Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 181
________________ ३२३ तिलकमञ्जरी। पक्षिजातियोगमपि, कृतस्थितिभिरत्र कालः प्रेयते । वन्द्यवैभवः स कोऽपि भगवान् देवो वा दानवो वा येन सुकृतकर्मणा निर्मापितमिदम् । अस्य हि प्रारम्भसमये प्रवर्तितः प्रथमभादरात् तेन संख्यातीतानां विश्वकर्मणां सर्गनिर्माणाय भगवान् प्रजापतिः, तदनु गत्वाऽलकापुरीमाबद्धवर्मणा रणपराजितस्य मनुष्यधर्मणः कृतं कारूयेन कोशापहरणम् , अथ कदर्थितत्रयस्त्रिंशत्रिदशकोटिना समूल एवोत्पाटितः सुरशैल इति निश्चयो मे, नौकविश्वकर्मसमारब्धकर्मणा प्रकारान्तरोपार्जितधनेन स्थानादन्यतः समाहृतमणिशिलादारुणा कारयितुमतिभूयसापि कालेन कीर्तनमीदृशं शक्यम् । शङ्के चात्र निष्पाद्यमाने त्रिदिवशिल्पिनामभीक्ष्णमतितीक्ष्णकोटिभिष्टतिकाभिस्तक्ष्यमाणाभ्यः शिखरमणिशिलाभ्यः समन्ततः समुच्छलितानि यानि स्थूलशकलानि तैरेष लम्भितो रत्नाकराभिधानं लवणसिन्धुः [प]। इति चिन्तयत्येव मयि तत्कालसत्वरकैवर्तरभसप्रेरिता क्षणेनैव दक्षिणामायतनप्राकारभित्तिमाससाद नौः । आक्रम्य च क्रमेणातिरमणीयमस्याः पर्वतनितम्बसङ्गिनं पूर्वभागमवस्थितायां तत्र क्षणमात्रमतिवाहिताध्वखेदो दिव्यदेवतायतनदर्शनप्रीतमनसमदृश्यमानुषप्रचारेषु मदमत्तविविधपक्षिकुलबद्धकोलाहलेषु नित्यविकचदेवलुमवनामोदवासितदिक्षु रत्नकूटाद्रिकटकदेशेष्वनुक्षण पुनः बान्धवसुहृद्वियोगमपि बन्धुमित्रविरहमपि, अलीकृत्य स्वीकृत्य, पुनः पक्षिजातियोगमपि पक्षिजातीयैः सम्पर्कमपि, प्राप्य, अत्र अस्मिन् स्थाने, कृतस्थितिभिः कृतनिवासः, कालः, प्रेर्यते व्यतीयते । वन्द्यवैभवः स्तुत्यैश्वर्यः, कोऽपि अविज्ञातनामा, भगवान् ऐश्वर्यशाली, स देवो वा, दानवो वा राक्षसो वा, अस्तीति शेषः, सुकृतकर्मणा पुण्यकर्मणा, येन, इदम् आयतनं, निर्मापितं कारितम् । हि यतः, अस्य आयतनस्य, प्रारम्भसमये प्रारम्भावसरे, तेन निर्मापकेण भगवता, प्रथमं पूर्व, संख्यातीतानाम् असंख्यानां, विश्वकर्मणां शिल्पकुशलदेवानां, सर्गनिर्माणाय सृष्टिरचनार्थ, भगवान् सगैश्वर्यवान् , प्रजापतिः ब्रह्मा, प्रवर्तितः प्रेरितः; तदनु ततः पश्चात् , अलकापुरी कुबेरसम्बन्धिनीमलकानाम्नी पुरी, गत्वा, आबद्धवर्मणा धृतकवचेन सता तेन, रणपराजितस्य रणे-युद्धे, पराजय प्रापितस्य, मनुष्यधर्मणः कुबेरस्य, कात्स्न्ये न साकल्येन, कोशापहरणं कोशलुण्टनं कृतम् , अथ अनन्तरं, कदर्थितत्रयस्त्रिंशत्रिदशकोटिना कर्थिताः-पराजिताः, त्रिदशाना-देवानां, त्रयस्त्रिंशत्-त्र्यधिका त्रिंशत्, कोटयो येन तादृशेन सता, समूल एव मूलसहित एव, सुरशैलः सुमेरुः, उत्पाटितः उत्खातः, इति अयं, मे मम, निश्चयः विश्वासः, वर्तत इति शेषः । हि यतः, एकविश्वकर्मसमारब्धकर्मणा एकेन, विश्वकर्मणा-शिल्पिदेवविशेषेण, समारब्ध-प्रवर्तितं, कर्म-निर्माणव्यापारो येन तादृशेन, पुनः प्रकारान्तरोपार्जितधनेन प्रकारान्तरेण-उक्तादन्येन साधारणप्रकारेण, उपार्जितं धनं येन तादृशेन, पुनः अन्यतः उक्तादन्यस्मात्, स्थानात, समाहतमणिशिलादारुणा समाहृताः-सञ्चिताः, मणिशिलाः-मणिरूपाः शिलाः, दारूणि-काष्ठानि च, येन तादृशेन, पुरुषेण, अतिभूयसापि अत्यधिकेनापि, कालेन, ईदृशम् एवंविधं, कीर्तनं मन्दिर, कारयितुं निर्मापयितुं, न शक्यं शक्तिसाध्यम् । च पुनः, शङ्के सम्भावयामि, अत्र अस्मिन् आयतने, निष्पाद्यमाने निर्मीयमाणे, त्रिदिवशिल्पिनां खोकशिल्पिना, विश्वकर्मणामिति यावत् , अतितीक्षणकोटिभिः अत्यन्ततीक्ष्णाग्रभागाभिः, टङ्किकाभिः शिलातक्षणलौहशलाकामिः, तक्ष्यमाणाभ्यः तनूक्रियमाणाभ्यः, शिखरमणिशिलाभ्यः शिखरवर्तिमणिरूपप्रस्तरेभ्यः, समुच्छलितानि समुत्पतितानि, यानि स्थूलशकलानि स्थूलखण्डानि, तैः, एष लवणसिन्धुः लवणसमुद्रः, रत्नाकराभिधानं रत्नाकरेति सार्थकसंज्ञां, लम्भितः प्रापितः" [प11 मयि, इति इत्थं, चिन्तयत्येव आलोचयति सत्येव, तत्कालसत्वरकैवर्तरभसप्रेरिता तत्कालं-तत्क्षणं, सत्वरेण-त्वरान्वितेन, कैवर्तेन-कर्णधारेण, रभसेन- वेगेन, प्रेरिता-प्रचारिता, नौः, दक्षिणाम् , आयतनप्राकारभितिं प्रकृतप्रासादप्राकारकुड्यम् , आससाद आजगाम । च पुनः, अस्याः दक्षिणप्राकारभित्तेः, अतिरमणीयम् अत्यन्तसुन्दरम् , पर्वतनितम्बसङ्गिनं पर्वतमध्यभागसंपृक्तं, पूर्वभाग, क्रमेण, आक्रम्य अधिष्ठाय, अवस्थितायां, तत्र नावि, क्षणमात्रम् , अतिवाहिताध्वखेदः निवारितमार्गश्रमः, तारकं तत्संज्ञकप्रकृतकैवर्तम् , अवोचम् उक्तवानहम् , कीदृशम् ? आयतनदर्शनप्रीतमनसं निरुक्त

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190