Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 81
________________ तिलकमञ्जरी । २२३ वितीर्णकुसुमविलेपनवसनालङ्कारमुपनीत विविधव स्त्रवाहनं प्रत्यर्पिताहवगृहीतनिःशेषकरितुरङ्गस्यन्दनं च विधाय विनोद्य च मुहूर्तम रतिच्छेदकारिभिः कथालापैरभिमुखो भूत्वा कृताञ्जलिरवादीत्--- 'कुमार ! सकलजगदेकवीरस्य करदीकृताशेषसागरान्तरद्वीप भूपतेर्विपक्षव्यसन सङ्कटगतैर्महद्भिरपि भूमिपालैरपेक्षणीयसाहाय्यकस्य चतुरुदधिविख्यातपार्थिवप्रथम सूनोः कथचिद् विधिवशाद् गृहायातस्य परेण परिकल्पितात्पवृत्तिरस्मद्विधो जनः किं ते प्रियं करोतु, केन वा कृतेनोपचारेण प्रीतिमधिगच्छतु । तथापि यद्यनुग्रहबुद्धिरस्मासु तदेतदङ्गीकुरु सततमादेशकारिणा समीपदेशस्थितेन मया प्रतिपन्नसकलपृथ्वी व्यापारभरनिराकुलो मदीयमाधिपत्यपदम्, अथ तुच्छमिति मन्दाभिलाषस्तदा स परिजन इतो गत्वा तदेव पित्रा प्रतिपादितमतिप्राज्यवैभवमध्यास्स्व निजमेव यौवराज्यम्, मा च मन्येथा यथाहमेतेन निर्जित्य विहितानुग्रहः कथमिदं करोमि, कोऽहं तब पराजये, धृताधिज्यधन्वानमन्योऽपि किमस्ति जगति यस्त्वां समरकर्मणा करोति विमुखम् । यत्तु मुख्यै कुसुमविलेपनवसनालङ्कारं वितीर्णानि - समर्पितानि कुसुमानि-पुष्पाणि विलेपनानि - चन्दनादिद्रव्याणि वसनानि-वस्त्राणि, अलङ्काराः - आभूषणानि च यस्मै तादृशम्, पुनः उपनीतविविधवस्त्रवाहनम् उपनीतानि - उपस्थापितांनिदत्तानीत्यर्थः, विविधानि-अनेकप्रकाराणि, वस्त्रानि वाहनानि च यस्मै तादृशम् पुनः प्रत्यर्पिता हवगृहीतनिःशेषकरितुरङ्गस्यन्दनं प्रत्यर्पिताः - प्रत्यावर्त्तिताः, आहवे- रणे, गृहीताः आयत्तीकृताः, करिणः - हस्तिनः, तुरङ्गाः - अश्वाः, स्यन्दनाःरथा यस्मै तादृशम् विधाय कृत्वा, व पुनः, मुहूर्त क्षणम्, अरतिच्छेदकरिभिः पराजयग्लानिविनाशिभिः, कथालापैः वार्तालापैः, विनोद्य विनोदमनुभाव्य, अभिमुखः सम्मुखो भूत्वा कृताञ्जलिः रचिताञ्जलिः, अवादीत् उक्तवान्; सर्वत्र सेनापतिरिति शेषः । किमित्याह - कुमार ! समरकेतो !, परेण अन्येन, परिकल्पिताल्पवृत्तिः परिकल्पिता - सम्पादिता, अल्पा-परिमिता, वृत्तिः - जीविका यस्य तादृशः, अस्मद्विधः अस्मादृशो जनः, ते तब, किं प्रियम् अभीष्टम् करोतु सम्पादयतु, न किमपि कर्तुमर्हतीत्यर्थः । कीदृशस्य ते ? सकलजगदेकवीरस्य सकलेसमस्ते, जगति एकवीरस्य- अद्वितीयवीरस्य पुनः करदीकृताशेषसागरान्तरद्वीपभूपतेः करदी कृताः- करदायकत्वमापादिताः, अधिकृता इति यावत्, अशेषाः समग्राः सागरान्तरद्वीपानां समुद्र मध्यवर्तिद्वीपानाम्, भूपतयः -- नृपतयो येन तादृशस्य; पुनः विपक्षव्यसनसङ्कटगतैः विपक्षव्यसनैः - शत्रुकृतदुःखैः, यत् सङ्कटं - दुःखस्थितिः, तद्गतैः- तत्प्राप्तैः, महद्भिरपि श्रेष्ठैरपि समृद्धैरपीत्यर्थः, भूमिपालैः नृपैः, अपेक्षणीय साहाय्यकस्य अपेक्षणीयम् आश्रयणीयम्, साहाय्यम्उपकारो यस्य तादृशस्य; पुनः चतुरुदधिविख्यातपार्थिवप्रथम सूनोः चतुर्णाम् उदधीनां समुद्राणां समाहारः चतुरुदधि, तत्र - तत्परिच्छिन्नभूमण्डल इत्यर्थः, विख्यातः - प्रसिद्धो यः पार्थिवः - चन्द्रकेतुः, तस्य प्रथमसूनोः - ज्येष्ठपुत्रस्यः पुनः विधिवशाद् दैवयोगात्, कथञ्चित् केनापि प्रकारेण महता कष्टेनेत्यर्थः, गृहायातस्य मगृहातिथितामापन्नस्य । वा अथवा, कृतेन विहितेन, फेन उपचारेण सेवया, प्रीतिं प्रसादम् अधिगच्छतु प्राप्नोतु । तथापि भवत्प्रियकरणा सम्भवेऽपि अस्मासु अस्मद्विषये यदि अनुग्रहबुद्धिः दयादृष्टिः, अस्तीति शेषः, तत् तर्हि, सततं सर्वदा, आदेशकारिणा आज्ञाकारिणा, समीपदेशस्थितेन पार्श्वस्थितेन, मया वज्रायुधेन प्रतिपन्नसकल पृथ्वी व्यापारभरनिराकुलः प्रतिपन्नः - स्वीकृतो यः सकलायाः - समप्रायाः, पृथ्व्याः, व्यापारभरः - शासन कार्यजातम् तेन निराकुल:स्वस्थः सन् एतत् इदम् मदीयं मत्सम्बन्धि, आधिपत्यपदं चतुरङ्गसेनाध्यक्षपदम् अङ्गीकुरु स्वीकुरु । अथ यदि, तुच्छं तत् पदं न्यूनमिति हेतोः मन्दाभिलाषः मन्दः शिथिलः, अभिलाषः- तत्कामना यस्य तादृशः, त्वमसीति शेषः, तदा तर्हि, सपरिजनः सपरिवारः, इतः अस्मात् स्थानात्, गत्वा, पित्रा चन्द्रकेतुना, प्रतिपादितं दत्तम्, अतिप्राज्यवैभवम् अतिप्राज्यम् - अत्यधिकम्, वैभव - धनसम्पत्तिर्यस्मिंस्तादृशम्, निजं स्वकीयम्, यौवराज्यमेव युवराजत्वपदमेव, अध्यास्स्व अधितिष्ठ । च पुनः, मा मन्यथा न मन्यख यथा यत्, एतेन अनेन, निर्जित्य पराजित्य, विहितानुग्रहः कृतानुग्रहः, अहं कथं केन प्रकारेण इदं यौवराज्यकार्यम् करोमि सम्पादयामि । तव रणवीरस्य, पराजये पराजयकार्ये, अहं कः अकिञ्चित्करत्वान्न कोऽपीत्यर्थः । जगति लोके, अन्योऽपि मदन्योऽपि,

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190