Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 89
________________ तिलकमञ्जरी। २३१ पत्वपरिहारेण, संपत्स्वादरातिशयेन, समानगुणेषु गौरवोत्कर्षेण, विवादेषु पक्षग्रहणेन, नूतनार्थलाभेषु संघिभजनेन, नर्मखमर्मोद्धाटनेन, मत्रणेष्वदूरीकरणेन, दारसंनिधावविकारदर्शनेन, प्रणयकलिकोपेषु स्वयमनुनयेन; उत्सवेष्वप्रपूजासंपादनेन, प्रारब्धवस्तुनिर्वहणेषु स्तुतिप्रपञ्चनेन, प्रतिपन्नकार्येष्वविसंवादनेन, सर्वत्र चातिविश्वासदर्शनेन परं सख्यमानेयः, एष ते भ्राता च भृत्यश्च सचिवश्च सहचरश्च' []। इत्युक्त्वा विसर्जितास्थानराजको नृपतिरासनादुत्तस्थौ । कुमारोऽपि 'यदाज्ञापयति तातः' इत्यभिदधानः करे गृहीत्वा समरकेतुं निषिद्धपरिजनः शुद्धान्तसंचारोचितेन परिचारकगणेनानुगम्यमानो मदिरावतीभवनमगच्छत् । तत्र च कृतणामो मातुर्दर्शयित्वा समरकेतुं कृतसकलतद्वृत्तान्तसंकथः स्थित्वा चिरमवाप्तवस्त्रभूषणेन तेनानुगम्यमानः स्वावासमागच्छत् । तत्र चारब्धनिजनिजकर्मणा सूदवारप्रमदाप्रायेण मदिरावतीपरिजनेन यथायोग्यमुपपादिताः समाहूतसकलप्रधानलोकेन समरकेतुनान्येन च प्रणयिना राजसमूहेन सहितः स्नानभोजनादिकाः क्रिया निरवर्तयत् । अपराहसमये च तस्याहारमण्डपाजिरनिषण्णस्य निकटोपविष्टविशिष्टेष्टराजलोकस्य राज्ञा समादिष्टः परं सान्द्रम् , सख्यं मित्रताम् , आनेयः प्रापणीयः, कदा केन प्रकारेण ? आपत्सु आपत्कालेऽपि, अपरिहारेण अपरित्यागेन; सम्पत्सु सम्पत्काले, अभ्युदयवेलायामिति यावत् , आदरातिशयेन अत्यम्तादरेण; समानगुणेषु तुल्यगुणकव्यक्त्यपेक्षयापि, यद्वा व्यक्त्यन्तरतुल्यगुणेष्वपि, गौरवोत्कर्षेण असाधारणत्वोत्कीर्तनेन; विवादेषु अन्यैः सह विरोधेषु, पक्षग्रहणेन एतत्पक्षपातेन; नूतनार्थलामेषु नवीनवित्तलामेषु, संविभजनेन तादृशवित्तस्य सम्यग्वण्टनेन; नर्मसु कीडासु, अमर्मोखट्टनेन मर्मप्रदेशानुद्धर्षणेन; मन्त्रणेषु रहस्यविचारणावसरेषु, अदूरीकरणेन अनपसारणेन; दारसन्निधौ खभार्यासन्निधावपि, अविकारदर्शनेन अलजाप्रकटनेन; प्रणयकलिकोपेषु प्रणयेन-मेहेन, यः कलि:कलहः, तज्जन्यक्रोधेषु, स्वयं खेनैव, अनुवर्तनेन अनुसरणेन; उत्सवेषु शुभकार्येषु, अग्रपूजासम्पादनेन सर्वप्रथमसत्कारेण प्रारब्धवस्तुनिर्वहणेषु प्रारब्धकार्यसम्पादनेषु, स्तुतिप्रपञ्चनेन गुणोत्कीर्तन विस्तारेण प्रतिपन्नकार्येषु निश्चितकार्येषु, अविसंवादनेन विरोधाप्रकटनेन; च पुनः, सर्वत्र सर्वेषु कार्येषु, अतिविश्वासदर्शनेन अत्यन्तविश्वासप्रकटनेन । एषः अयम् , समरकेतुकुमार इत्यर्थः, ते तव, भ्राता सोदरः, च पुनः, भृत्यः सेवकः, च पुनः, सचिवः मन्त्री, च पुनः, सहचरः सखा [ऋ]। इत्युक्त्वा इति कथयित्वा, विसर्जितास्थानराजकः विसर्जितखखस्थानगमनार्थमाजप्तम् , आस्थानस्य-अधिष्ठितसभायाः, राजकं-नृपगणो येन तादृशः, नृपतिः मेघवाहनः, आसनात् नात्, उत्तस्थौ उत्थितवान् । कमारोऽपि हरिवाहनोऽपि, तातः पिता, यत् आज्ञापयति आदिशति तदहमवश्यं करिष्यामीति शेषः, इत्यभिदधानः इति ब्रुवाणः, प्रतिजानान इत्यर्थः, समरकेतुं तत्संज्ञक कुमारम् , करे हस्ते, गृहीत्वा, निषिद्धपरिजनः निवर्तिततदनुयायिवर्गः, शुद्धान्तसञ्चारोचितेन अन्तःपुरसधारयोग्येन, परिचारकगणेन मृत्यवर्गेण, अनुगम्यमानः अनुस्रियमाणः, मदिरावतीभवनं मदिरावत्याः-खमातुः, भवन-प्रासादम् , अगच्छत् गतवान् । तत्र च मदिरावतीभवने च, मातुः मदिरावत्याः, कृतप्रणामः कृतचरणपातः सन् , समरकेतुं तदाख्यमामीतकुमारम्, दर्शयित्वा दृष्टिगोचरीकृत्य, कृतसकलतद्वत्तान्तसंकथः कृता, सकलस्य-समस्तस्य, तद्वृत्तान्तस्य-तदीयसमाचारस्य, संकथा-संलापो येन तादृशः, चिरं दीर्घकालम् , स्थित्वा तत्रावस्थितिं कृत्वा, अवाप्तवस्त्रभूषणेन मदिरावतीलब्धवस्त्रालङ्कारेण, तेन समरकेतुना, अनुगम्यमानः अनुस्रियमाणः, खावासं खभवनम् , अगच्छत् गतवान् , तत्र च तस्मिन्नावासे च, आरब्धनिजकर्मणा आरब्धस्वकार्येण, सूदवारप्रमदाप्रायेण सूदस्य-ओदनपाचकस्य, वारःअवसरः, यासां तादृशप्रमदाप्रायेण-तादृशस्त्रीप्रचुरेण, मदिरावतीपरिजनेन मदिरावतीपरिचारिकाजनेन, यथायोग्यं यथोचितम् , उपपादिताः निष्पादिताः, नानभोजनादिकाः मानभोजनप्रभृतीः, क्रियाः कर्माणि, समाहूतसकलप्रधानलोकेन समाहूताः-सम्यगाहूताः, सकलाः-समस्ताः, प्रधानलोकाः-सचिवजना यस्य तादृशेन, समरकेतुना तदाख्यप्रकृतकुमारेण, अन्येन तदन्येन, प्रणयिना मेहिना, राजसमूहेन नृपसमूहेन च सहितः सन्, निरवर्तयत् समपादयत् । अपराह्नसमये मध्याह्नसमये, आहारमण्डपाजिरनिषण्णस्य भोजनभवनप्राङ्गणोविष्टस्य, पुनः निकटो

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190