Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 190
________________ 332 / टिप्पनक-परागविकृतिसंवलिता प्रतीष्यमाणपटुविलेपनामोदाम् [ह], वेलायनतरुभिरपि विबुद्धशकुनिकृतकोलाहलैरुद्भूतमदनोन्मादेवि परिवृताम्, अन्तरिक्षेणापि गलदवश्यायबिन्दुना बद्धस्मरस्वेदेनेवोत्सङ्गिताम् , निशान्तमरुताप्याकृष्टकमलकेसरचयेन रोमाञ्चिताङ्गेनेवालिङ्गिताम् , मदशक्तिमिव मन्दरान्दोलनात् पलायितां मदिरायाः, निष्यन्दधारामिव मुष्टिनिपीडनाद् विगलितामनशक्षुचापयष्टेः, द्विरष्टवर्षवयसं दिव्यरूपां कन्यकामद्राक्षम् [1] / इति कथारसाक्षिप्तचेतसि स्ववृत्तान्तमावेदयति समरकेतौ निश्चलपक्ष्मलेखे लिखित इव पश्यति तदीयमुखमभिमुखप्रहितदृशि सभ्यलोके श्लथीकृतान्तरकथेष्वाकर्णयत्सु सकुतूहलमन्तरान्तराविस्तारितहर्षकोलाहलेषु कमल. गुप्तप्रभृतिषु प्रधानराजपुत्रेषु प्रचलितशिरसि सप्रपञ्चमाकर्णयति सरसतां कथापञ्जरस्य मञ्जीरमुख्य बन्दिवृन्दे सहसैव हर्षोत्फुल्ललोचना प्रविश्य प्रतीहारी हरिवाहनं व्यजिज्ञपत-'कुमार ! युवराजवार्ताद्भुतश्रवणेन पीतमतिचिरं कर्णामृतम्, इदानीमीक्षणामृतं क्षणमेकमास्वाद्यताम् / ' इत्युदीर्य दूरावनतपूर्वकाया दक्षिणेन करणादाय सादरमुपरितनवसनपल्लवप्रान्तसंयतं दिव्यं चित्रपटमुपनिन्ये [ज्ञ]॥ प्रत्युषसापि प्रभातेनापि, गगनमरकतस्थालनिहितदिनकरप्रदीपेन गगनरूपम्-आकाशरूपं, यत् मरकतस्थालम्इन्द्रनीलमणिमयं स्थालं, तत्र निहितेन-धृतेन, दिनकररूपेण-सूर्यरूपेण, प्रदीपेन, प्रस्तुतारात्रिकेणेव प्रवर्तितनीराजनेनेव, कृतोपस्थानां कृताराधनाम् / पुनः दूरम् , उल्लसितैः उस्थितैः, दिगन्तैरपि दिङ्मुखैरपि, साभिलाषैरिव सस्पृहैरिव, प्रतीष्यमाणपटविलेपनामोदां प्रतीष्यमाणः-अभिलष्यमाणः, गृह्यमाण इत्यर्थः, पटुः-उत्कटः, विलेपनामोद:-विलेपनगन्धो यस्यास्तादृशीम् [ह ] | पुनः विबुद्धशकुनिकृतकोलाहलैः विबुद्धैः-प्रबुद्धैः, शकुनिभिः-पक्षिभिः, कृतः कोलाहलो येषु तादृशैः, वेलावनतरुभिरपि तटस्थवन क्षैरपि, उद्भूतमदनोन्मादरिव आविर्भूतकामोन्मादैरिव, परिवृतां परिवेष्टिताम् / पुनः अन्तरिक्षेणापि आकाशेनापि, गलवश्यायबिन्दुना स्रवत्तुषारबिन्दुना, बद्धस्मरखेदेनेव धृतकामविकारात्मकधर्मोदकेनेव, उत्सङ्गितां क्रोडीकृताम् / पुनः मन्दान्दोलनात् मन्दराचलालोडनात् , पलायिताम् अपमृताम् , मदिरायाः, मदशक्तिमिव मनोविकारताशक्तिमिवेत्युत्प्रेक्षा / पुनः मुष्टिनिपीडनात् मुष्ट्या निष्कर्षणात् , अनड्रेक्षु. चापयष्टेः अनङ्गसम्बन्धीक्षुरूपधनुर्यष्टेः, विगलितां च्युता, निष्यन्दधारामिव रसप्रस्रवणधारामिव [क्ष]। इति इत्थं, कथारसाक्षिप्तचेतसि कथाकौतुकाकृष्टहृदये, समरकेतौ तदाख्यप्रकृतनृपकुमारे, स्ववृत्तान्तं खकीयवार्ताम् , आवेदयति विज्ञापयति सति, लिखित इव चित्रित इव, निश्चलपक्ष्मलेखे निर्निमेषनयनरोमावलीके, पुनः अभिमुख. प्रहितदशि अभिमुखव्यापारितलोचने, सभ्यलोके सभासज्जने, तदीयमुखं समरकेतुमुखं, पश्यति सति, पुनः श्लथीकृतान्तरकथेषु शिथिलितमध्यवर्तिकथानकेषु, पुनः सकुतूहलं सौत्सुक्यम् , अन्तरा अन्तरा मध्ये मध्ये, विस्तारित. हर्षकोलाहलेषु विस्तारितहर्षजन्यकलकलेघु, कमलगुप्तप्रभृतिषु कमलगुप्तप्रमुखेषु, आकर्णयत्सु तस्कयां शृण्वत्सु, प्रचलितशिरसि प्रकम्पितमस्तके, मञ्जीरमुख्ये मीरप्रभृतौ, बन्दिवृन्दे बन्दिगणे, कथापञ्जरस्य कथाविस्तारस्य, सप्रपञ्चं सविस्तरं, सरसतां रसवत्ताम् , आकर्णयति श्रवगेनाखादयति सति, हर्षोत्फुल्ललोचना आनन्दोल्लसितनयना, प्रतीहारी द्वारपालिका, सहसैव अकस्मादेव, अतर्कितमेवेत्यर्थः, प्रविश्य प्रवेशं कृत्वा, हरिवाहनं तदाख्ययुवराजं, व्यजिशपत् विज्ञापितवती, किमित्याह-कुमार ! युवराजवार्ताद्भुतश्रवणेन समरकेतुवृत्तान्ताश्चर्यश्रवणेन, कर्णामृतं श्रवणेन्द्रियावाद्यामृतरसः, अतिचिरम् अतिदीर्घकालम् , पीतम् आस्वादितम् , इदानीम् अधुना, एक क्षणम् , ईक्षणामृतं नेत्रास्वाद्यामृतरसः, आखाद्यताम् , इत्युदीर्य इत्युक्त्वा, दूरावनतपूर्वकाया दूरम् अवनतम्-आनतं, पूर्वकार्यशरीरपूर्वभागो यस्यास्तादृशी, उपरितनवसनपल्लवप्रान्तसंयतम् उपरितनेन पल्लवकोमलवस्त्राचलेन बद्धं दिव्यं-मनोहरं चित्रपट चित्राधारवस्त्रं, दक्षिणेन करेण हस्तेन, आदाय गृहीत्वा, सादरम् आदरसहितम् उपनिन्ये उपजहार [6] /

Loading...

Page Navigation
1 ... 188 189 190