Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 146
________________ २८८ टिप्पनक-परागविवृतिसंवलिता मत्तपिककुलालापवाचालविकचचूतमालेषु, परिमलमिलितमधुकरीनिकरान्धकारितकोरकितसरससहकारेषु, रत्नाविलसमुद्रशैवलप्रवालजटिलितराजतालीमूलजटाजालकेषु, घटितसेतुबानरविकीर्णगिरिकूटकुटिलितान्तरालमार्गेषु, [क] इतस्ततः सखीस्नेहदूराकृष्टमनसा त्रिजटया विनोदितदयितविरहक्षाममैथिलीकेषु, अनेकशः क्रीडानिमित्तमागतया प्रधाननक्तंचरीभिः सह पादचारेण विचरन्त्या लतामन्दिरेषु मन्दोदर्या सविभ्रमापचितविकचमन्दारेषु, सेतुशिखरोत्सङ्गलवङ्गतरुतलासीनकिन्नरमिथुनगीयमानरामचन्द्रचरिताद्भुतेषु [ख], प्रशान्तनक्तंचरोपद्रवतया संचरद्भिरचकितैः समीपाश्रमनिवासिभिस्तापसकुमारकैः प्रकटितविभीषणसौराज्येषु, जनकानुकारिभिर्मारीचमृगसमागतानामरण्यमृगीणामुदरसंभवैभ्रमद्भिरेणकैः स्वदेहकाञ्चनप्रभया पिशङ्गितोहेशेषु, निद्रानिषण्णकुम्भकर्णाभिनन्दितशिशिरहरिचन्दनवीथीकेषु, जानकीवैमुख्यदुःखक्षामदशकण्ठातिवाहितोकण्ठेषु, तटवनेषु, कण्टकितानेकसंगरव्यतिकरखिन्नवाहिनीकः कुतूहलादितस्ततो विचरन् [ग]; टिप्पनकम्-त्रिजटा-रावणभगिनी [ख] । कण्डकिताः-रोमाञ्चिताः [ग] । कलहं कुर्वतां, मत्तपिककुलानाम्-उन्मत्तकोकिलकुलानाम् , आलापैः-गुञ्जनः, वाचालाः-शब्दायमानाः, विकचचूतमालाविकसितरसालपङ्कियेषु तादृशेषु, पुनः परिमलमिलितमधुकरीनिकरान्धकारितकोरकितसरससहकारेषु परिमलमिलितानां-सौरभसङ्गताना, मधुकरीणां-भ्रमरीणां, निकरेण-गणेन, अन्धकारिताः-अन्धकारान्विताः, सरसाः-मकरन्दाकाः, सहकाराः-अतिदूरगामिसौरभान्विता आम्रा येषु तादृशेषु, पुनः रत्नाविलसमुद्रशैवलप्रवालजटितराजतालीमूलजटाजालकेषु रत्नाविलस्य-रत्नकलुषितस्य, समुद्रस्य, शैवलैः-जलतृणैः, प्रवालैः-विद्रुमैः, जटिलितानि-व्याप्तानि, राजतालीनां-पूगढमाणां, मूलजटाजालानि-शिफासंघाता येषु तादृशेषु, पुनः घटितसेतुवानरविकीर्णगिरिकूटकुटिलितान्तरालमार्गेषु घटितः-रचितः, सेतुः-समुद्रबन्धो यस्तादृशैः, वानरैः, विकीर्णैः-विक्षिप्तैः, विघटितैरिति यावत्, गिरिकूटैः-पर्वतराझैः, कुटिलिताः-वक्रीकृताः, अन्तरालमार्गाः- मध्यमार्गा येषु तादृशेषु [क], पुनः इतस्ततः अत्र तत्र, सखीनेहदराकृष्टमानसा सखीनेहेन-सखीभूतसीताप्रेम्णा, आकृष्टं मनो यस्यास्तादृश्या, त्रिजटया तत्संज्ञकराक्षस्या, विनोदितदयितविरहक्षाममैथिलीकेषु विनोदिता-आश्वासिता, दयितविरहेण-दयितस्य -भर्तुः, रामचन्द्रस्येत्यर्थः, विरहेण-वियोगेन, क्षामा-कृशा, मैथिली-सीता येषु तादृशेषु, पुनः प्रधाननक्तञ्चरीभिः प्रधानराक्षसीभिः, सह, पादचारेण पद्धयां गमनेन, लतामन्दिरेषु लतामण्डपेषु, विचरन्त्या भ्रमन्त्या, मन्दोदर्या तत्संज्ञकरावणभार्यया, सविभ्रमावचितविकचमन्दारेषु सविभ्रमं-सविलासं यथा स्यात् तथा, अवचिताः-त्रोटिताः, मन्दाराः-तदाख्यदिव्यतरुकुसुमानि येषु तादृशेषु, पुनः सेतुशिखरोत्सङ्गलवङ्गतरुलतासीनकिन्नरमिथुनगीयमानरामचन्द्रचरिताद्भुतेषु सेतुशिखरोत्सङ्गे-सेतु शिखरमध्ये, या लवङ्गतरुलताः-लवङ्गवृक्षारूढलताः, तासु-तासां मध्ये, आसीनैः-उपविशद्भिः, किन्नरमिथुनैः-किन्नरदम्पतिभिः, गीयमानः, रामचन्द्रचरितैः, अद्भुतेषु-विस्मयावहेषु ख], पुनः प्रशान्तनक्तञ्चरोपद्रवतया प्रशान्तः-निवृत्तः, नक्तञ्चरैः-राक्षसैः, उपद्रवो येषु तत्तया, अचकितैः असम्भ्रान्तैः, संचरद्भिः विचरद्भिः, समीपाश्रमनिवासिभिः, निकटस्थिताश्रमवास्तव्यैः, तापसकुमारैः तपखिबालकैः, प्रकटितबिभीषणसौराज्येषु प्रकटितम्-अभिव्यक्तं, विभीषणस्य-रावणानुजस्य, सौराज्य-सात्त्विकमाधिपत्यं येषु तादृशेषु, पुनः एणकैः अनुकम्पितैः एणैः-मृगैः, स्वदेहकाञ्चनप्रभया खशरीरसम्बन्धिसुवर्णकान्या, पिशङ्गितोद्देशेषु पिशङ्गितः-पीतवर्णतामापादितः, उद्देशः-ऊर्ध्वप्रदेशो येषु तादृशेषु, कीदृशैः ? जनकानुकारिभिः जनकस्य-जनयितुर्मारीचस्य, अनुकारिभिः-अनुकरणं कुर्वद्भिः, तद्वर्णयुक्तरित्यर्थः, पुनःमारीचमृगसमागतानां मारीचात्मकमृगपार्श्वमायातानाम् , तेन सहाभिरतानामित्याशयः, अरण्यमृगीणां वन्यमृगीणाम् , उदरसम्भवैः उदरोत्पन्नः, पुनः भ्रमद्भिः विचरद्भिः। पुनः निद्रानिषण्णकुम्भकर्णाभिनन्दितशिशिरहरिचन्दनवीथीकेषु निद्रानिषण्णेन-निद्रया स्थितेन, कुम्भकर्णेन-तत्संज्ञकदीर्घनिद्ररावणमात्रा, अभिनन्दिता-समर्धिता, अलङ्गतेति यावत् , शिशिरहरिचन्दनानां-शीतलचन्दनविशेषाणां, वीथी-पतिर्येषु तादृशेषु, पुनः जानकीवैमुख्यदुःख

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190