Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 69
________________ २११ तिलकमञ्जरी। मांसभेदे, मन्द मेदसि, मुखरमस्थिषु, मन्थरं स्नायुग्रन्थिध्वसंख्यमसृजन्मार्गणबातम् [ण] । अतिवेगध्यापृतोऽस्य तत्र क्षणे प्रोत इव तूणीमुखेषु, लिखित इव मौाम् , उत्कीर्ण इव पुत्रेषु, अवतंसित इव श्रवणान्ते तुल्यकालमलक्ष्यत वामेतरः पाणिः [1] । अविरलशरासारत्रासिता हंसीव मेघागमे पल्वलमनवलोकिताश्रयविसंस्थुला सैन्यपतिवक्षःस्थलममुञ्चद् राजलक्ष्मीः; उद्वान्तहृदया च क्षणं बाहुशिरसि, क्षणं धनुषि, क्षणं कृपाणधाराम्भसि, क्षणमातपत्रे, क्षणं पालिध्वजेषु, क्षणं चामरेष्वकुरुत स्थितिम् । [२] । अहं तु तां तस्य विपदमप्रतिविधेयामुपनतामवलोक्य किंकर्तव्यतामूढः स्तम्भित इव मुहूर्तमतिष्ठम् , प्रयत्नवशाच प्रत्यानीतधैर्य इतस्ततश्च धावता हृदयेन तस्य प्राणपरिरक्षणोपायान् मृगयमाणः सततमासन्नवलंपि व्याकुलतया मुहूर्तमपसृतं स्मृतेझगिति तत्पुरा परमेश्वरेण प्रहितमङ्गुलीयकं बालारुणमस्मरम् , उच्छृसितहृदयश्च तदभिनन्द्य बहुप्रकारमादरकृतप्रणामः पाणिना दक्षिणेनोदक्षिपम् , आक्षेपस्खलद्वाणिश्च तत्क्षणमरातिवाणोन्मथितकेतुच्छत्रकार्मुकं टिप्पनकम्-पालिध्वजा....... थ] ! परिजनैः, परिगत-व्याप्तमिवेति सर्वत्रोत्प्रेक्षा; पुनः मांसभेदे मांसभेदनावसरे, मूकं निःशब्दम् ; पुनः मेदसि वसायाँ मांसजन्यधातुविशेषे इति यावत् , तद्भेदने इत्यर्थः, मन्दम् अतीक्ष्णम् । पुनः अस्थिषु अस्थिभेदने, मुखरं वाचालम् । पुनः रमायुग्रन्थिषु शारीरिकवायुवाहकनाडीविशेषग्रन्थिभेदने, मन्थरं जडम् , शिथिलप्रवृत्तिकमिति यावत् [ण] । तत्र तस्मिन् , क्षणे मुहूर्ते, अस्य नृपकुमारस्य, अतिवेगव्यापृतः वेगातिशयेन कृतव्यापारः, वामेतरः दक्षिणः, पाणिः हस्तः, तुल्यकालं समकालमेव, अलक्ष्यत लक्षितः । कीदृशः? तूणीमुखेषु इषुधिमुखेषु, प्रोत इव गुम्फित इव; पुनः मौयां ज्यायाम् , लिखित इव चित्रित इव; पुनः पुखेषु बागमूलेषु, उत्कीर्ण इव उरिक्षप्त इव; पुनः श्रवणान्ते कर्णान्तभागे, अवतंसित इव अलङ्करणतामापादित इवेति सर्वत्रोत्प्रेक्षा [त] | मेघागमे वर्षागमे, अन. वलोकिताश्रयविसंस्थला अनवलोकितः-अदृष्टः, आश्रयः-स्थानं यया ताशी, अत एव विसंस्थुला-शिथिला, हंसी, पल्वलं क्षुद्र जलाशयमिव, अविरलशरासारत्रासिता अविरलेन-निरन्तरेण, शराणां-बाणानाम् , आसारेण-धारापातेन, त्रासिता सती, राजलक्ष्मीः राजोपास्यलक्ष्मीनामकदेवी, सैन्यपतिवक्षःस्थलं सैन्यपतेः-सेनानायकस्य, वज्रायुधस्य, वक्षःस्थलं-वक्षःप्रदेशम्, अमुञ्चत् त्यक्तवती । च पुनः, उद्वान्तहृदया उद्वान्तम्-उज्झितम्, हृदयं-सेनापतिवक्षो । यया तादृशी सती, अत्र उद्धान्तहृदयेति पाठे उद्घान्तं-निजाश्रयविश्लेषवशेन, सम्भ्रान्तं-हृदयं यस्यास्तादशी सतीत्यर्थः, राजलक्ष्मीरिति शेषः। क्षणं किञ्चित् कालम् , बाहुशिरसि बाहूलभागे, पुनः क्षणं धनुषि धनुर्दण्डोपरि, पुनः क्षण कृपाणधाराम्भसि खड्गधारात्मकजले, पुनः क्षणम् आतपत्र छनोपरि, पुनः क्षणं किञ्चित् कालम् , पालिध्वजेषु कोणस्थितध्वजेषु, पुनः क्षणं चामरेषु राजव्यजनेषु, स्थिति निवासम् , अकुरुत कृतवती [थ] । अहं तु विजयवेगस्तु, तस्य सेनापतेः, अप्रतिविधेयाम् अप्रतिकार्याम् , उपनताम् उपस्थिताम् , तां विपदं विपत्तिम् , अवलोक्य दृष्ट्वा, किंकर्तव्यतामूढः कर्तव्यविवेकरहितः, स्तम्भित इव कृतस्तम्भन इव, मुहूर्त क्षणम् , अतिष्ठं स्थितवान् । च पुनः, प्रयत्नवशात् आयासवशात् , प्रत्यानीतधैर्यः प्रत्यानीतं-पुनरावाहितं धैर्य येन तादृशः सन् , इतस्ततः अत्र तत्र, धावता भ्रमता, हृदयेन मनसा, तस्य सेनापतेः, प्राणपरिरक्षणोपायान् प्राणपरिरक्षणस्य-जीवनरक्षायाः, उपायान् प्रतीकारान् , मृगयमाणः अन्विष्यन् , सततं सदैव, आसन्नवर्त्यपि पार्श्ववर्त्यपि, व्याकुलतया व्यप्रतया, मुहूर्त क्षणम् , स्मृतेः स्मृतिपथात्, अपस्तं भ्रष्टम् , पुरा पूर्वम् , परमेश्वरेण परमेश्वरतुल्य प्रभावेण भवता, प्रहितं प्रेषितं, तत्, बालारुणं तन्नामकम् , अडलीयकम् अङ्गुलिभूषणम् , झटिति शीघ्रम् , अस्सरं स्मृतवान् । च पुनः, उच्छ्रसितहृदयः उदलितहृदयः सन्, तत् अकुलीयकम् , बहुप्रकारं बहवः प्रकारा यसिस्वादशं यथा स्यात् तथा, अभिनन्ध स्तुत्या, आदरकृतप्रणाम: आदरेण न तूपेक्षया कृतः प्रणामो नमस्कारो येन तादृशः, दक्षिणेन वामेतरेण, पाणिना हस्तेन, उदक्षिपम् उत्क्षिप्तवान् । च पुनः, आक्षेपस्खलवाणिः आक्षेपेण-रिपुकृतापमानेन, स्खलन्तीस्खलनमाश्रयन्ती, वाणी-वचनं यस्य तादृशः, तत्क्षणं तत्कालम्, अरातिवाणोन्मथितकेतुच्छत्रकार्मुकम् .

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190