Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 83
________________ २२५ विलकमञ्जरी। प्रभृतिभिः, यस्य वेश्मनि व्यवहरन्ति सद्यःकृवापकारे शत्रावपि वितीर्णप्राणसर्वस्वाः स्वभुजविक्रमोत्कीर्तनावसरेऽपि परकीयसामर्थ्यसमर्थनपरास्त्वद्विधा राज्यचिन्तकाः प्रधानसचिवाः । सर्वमुचितमनुचितं च करणीय मया त्वदीयवचनम् , केवलमिदानी न वक्तव्योऽहमन्यत् किमपि, यदि च पक्षपातबुद्धिर्मयि ततः किमनया, कुरु कृतार्थ मे चक्षुः, तमेव दर्शय प्रीतिविस्तारितेक्षणवदनेन वज्रिणा त्रिदशसंसदि स्तुतगुणमसमसाहसावर्जितराजलक्ष्मीदर्शितप्रत्यक्षनिजरूपविभ्रममपेतरजसं राजर्षिम् , उपजाततर्षोऽहमतितरां तदङ्गियुगलावलोकने [अ]। इति वदन्तं च तं प्रीतहृदयो दण्डाधिपः प्रत्यवादीत्-'कुमार! यद्येवमद्यैव कुरु प्रस्थानम्' इत्युदीर्य निरवद्येऽह्नि शिक्षयित्वा बहुप्रकारमनुचरीकृतप्रचुरपदातिचक्रेण कृत्वा मया सततकृतसेवं देवपादान्तिकमजीगमत्। सोऽहमादाय तमुदप्ररभसं प्रस्थितः पथि वहन्नहरहः प्रयाणैरलघुभिर्विलचितानेकनगरपामजनपदः क्रमेणास्या यापि महिनापि । स राजा देवराजप्रभृतिभिः इन्द्रादिभिः, कथमिव कस्मादिव, न प्रशस्यते स्तूयते, प्रशस्यत एवेत्यर्थः । यस्य राज्ञः, वेश्मनि गृहे, त्वद्विधाः भवादृशाः, राज्यचिन्तकाः राज्यचिन्तनपराः, प्रधानसचिवाः मुख्यमत्रिणः, व्यवहरन्ति योगक्षेमौ निर्वहन्ति । कीदृशाः? सद्यःकृतापकारे तत्क्षणविहिताप्रिये, शत्रावपि रिपावपि, वितीर्णप्राणसर्वस्वाः वितीर्ण-समर्पितम् , प्राणरूपं सर्वस्वं-सर्वधनम् , सर्वधनेभ्योऽप्यतिप्रियाः प्राणा इत्यर्थः, यदा प्राणाः सर्पखं च यस्तादृशाः; पुनः स्वभुजविक्रमोत्कीर्तनावसरेऽपि निजबाहुबलवर्णनवेलायामपि, परकीयसामर्थ्यसमर्थनपराः परस्य-शत्रोरिद परकीयं तस्य, सामर्थ्यस्य-शक्तेः, समर्थने-श्लाघने, पराः-प्रवीणाः । उचितं योग्यम् , अनुचितम् अयोग्यं च, सर्व त्वदीयवचनं त्वत्सम्बन्धिकर्तव्यावेदकवाक्यम् , मया, करणीयं कर्तव्यं पालनीयमिति यावत् , केवलं किन्तु, अहम् , इदानीं सम्प्रति, अन्यत् अनुपदवक्ष्यमाणकार्यव्यतिरिक्तम् , किमपि कार्य,न वक्तव्यः कर्तव्यत्वमेव न ज्ञापनीयः । यदि, मयि मद्विषये, पक्षपातबुद्धिः उपकारदृष्टिः, वर्तत इति शेषः, तर्हि अनया निरुक्तवार्तया, अन्यया इति पाठेतु वार्तया इति शेषः, तथा च अन्यया वक्ष्यमाणकार्यान्यकार्यविषयिकया वार्तया, किम् अलमिति शेषः। मे