाजनप्रभेदानाम्, यद्वा भाण्डानां - भाजनानाम्, खण्डं च - इक्षुविकारः, तस्य यद्वा खण्डमोदकप्रायाणांखण्डनिर्मितमिष्टान्नप्रचुराणाम्, पण्यानां विक्रेतव्यवस्तूनां च प्रसारो यासु तादृशीभिः पुनः तटस्थपथिकबालिकाविलोक्यमानभुक्तोज्झितान्नलवकवलना कुल शकुनकुलाभिः तटस्थाभिः - तीरस्थिताभिः पथिकबालिकाभिःपथिककन्याभिः, अवलोक्यमानं - दृश्यमानम् भुक्तोज्झितानां - भोजनावशिष्टानाम्, अन्नलवानाम् - अन्नलेशानाम्, कवलने

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190