Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
३२२
टिप्पनक-परागविवृतिसंवलिता प्रौढवादिनमिवातिविषमपत्रभङ्गविस्मायितप्रेक्षकजनम्, अनेकमाणिक्यखण्डखचितकाश्चनशिलासंघातम् , एकं दिव्यमायतनम् [ध]।
उपजातविस्मयश्च विस्मृतनिमेषनिश्चलेन चक्षुषा तदवलोक्य सुचिरमकरवं मनसि-'फलाभिलाषिणा पुरुषेण नैकान्तो नीतिनिष्ठेन भवितव्यम् , अभिमते वस्तुनि दैवं प्रमाणीकृत्य सर्वात्मना प्रवर्तितव्यम् , अनुकूल विधिविहितसाहायकस्य साहसिकस्य सर्वदा शस्यसंपदिवानीतिरनीतिरपि फलति, येन सकलबुधजनोपहासपात्रमेषोऽपि यात्राविधिरीदशस्य मे निवृतिलाभस्य कारणं संवृत्तः, यद्यपायभीरुतया नीतिमनुसरबाहमेतां भूमिमागमिष्यं कथमिदं कथापथोत्तीर्णरूपगुणलुप्तसुरपतिविमानकमनीयताप्रवादं प्रासादरत्नमद्रक्ष्यम् [न] । यदवलोकनेनाद्य विनिवृत्तमिवाह्लादकरपदार्थदर्शनकुतूहलं दृष्टेः, उपरत इवाद्भुतकथाकर्णनादरः कर्णयोः, नृत्यतीव हृदयमन्तः प्रहर्षेण, पुण्यभाजो जगति, यैः परित्यज्य राज्यमपि, गृहीत्वा पारिवाज्यमपि, भुक्त्वा फलमूलमयमाहारलेशमपि, विषह्य दुःसहं वनवासक्लेशमपि, अङ्गीकृत्य बान्धवसुहृद्वियोगमपि, प्राप्य
टिष्पनकम्-शस्यसम्पदिवानीतिरनीतिरपि फलति अनीतिः-अनयोऽपि, अन्यत्र अनीतिः-ईतिरहिता [न] ।
समासन्नानां शिशिराणां वातानां-वायूनाम् , आयनैः-आगमनैः, अलङ्कतं-भूषितम् । पुनः प्रौढवादिनमिव निपुणं वक्तारमिव विवादकर्तारमिव वा, अतिविषमपत्रभङ्गविस्मायितप्रेक्षकजनम् अतिविषमैः-दुर्लेखनीयैः, पत्रभझैः-पत्रवालीरचनाभिः, पक्षे अतिविषमस्य-दुर्विजेयस्य, पत्रस्य-पत्रलिखितविचारस्य, भान-भञ्जनेन खण्डनेनेति यावत्, विस्माथिताः-आश्चर्यमनुभाविताः, प्रेक्षकजनाः-दर्शकलोका येन तादृशम् । पुनः अनेकमाणिक्यखण्डखचितकाञ्चनशिलासंघातम् अनेकेषांनानाविधानां, माणिक्याना-रत्नाना, खण्डैः खचितः-व्याप्तः, काञ्चनशिलासंघात:-सुवर्णशिलासमूहो यस्मिस्तादृशम् [2] । ___च पुनः, उपजातविस्मयः उत्पन्नाश्चर्यः, विस्मृतनिमेषनिश्चलेन विस्मृतः-आश्चर्यव्यग्रतया स्मृतिपथादपसृतः, निमेषः-स्पन्दो यस्य तादृशेन, अत एव निश्चलेन-स्थिरेण, चक्षुषा नेत्रेण, तत् आयतनं, सुचिरं दीर्घकालम् , अघलोक्य दृष्ट्वा, मनसि हृदि, अकरवं विचारितवानहम् , किमित्याह-"फलाभिलाषिणा फलेच्छुना, पुरुषेण जनेन, एकान्ततः नियमेन, नीति निष्ठेन नीत्यवलम्बिना, न भवितव्यं भवितुमुचितम् , प्रत्युत अभिमते इष्टे, वस्तुनि, दैवं भाग्य, प्रमाणीकृत्य प्रमाणतयाऽऽस्थाय, सर्वात्मना सर्वतोभावेन, प्रवर्तितव्यं प्रवर्तितुमुचितम् , अनुकूलविधिविहितसाहायकस्य अनुकूलेन, विधिना-दैवेन, विहितं-कृतं, साहायक-साहाय्यं, यस्य तादृशस्य, साहसिकस्य साहसशालिजनस्य, सर्वदा सर्वकाले, अनीतिः अतिवृष्ट्यादिषडीतिरहिता, शस्यसम्पदिव धान्यसमृद्धिरिव, अनीतिरपि नीतिविरुद्धकृतिरपि, फलति फलं ददाति । येन यस्मात् कारणात् , सकलबुधजनोपहासपात्रम् अशेषविज्ञजनोपहासास्पदम् , एषोऽपि अयमपि, यात्राविधिः प्रयाण कार्य, मे मम, ईदृशस्य एतादृशस्य, निर्वृतिलाभस्य सुखप्राप्तः, कारणं, संवृत्तः सम्पन्नः, यदि अहम् , अपायभीरुतया विनाशभीरुतया, नीतिम् , अनुसरन् आश्रयन् , एताम् इमां, भूमि न आगमिष्यम् आगतवानभविष्यम् , तर्हि कथापथोत्तीर्णरूपगुणलुप्तसुरपतिविमानकमनीयताप्रवादं
वर्णनमार्गातिगामिभिः, रूपगुणैः-स्वरूपसौष्ठवैः, लुप्त:-निवारितः, सुरपतिविमानस्य-इन्द्रसम्बन्धिव्योमयानस्य, कमनीयतायाः सौन्दर्यस्य, प्रवादो येन तादृशम् , इदं प्रासादरत्न प्रासादश्रेष्ठ, कथं केन प्रकारेण, अद्रक्ष्यं दृष्टवानभविष्यम् [न] । अद्य अस्मिन् दिने, यवलोकनेन यद्दर्शनेन, दृष्टेः नेत्रस्य, आह्लादकरपदार्थदर्शनकुतूहलम् आनन्दजनकवस्तुदर्शनौत्सुक्य, विनिवृत्तमिव विध्वस्तमिव; पुनः कर्णयोः श्रोत्रयोः, अद्भुतकथाकर्णनादरः आश्चर्यजनककथाश्रवणप्रीतिः, उपरत इव निवृत्त इव; पुनः प्रहर्षेण प्रकृष्टहर्षवशेन, हृदयम् , अन्तः अन्तर्देशे, नृत्यतीव नृत्यं करोतीवेति सर्वत्रोत्प्रेक्षा । जगति लोके, पुण्यभाजः ते पुण्यशालिनः, सन्तीति शेषः, यैः, राज्यमपि लोकाधिपत्यमपि, परित्यज्य, प्रत्युत पारिवाज्यमपि संन्यासमपि, गृहीत्वा, पुनः फलमूलमयम् फलमूलात्मकम् , आहारलेशमपि भक्ष्यलवमपि, भुक्त्वा भक्षित्वा, पुनः दुस्सहं दुश्शकं, वनवासक्लेशमपि वनवासदुःखमपि, विषह्य विशेषेण सोद्धा,
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190