Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 121
________________ तिलकमञ्जरी। २६३ मेघदुर्दिनेषु दिनेषूत्पथेनागत्यागत्य निम्नगाभिसारिकाभिर्गाढमुपगूढम् [इ], मुहुरवतरन्त्या तोयमादायादाय पुनरूद्धमतिदूरमुत्पतन्त्या सान्द्रशीकरमोदविरचितानेकसुरचापया जगदुपवनं सेक्तुममरपतिना प्रकल्पितस्य सर्वतः सुघटितकाष्ठस्य गगनारघट्टस्य घटीमालयेव जलदसंतत्या सततमुदच्यमानम् [ई], विषमवाहनविसंस्थुलस्य निजरथस्याष्टमं तुरङ्गममसमग्रताजनितवैरूप्यस्य चात्मवपुषः षोडशी कलामन्वेष्टुमिव मथनदृष्ट. दिव्याश्वशशिखण्डसंभवाभ्यामहिमगभस्तिभ्यामनवरतकृतमजनोन्मजनम् [3], अगस्त्यजठरानलमिव पानावसरलनं युगान्तविद्युद्वलयमित्र संवर्तकाभ्रगर्भगलितमनवरतमानीयमानं वृद्धिमुदकैरुदरैकदेशेन दहन उत्पथेन विरुद्धमार्गेण, आगत्य आगत्य, निम्नगाभिसारिकाभिः निम्नं नीचं गच्छन्तीति निम्नगा नद्यः, तद्रूपाभिः, अभिसारिकाभिः-परपुरुषगामिनीभिः कामिनीभिः, गाढं अत्यन्तं यथा स्यात् तथा, उपगूढम् आलिसितम्, कीडशीभिः! मुद्रितमुखरहंसनूपुरस्वनाभिः मुखराः-वाचाला ये हंसाः-पक्षिविशेषाः, तद्रूपाणां नूपुराणां-पादाभरणविशेषाणां, खनाः-ध्वनयः, मुदिताः-निरुद्धा याभिस्तादृशीभिः, वर्षासु नदीजलानां दूषिततया हंसानां मानससरोवरप्रस्थानभ्रवणादिति भावः, पुनः त्वरितगतिवशोत्कम्पमामपृथुपयोधरतटाभिः त्वरितगतिवशेन-ससम्भ्रमगमनवशेन, उत्कम्पमानःउत्-ऊर्ध्व कम्पमानः, उद्गच्छन्नित्यर्थः, पृथुपयोधरः-स्थूलस्तनरूपः, तटो यासां तादृशीभिः, पुनः मुक्तक्रौञ्चमालामेख. लानि मुक्ता-त्यक्ता, कौचानां-तज्जातीयपक्षिविशेषाणां, माला-पतिरूपा, मेखला-काञ्ची यस्तादृशानि, पुलिनजघनस्थलानि सिकतामयस्थलरूपाणि कटिपुरोभागस्थलानि, बिभ्रतीभिः धारयन्तीभिः, इतस्ततः अत्र तत्र, वलितविलोलतारशफरलोचनाभिः बलितानि-व्यापारितानि, विलोलताराणि-तरलकनीनिकानि, शफररूपाणि-मत्स्य विशेषरूपाणि, लोचनानिनेत्राणि यामिस्तादृशीभिः, वलितविलोलतामरसेति पाठे तु तामरसरूपाणि-कमलरूपाणि लोवनानि याभिरित्येवं व्याख्ये. यम्, पुनः बहलशैवल-प्रवाल-कस्तूरिकास्तबककलङ्कितानि बहलानां-विपुलानाम् , शैवलाना-जलतृणविशेषाणाम् , प्रवालान-विद्रुमाणाम् , तद्रूपणामित्यर्थः, कस्तूरिकाणां-मृगमदानां, स्तबकेन-गुच्छेन, कलङ्कितानि-चिद्धितानि, मुखानि अग्रभागरूपाणि वदनानि, पङ्कमलिनेन कर्दमकलुषितेन, नवनीरवाससा