Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 185
________________ तिलकमञ्जरी। ३२७ सोपानमणिफलकमाबद्धफालानां सीमन्तकालंकारमाणिक्यानां जवावतरणजन्मना स्वादूकृतः स्वनसंतानेन, तलिनताडिततत्रीध्वनिकलेन च बहलितः विलोलकुसुमापीडहेलोत्पतितानां गुञ्जतां वियति बद्धमण्डलानामलिगणानां गुङ्कतेन, प्रत्यासन्न एव प्राकारान्तरितदर्शनस्य प्रतिक्षणमधिगताधिकाधिकव्यक्तीनां मधुरगम्भीरेण चरणपातधमधमारवेण संवर्धितः सविधमागच्छतः सोपानसंक्रमण स्त्रैणस्य मसृणतारो नूपुराणामुञ्चचार झात्कारः [म]। ___ तदनुसारप्रहितलोचनश्च पुरः प्राकरशिखरे पुञ्जीभूताः, नातिदूरवर्तिनीः, अतिभास्वरतया कार्तस्वरपताका इव पातालादुद्यतो रविरथस्योल्लसिताः, विद्युत इवोदधिजलमवगाहमानैर्घनैरपघनेभ्यो विश्लेषिताः, दिव्यौषधीरिव मथनोत्थितस्य धन्वन्तरेविस्मृताः, कल्पलता इव पारिजातजन्मभूमिमवलोक्रयितुममरकाननादागताः, दीधितीरिवास्तसमये गभस्तिमालिनो विगलिताः, कुलिशार्चिष इव सपक्षपर्वतान्वेषणाय समुद्रमायाताः, कनककमलिनीमृणालिका इवानिर्वाणसुरवारणकवलदानार्थमिन्द्राधोरणैरुपसंगृहीताः, समुद्रजलदेवता इव प्रभातमारुतोवगादातपं सेवितुमुत्थिताः, हस्तदीपिका इव धनदाधिराजस्य, अवचूलरत्नमालिका इव नभस्तल टिप्पनकम्-अपघन:-अङ्गम् । अनिर्वाणः-मत्तः [य]। स्वादूकृतः श्रोत्राखाद्यतामापादितः। च पुनः, तलिनताडिततन्त्रीध्वनिकलेन तलिनं-स्तोकं यथा स्यात् तथा, ताडिता या तन्त्रीः-वीणागुणः, तस्या यो ध्वनिस्तेन, कलेन-मधुरेण, विलोलकुसुमापीडहेलोत्पतितानां विशेषेण लोल-चञ्चलं यत् , कुसुमापीडं-पुष्पशिरोमाल्यं, तस्मात् हेलया-लीलया, उत्पतितानाम्-उड्डीनाना, गुञ्जतां शब्दायमानानां, वियति आकाशे, बद्धमण्डलानां बद्धश्रेणीनाम् , अलिगणानां भ्रमरवृन्दाना, गुङ्कतेन ध्वनिविशेषेण, बहलितःवर्धितः। पुनः प्रत्यासन्न एव निकटस्थ एव, प्राकारान्तरितदर्शनस्य प्रकारावरुद्धदर्शनस्य, सोपानसंक्रमेण सोपानमार्गेण, सविधं निकटम् , आगच्छतः, स्त्रैणस्य स्त्रीसमूहस्य, मधुरगम्भीरेण मधुरसान्द्रेण, चरणपातधमधमारवेण पादप्रक्षेपणजनितध्वनिविशेषेण, संवर्धितः सम्यग्वर्धितः [म]। __च पुनः, तदनुसारप्रहितलोचनः तदनुसारेण-तदनुसन्धानेन, व्यापारितनयनः, पुरः अने, झटिति शीघ्रं, कन्यकाः कुमारिकाः, अद्राक्षं दृष्टवानहम् , कीदृशीः? प्राकारशिखरे प्राकारोपरि, पुजीभूताः संहताः। पुनः नातिदूरवर्तिनीः किश्चिन्निकटवर्तिनीः । पुनः अतिभावरतया अत्युज्वलतया, पातालाद्, उद्यतः उद्गच्छतः, रविरथस्य सूर्यरथसम्बन्धिनीः, उल्लसिताः उच्छ्रिताः, कार्तवरपताका इव सुवर्णपताका इव । पुनः उद्धिजलं समुद्रजलम् , अवगाहमानैः प्रविशद्भिः, घनः मेघैः, अपघनेभ्यः स्वशरीरावयवेभ्यः, विश्लेषिताः विमुक्ताः, विद्युत इव तडिल्लता इव । पुनः मथनोत्थितस्य सागराऽऽलोडनोद्भूतस्य, धन्वन्तरेः खवैद्यस्य, विस्मृताः स्मृतिपथच्युताः, दिव्यौषधीरिव दिव्याः-मनोहराः खगीयाः, औषधीरिव । पुनः पारिजातजन्मभूमि पारिजातस्य-तदाख्यदिव्यवृक्षस्य, जन्मभूमि-समुद्ररूप ,अवलोकयितं द्रष्टम् ,अमरकाननात नन्दनवनात् , आगताः, कल्पलता इव । पुनः अस्तसमये अस्त काले, गभस्तिमालिनः सूर्यात् , विगलिताः भ्रष्टाः, दीधितीरिव कान्तीरिव । पुनः सपक्षपर्वतान्वेषणाय पक्षविशिष्टावशिष्ट पर्वतान्वेषणोद्देशेन, समुद्रम् , आयाताः आगताः, कुलिशार्चिष इव वज्राग्निज्वाला इव । पुनः अनिर्वाणसुरवारणकवलदानार्थम् अनिर्वाणस्य-मज्जनरहितस्य मत्तस्य वा, सुरवारणस्य-इन्दगजस्य, ऐरावतस्येति यावत् , कवलदानार्थ-ग्राससमर्पणार्थम्, इन्द्राधोरणैः इन्द्रहस्तिपकैः, उपसंगृहीताः सञ्चिताः, कनककमलिनीमृणालिका इव सुवर्णकमलिनीबिसलता इव । पुनः प्रभातमारुतोद्वेगात् प्रातःकालिकपवनोपद्रवाद्धेतोः, आतपं सूर्यमरीचिं, सेवितुम् , उत्थिता ऊर्ध्वमागताः, समुद्रजलदेवता इव समुद्रजलाधिष्ठानदेवता इव । पुनः धनदाधिराजस्य कुबेरनृपतेः, हस्तदीपिका इव हस्ततलावलम्बितदीपिका इव । पुनः नभस्तलवितानकस्य गगनतलरूपस्योल्लोचस्य, अवचूलरत्नमालिका इच अधोमुखरत्नमाला इव । सुवर्णचम्पककलिकासवः सुवर्णमयं यच्चम्पर्क-पुष्पविशेषः, तत्कलिकायाः

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190