Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 130
________________ टिप्पनक-परागविवृतिसंवलिता धानाय यानपात्राणां सितपटानिव नवानासूत्रयन्तम् , आसक्तकर्णाभरणपद्मरागरागाममुक्तोद्भदकालकपिलिमानमिव कोमलाविरलनीलकेशकुण्डलिकालङ्कृतां श्मश्रुराजिमुद्वहन्तम् [झ], आमलकीफलस्थूलमुक्ताफलभृता सर्वतः प्रसृतकिरणविसरेण मुक्तासरेण तीरजलगाधतावलोकनसमयलग्नेन जलधिफेनस्तबकवलयेनेव कृतकण्ठपरिवेषम् [भ], आसक्तमुक्तासरस्फारमहसा हसन्तमिव वेलानदीपुलिनपरिणाहमतिपृथुलेन वक्षःस्थलेन, प्रस्तसागरागस्त्यजठरस्य ख्यातिदुःखेनेव क्षीणकुक्षिम् [2], आजानुलम्बमांसलबाहुम् , अतिनिष्ठुरकरप्रकोष्ठनिहितैकैकहाटककटकम् , उभयतः प्रसर्पता सलीलदोलायमानकरतलोपनीतेन प्रकोष्टकटकेन्द्रनीलकिरणरागेण नीलीरसेनेव भाविसंततप्रयाणसुलभमालिन्यलोपनाय लिपन्तमघनमधिजघनं श्वेतचीनांशुकम् [], अच्छ. लावण्यलिप्तदिग्मुखेन प्रेखता सललितं पदक्षेपेषु स्थूलपरिमण्डलेनोरुदण्डयुगलेन चण्डपवनप्रेरणादुभयतः प्रच द्वयस्य, क्षौमपाण्डुभिः पट्टवस्त्रवत्पीतसम्बलित शुक्लवर्णैः, प्रभानिर्गमैः कान्तिनिस्सरणैः, निस्सृतकान्तिभिरित्यर्थः, यानपात्राणां पोतानाम् , अधिकशोभाधानाय अत्यन्तशोभोत्पादनाय, नवान् नवीनान् , सितपटान् श्वेतवस्त्राणि, आसूत्रयन्तमिव समन्ततः सीव्यन्तमिवेत्युत्प्रेक्षा; पुनः श्मश्रुरार्जि चिबुकरोमावलीम्, उद्वहन्तं धारयन्तम्, कीहशीम् ? आसक्तकर्णाभरणपद्मरागरागाम् आसक्तः-संलग्नः, प्रतिविम्बित इत्यर्थः, कर्णाभरणपद्मरागस्य-कर्णालङ्करणभूतरक्तमणेः, रागः-रक्तवर्णो यस्यां तादृशीम् , अत एव अमुक्तोद्भेदकालकपिलिमानमिव अमुक्तः--अत्यक्तः, उद्भेदकाले-मश्रूद्गमकालिकः, कपिलिमा-पिशङ्गिमा यया ताहशीमिवेत्युत्प्रेक्षा, चुनः कोमलाविरलनीरकेशकुण्डलिकालङ्कता कोमला अविरलाः-सान्द्राश्च ये केशाः, तद्रूपाभिः कुण्डलिकाभिः-कुण्डलैः, कुण्डलाकारलम्बितकुटिलकेशरित्यर्थः, अलङ्कृतां शोभिताम् [झ]; पुनः मुक्तासरेण मौक्तिकहारेण, कृतकण्ठपरिवेषं कृतः कण्ठस्य परिवेषः-परिवेष्टनं यस्य तादृशम् , कीदृशेन ? आमलकीफलस्थलमक्ताफलभता आमलकीफलवत्-धात्रीफलवत्, स्थूलानि यानि मुक्ताफलानि-मुक्तामणयः, तेषां धारयित्रा, पुनः सर्वतः सर्वदिक्षु, प्रसृतकिरणविसरेण प्रसृतकान्तिकलापेन, कीरशेन केनेव ? तीरजलगातावलोकनसमयलग्न तीरस्थानां जलानां गाधताया:-अनतिगम्भीरतायाः, अवलोकनसमयेदर्शनवेलायाम् , लग्नेन-सम्पृक्तेन, जलधिफेनस्तबकवलयेनेव समुद्रफेनगुच्छमण्डलेनेवेत्युत्प्रेक्षा [अ] पुनः वक्षःस्थलेन उरःप्रदेशेन, वेलानदीपुलिनपरिणाहं तटवर्तिनदीसैकतदीर्घताम् , आहसन्तमिव तिरस्कुर्वन्तमिवेत्युत्प्रेक्षा, कीदृशेन ? आसक्तमुक्तासरस्फारमहसा आसक्त-संलग्नं, मुक्तासरस्य-मुक्ताहारस्य, स्फार-विस्तृतं, महः-तेजो यत्र तादृशेन, पुनः अतिपृथुलेन अत्यन्तस्थूलेन; पुनः प्रस्तसागरागस्त्यजठरख्यातिदुःखेनेव ग्रस्त:-पीतः, सागरःसमुद्रो येन तादृशस्य, अगस्त्यस्य-अगस्त्यमुनेः, जठरस्य-उदरस्य, ख्यात्या-प्रसिद्ध्या यद् दुःखं तेनेव, क्षीणकुक्षिं कृशोदरम् [2] पुनः आजानुलम्बमांसलबाहुम् आजानु-ऊरुपूर्वपर्यन्तम् , लम्बौ-आयती, मांसलौ-स्थूलौ, बाहू यस्य तादृशम् ; पुनः अति निष्ठुरकरप्रकोष्ठनिहितैकैकहाटककटकम् अतिनिष्टुरे-अत्यन्तकठोरे, करप्रकोष्ठे-मणिबन्धे, निहित-निवेशितम् , एकैकं हाटककटक-सुवर्णवलयं येन तादृशम : पुनः प्रकोष्टकटकेन्द्रनीलकिरणरागेण प्रकोष्ठेमणिबन्धे, यत् कटक-वलय, तत्खचितस्य, इन्द्रनीलस्य-तदाख्यनीलमणेः, किरणरागेण-किरणरूपविलेपनेन, किरणसम्बन्धिनीलवर्णेनेत्यर्थः, अधिजधनं जघनप्रदेशस्थम्, अघनम असान्दै. सक्षम मित्यर्थः. श्वेतचीनांशक श्वेतवर्ण चीनदेशरी वस्त्रम् , भाविसन्ततप्रयाणसुलभमालिन्यलोपनाय भाविना-भविष्यसा, सन्ततप्रयाणेन-अनवरतभ्रमणेन, सुलभ यन्मालिन्यं तस्य लोपनाय-अपनयनाय, लिम्पन्तं व्याप्नुवन्तम् , कीदृशेन तेन ? उभयतः पार्श्वद्वये, प्रसर्पता प्रसरता, पुनः सलीलदोलायमानकरतलोपनीतेन सलील-लीलापूर्वकम् , दोलायमानम्- इतस्ततश्चलनं कुर्वत् यत् करतलं तत् , उपनीतेन-प्रापितेन, केनेव ? नीलीरसेनेव नीली नाम नीलवर्णा ओषधिः, तत्सम्बन्धिरसेनेवेत्युत्प्रेक्षा [3]; पुनः अच्छलावण्यलिप्तदिङ्मुखेन वच्छकान्तिव्याप्तदिगन्तेन, पुनः पदक्षेपेषु पादविक्षेपेषु सत्सु, सललितं सविलासम्, प्रेता प्रचलता, स्थलपरिमण्डलेन स्थूलेन परिमण्डलेन-वतलाकारेण. ऊरुदण्डयगलेन जानूपरिभाग रूपदण्डद्वयेन, चण्डपवनप्रेरणात् उद्धतवाताभिधातात् , उभयतः पार्श्वद्वये, प्रचलितेन्द्रनीलशिलानाङ्गरं प्रच

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190