नवीनजलरूपेणवाससा-वरेण, सुदरम् अतिदूर. पर्यन्तम् , आवृण्वतीभिः आच्छादयन्तीभिः [इ ] । पुनः जलदसंतत्या मेघपतया, सततम् अनवरतम् , उदच्या मानम् उद्भियमागजलम् , कीदृश्या? मुहुः अनेकवारम् , अवतरन्त्या आपतन्त्या, पुनः तोयं जलम् , आदाय आदाय गृहीत्वा गृहीस्वा, पुनः अतिदूरम् अत्यन्तदूरम् , ऊर्ध्वम् उपरि, उत्पतन्त्या उद्गच्छन्त्या, पुनः सान्द्रशीकरक्षोदविरचितानेकसुरचापया सान्द्राणां शीकराणां-जलकणानां, क्षो दैः-चूर्णैः, विरचिताः-निर्मिताः, अनेके सुरचापाः-इन्द्रधनषि यया तादृश्या, कयेव ? जगदुपवनं जगद्रूपमारामम् , सेक्तुं सेकेन संवर्द्धयितुम् , अमरपतिना इन्द्रेण, प्रकटितस्य आविष्कृतस्य, सर्वतः सर्वभागेषु, सुघटितकाष्ठस्यः सुघटितानि-सनिवेशितानि काष्ठानि यस्मिंस्तादशस्य, अन्यत्र सुघटिताः काष्ठाः-दिशो यत्र तस्य, गगनारघट्टस्य आकाशरूपजलनिष्कासनयन्त्रस्य, घटीमालयेव घटीपतयेव [ई] । पुनः मथनदृष्टदिव्याश्व-शशिखण्डसम्भवाभ्यां मथनेन-आलोडनेन, दृष्टः-परीक्षितः, दिव्यावस्य-वर्गीयाश्वस्य, उच्चैःश्रवस इत्यर्थः, शशिखण्डस्य-चन्द्रखण्डस्य च, सम्भवः-उत्पत्तिर्याभ्यां तादृशाभ्याम् , अहिमाहिमगभस्तिभ्याम् अहिमः-उष्णः, गभस्तिः-किरणो यस्य सोऽहिमगभस्तिः सूर्यः, हिमः-शीतो गभस्तिः-किरणो यस्य स हिमगभस्तिश्चन्द्रः, ताभ्याम् , अनवरतकृतमजनोन्मजनम् अनवरतं-निरन्तरे, कृतं मजनम्-अन्तरवगाहनम् , उन्मजनम्-उत्प्लवनं च, प्रवेशनिर्गमावित्यर्थः, यस्मिंस्तादृशम् , किं कर्तुमिव ? विषमवाहनविसंस्थुलस्य विषभैः-विषमसंख्यैः सप्तभिरित्यर्थः, वाहनैः-अश्वैः, विसंस्थुलस्य-शिथिलगतिकस्य, निजरथस्य खरथस्य, अष्टमं तुरङ्गमम् अश्वम् , अन्वेष्टुमिव गवेषयितुमिव सूर्येण, असमग्रताजनितवैरूप्यस्य असमग्रतया-अपूर्णतया, जनितम्-उत्पादितम् , वैरूप्यम्-अचारुत्वं यस्य ताह. शस्य, आत्मवपुषः खशरीरस्य, षोडशी षोडशसंख्यापूरणीम् , कलाम् अंशम् , अन्वेष्टुमिव चन्द्रेण [3] 1 पुनः उरैकदेशेन खोदरैकभागेन, और्वाभिधानं वाडवाख्यम् , दहनम् अग्निम् , दधानं धारयन्तम् , कमिव ? पानावसर लग्नम् अगस्त्यकृतशोषणसमयसम्पृक्तम् , अगस्त्यजठरानलमिव अगस्त्यस्य-तदाख्य मुनेः, उदराग्निमिव, पुनः संवकाभ्रगर्भगलितं संवर्तकाख्यमेघगर्भनिर्गतम् , युगान्तविद्युद्वलयमिव प्रलयकालिकविद्युन्मण्डलमिवेति चोत्प्रेक्षा, पुनः

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190