Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 22
________________ टिप्पनक-परागविकृतिसंवलिता वरूध्वजप्रभाविस्तारितापूर्वसंध्यामयोध्यां पुरीं पश्यतः, कचिददर्शनादुन्मनीभूतमानसं मान्यमृषिजनं गत्वा तदाश्रयेषु दर्शनेनानन्दयतः, कचिदुत्थाय सादरमग्रतः कृतनमस्काराञ्जलिबन्धानगरवृद्धान् सगौरवमालपता, कचित् सितकुसुमदामदर्शनपुरःसरमावेदितनिजप्रयोजनद्विजातिजनमवधानदानेनानुगृह्णतः, कचिद्दर्शनपथावतीर्णेषु शीर्णदेवतायतनेषु कर्मारम्भाय सपदि संपादितपूजासत्कारान् सूत्रधारान् व्यापारयतः, कचिदासनसेवकनिवेदितदानविच्छेदासु दानशालासु दीनानाथपथिकसार्थस्य सविशेषमन्नपानशयनौषधादिदानमधिकृत प्रवर्तयतः, कचित् स्वखानितेषु सरस्सु तटरोपितानां वटाश्वत्थादिविटपिनां पालनार्थमुद्यानपालानुद्यमयतः मार्गघटितं च सूक्तवादिनं दरिद्रयाचकसार्थमर्थसंभारेण भूरिणा कृतार्थीकुर्वतः, तीव्रतिग्मांशुकरोपनिपातोपतापितः स्वदुःखमाचिख्यासुरिव प्रत्याससाद मध्याह्नसमयः [उ । सयत्नमुद्धृतहरित्कुशेन प्रातरेव धव टिप्पनकम्-उद्धृतहरितकुशेन कुशाः-दर्भाः, भन्यत्र कुशा-वल्गा [ ऊ] । नाना-देवमन्दिराणाम् , कूपानाम् , उद्यानानां-क्रीडाकाननानाम् , वापीनां-जलाशयविशेषाणां च, सहनेण-दशशतसंख्यमा संकुला-व्याप्ताम् । पुनः अकाल एव अनवसर एवेति सन्ध्यायामन्वेति, प्रकटितोत्सवैः आविष्कृतोत्सवैः, पौरलोकैः पुरवासिजनैः,प्रतिभवनं प्रतिगृहम् , उत्तम्भितानेकरागवस्त्रध्वजप्रमाविस्तारितापूर्वसन्ध्याम् उत्तम्भितानाम्-उपरि लम्बिताम् , अनेकरागवस्त्रध्वजाना-विविधवर्णविशिष्टवस्त्ररचितपताकानाम् , प्रभाभिः-दीप्तिभिः, विस्तारिता-प्रकटिता, अपूर्वसन्ध्या-विलक्षणसन्ध्या, यस्यां तादृशीम् । पुनः कीदृशस्य ? क्वचित् कस्मिंश्चित् स्थले, अदर्शनात् दर्शनाभावादेतो, उन्मनीभूतमानसम् उत्सुकीभूतहृदयम् , मान्यम् आदरणीयम् , ऋषिजनं मुनिजनम् , तदाश्रयेषु तदाश्रमेषु, गत्वा उपस्थाय, दर्शनेन खकर्मकावलोकनेन, आमन्दयतः प्रमोदयतः । पुनः क्वचित् कुत्रचित् स्थले, उत्थाय आसनादुत्थानं कृत्वा, अग्रतः अप्रे, सादरम आदरपूर्वकम् , कृतनमस्काराअलिबन्धान कृतः-सम्पादितः, नमस्काराय, अञ्जलिबन्धः-करद्वयसम्पुटनं यस्तादृशान् , नगरवृद्धान् नगरसम्बन्धिनो वृद्धजनान् , सगौरवं सादरं यथा स्यात् तथा, आलपतः प्रीत्या किमपि ब्रुवतः, पुनः क्वचित् कस्मिंश्चित् स्थाने, सितकुसुमदामदर्शनपुरस्सरं शुभ्रपुष्पमाल्यावलोकनापूर्वकम् , आवेदित निजप्रयोजनद्विजातिजनम् आवेदितं-विज्ञापितम् , निजप्रयोजन-स्वकार्य येन तादृशं द्विजातिजनं-ब्राह्मणजनम् , अवधानदानेन तत्प्रयोजनश्रवणावहितहृदयदानेन, अनुगृखतः अनुकम्पयतः । पुनः क्वचित् मश्चित् स्थले. शीर्णदेवतायतनेष भग्नदेवमन्दिरेषु, दर्शनपथावतीर्णेषु दृष्टिपथमागतेषु सत्सु, कर्मारम्भाय जीर्णोद्धारात्मकार्यारम्भाय, सपदि तत्क्षणे, सम्पादितपूजासत्कारान् सम्पादितः-कृतः, पूजया-प्रीत्या, सत्कारो येषां तादृशान् , सूत्रधारान् गृहनिर्माणशिल्पिविशेषान् , व्यापारयतः प्रवर्तयतः। पुनः क्वचित् कुत्रचित् स्थाने, आसन्न. सेवकनिवेदितदानविच्छेदासुभासम्मसेवकेन-निकटवर्तिसेवकेन, निवेदितः-सूचितः, दानविच्छेदः-अन्नादिदाननिवृत्तिर्यासु तादृशीघु, दानशालासु दानालयेषु, दीनानाथपथिकसार्थस्य दीनानां-दरिद्राणाम् , अनाथानाम्-निराश्रयाणां च, पथिकानो-मार्गगामिनाम्, सार्थस्य-समूहस्य, सविशेषम असाधारणम्, अन्नपानशयनौषधादिदानं अनानि-तण्डुलचूर्णादीनि, पानानि-जलदुग्धादिपेयवस्तूनि, शयनानि-खट्दा कटादिशय्याः, औषधानि-रोगनाशकद्रव्याणि, आदयो येषां तेषां वस्तूनां, दानम्-अर्पणम् , तत्र अधिकृतैः नियुक्तजनद्वारा, प्रवर्तयतः निर्विच्छेदं कारयतः । पुनः कचित् कस्मिंश्चित् स्थाने, खखानितेषु खानयित्वा खनिर्मापितेषु, सरस्सु जलाशयविशेषेधु, तटरोपितानां तटोपरि प्रादुर्भावितानाम् , वटाश्वत्थादिविटपिनां न्यग्रोधपिप्पलादिवृक्षाणाम् , पालनार्थ रक्षणार्थम् , उद्यानपालान् उद्यानरक्षकान् , उद्यमयतः प्रेरथतः । च पुनः, मार्गघटितं मार्गे मिलितम् , सूक्तवादिनं प्रियवादिनम् , दरिद्रयाचकसाथै निर्धनयाचक समूहम् , भूरिणा अधिकेन, अर्थसम्भारेण विभवौघेन, कृतार्थीकुर्वतः सन्तोषयतः [3]। सयत्नं यमपूर्वकं यथा स्यात् तथा, उदृतहरित्कुशेन उद्धृताः-अन्धकारमण्डलानिष्काशिताः, प्रकाशिता इति यावत् , हरितः-दिश एव, कुशाःदर्भा येन तादृशेन, पके हरित्कृशा-अधवरुणा, पुनः प्रातरेव प्रातःसमय एव, धवलितोदयाचलनुमशिखरं

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190