मम, चक्षुः, सफलम,कुरूसम्पादय, तम् वर्णितगुणम्, राजामेव मेघवाहनमेव, दशेयदृष्टिगोचरतामापादय । कीदृशम् । प्रीतिविस्तारितेक्षणवदनेन प्रीत्या-प्रेम्णा, विस्तारिते-विकासिते, ईक्षणे-नयने, वदनं-मुखं च येन तादृशेन, वज्रिणा इन्द्रेण, त्रिदशसंसदि देवसभायाम् , स्तुतगुणं प्रशंसितगुणम् ; पुनः असमसाहसावर्जितराजलक्ष्मीदर्शितप्रत्यक्षनिजरूपविभ्रमम् असमेन-नास्ति समं सदृशं यस्य तादृशेन, असाधारणेनेत्यर्थः, साहसेन-अशक्यकार्यकारित्वेन, आवर्जितया-प्रसादितया,राजलक्ष्म्या-राजोपास्यलक्ष्मीदेव्या,दर्शितः-दृष्टिगोचरतामापादितः, प्रत्यक्षनिजरूपस्य-प्रत्यक्षखमूर्तेः, विभ्रमः-विलासो यस्मै तादृशम् । पुनः अपेतरजसं विगलितकलुषम् । अहं तदझियुगलावलोकने तसादद्वयदर्शने, अतितराम्, अत्यन्तम् , उपजातहर्षः उत्पन्नाभिलाषः, अस्मीति शेषः [अ] । इति इत्थम् , वदन्तं कथयन्तम् , तं नृपकुमारम्, प्रीतहृदयः प्रसनहृदयः, दण्डाधिपः चतुरगसेनाध्यक्षः, वज्रायुध इति यावत् , प्रत्यवादीत् प्रत्युकवान् । किमित्याइ-कुमार! समरकेतो !, यदि एवम् इत्थमभिलष्यसि, तर्हि अद्यैव प्रस्थानं तत्पार्श्वप्रयाणं कुरु, इत्युदीर्य इत्युक्त्या, निरषद्ये प्रशस्ते, अहानि दिवसे, यहुप्रकारं बहवः प्रकाराः प्रभेदा यस्मिस्तादृशं यथा स्यात् तथा, शिक्षयित्वा तयोग्यकार्यक्रममुपदिश्य, अनुचरीकृतप्रचुरपदातिचक्रेण अनुचरीकृतम्-अनुगामितां नीतं सेवकतामापादितं वा, प्रचुराणां-बहूनाम्, पदातीना-पादगामिनाम्, चक्र-समूहो येन तादृशेन, मया, सततकृतसेवं सततम्-अनवरतम् , कृता सेवा यस्य तादृशम् , कृत्वा सेवयित्वेत्यर्थः, समरकेतुमिति शेषः, देवपादान्तिकं देवस्य-भवतः, पादयोः पार्श्वम्, अजीगमत मद्वारा प्रेषितवान् , सेनापतिरिति शेषः । सः गृहीततदानयनभारः, अहं विजयवेगः, उदभ्ररभसं प्रकृष्टवेगम्, तं समरकेतुम् , आदाय गृहीत्वा, प्रस्थितः कृतप्रयाणः, पथि मार्गे, वहन् तं गमयन् , अहरहः प्रतिदिनम् , अलघुभिः दीर्घः, प्रयाणैः यात्राभिः, क्रमेण प्रयाणक्रमण, विलजितानेकनगरप्रामजनपद: बिलकितानि-अतिक्रान्तानि, अनेकानि-बहूनि, नगराणि-"पुण्यक्रियादिनिपुणैश्चातुर्वण्यैर्जनैर्युतम् । अनेकजातिसम्बद्ध नैकशिल्पिसमाकुलम् ॥ सर्वदैवतसम्बई नगरं तदभिधीयते ।" इत्यन्यत्रोतलक्षणानि, प्रामा:-"विप्राश्च विप्रमृत्याश्च यत्र चैव वसन्ति हि। स तु प्राम इवि प्रोतः २९ तिलक.

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190