Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 93
________________ तिलकमलरी। २३५ मैनाकनामा निर्झरौघैरंसशिखरावलम्बिभि लीकदम्बप्रालम्बैरभिनवैरुद्भासमानः, शिरीपतरुकुसुमकल्पितकर्णपूरः, कर्पूरपरिमलमुचा चन्दनद्रवेण विहितसर्वाङ्गीणाङ्गरागः, तत्कालोपनीतरत्नोपलशकलशीतलममलमुक्ताफलप्रायमल्पमुद्वन् भूषणकलापम् , अच्छकान्तिरत्नदर्पणप्रतिबिम्बितैः प्रीतिनिश्चलचक्षुषो जनस्य सर्वतः सहस्रसंख्यैर्विलोचनैः शवलितगात्रयष्टिः, ऐरावताधिरूढः सहस्राक्ष इव साक्षादुपलक्ष्यमाणः, निक्षिप्तनिजवेषानुरूप. निःशेषनेपथ्यस्य तत्क्षणगृहीतनिशितसृणेनिषादितां प्रतिपद्य सिन्धुरस्कन्धमध्यासितस्य समरकेतोरधिस्कन्धमर्पितोभयबाहुपाशः, पश्चिमासनाध्यासिना ताम्बूलदायकेन प्रतिवेलमुद्भूयमानकनकदण्डडामरैकचामरः, तुलितगत्वरतमालतरुखण्डेन मायूरातपत्रमण्डलेन जयन्त इव संक्रन्दनानुचरीकृतेन बालजलधरव्यूहेनान्धकारिताप्रिमभूमिरप्रेसरेण सरयूतटासङ्गि मत्तकोकिलं नाम बाह्योद्यानमगच्छत् [ऐ]। मल्लिकामुकुलैः-मल्लिकाख्यकुसुमकलिकाभिः, रचितः-निर्मितः, शेखरः-शिरोमाल्यं येन तादृशः; पुनः मदान्धमधुकरध्वानवाचालै मदान्धाना-मदाकुलानाम् , मधुकराणां-भ्रमराणाम् , ध्यानः-गुजनैः, वाचालैः-मुखरैः, अंसशिखरावलम्बिभिः स्कन्धोपरिभागावलम्बिभिः, अभिनवैः नवीनैः, धूलीकदम्बमालम्वैः धूलीकदम्बानां-परागप्रचुरकदम्बाभिधवृक्षाणाम् , प्रालम्बैः-कण्ठाद् ऋजुतया लम्बमानमाल्यैः, उद्भासमानः उद्दीप्यमानः, कैः क इव ? अंसशिखरावलम्बिभिः स्कन्धशृङ्गावलम्बिभिः, निर्झरौथैः वारिप्रवाहसमूहैः, मैनाकनामा मैनाकसंज्ञकः, अचलः पर्वत इव; पुनः शिरीषतरु. कुसुमकल्पितकर्णपूरः शिरीषतरोः-शिरीषाख्यवृक्षविशेषस्य, यत् कुसुम-पुष्पम् , तेन कल्पितः-रचितः, कर्णपूरःकर्णाभरणं येन तादृशः पुनः कर्पूरपरिमलमुचा कर्पूरसौरभाविष्का, चन्दनद्रवेण चन्दनकर्दमेन, विहितसर्वाङ्गीणाङ्गरागः विहितः-कल्पितः, सर्वाङ्गीणः-सशिव्यापकः, अकरागः-अङ्गविलेपनं येन तादृशः; पुनः तत्कालोपनीतरत्नो. पलशकलशीतलं तत्काल-तत्क्षणम्, उपनीततानि-प्रापितानि, योजितानीति यावत् , यानि, रत्नोपलशकलानि-रत्नरूपपाषाणभागाः, तैः शीतलम् , अमलमुक्काफलप्रायं खच्छमुक्कामणिप्रचुरम् , अल्पं परिमितम्, भूषणकलापम् आभरणसमूहम् , उद्वहन् धारयन् ; अत एव अच्छकान्तिरत्नदर्पणप्रतिविम्बितैः अच्छकान्तिरत्नदर्पणेषु-निर्मलकान्तिकलितरत्नशकलरूपदर्पणेषु, प्रतिबिम्बितैः - प्रतिविम्बरूपेण दृश्यमानैः, सहनसंख्यैः दशशतसंख्याकैः, प्रीति निश्चलचक्षुषः प्रीत्या-स्नेहेन, निश्चलं-निस्पन्दम् , चक्षुर्यस्य तादृशस्य, जनस्य मार्गवर्तिदर्शकलोकस्य, लोचनैः नेत्रैः, सर्वतः समन्तात् , शबलितगात्रयष्टिः शबलिता-चित्रिता, व्याप्त्यर्थः, गात्रयष्टि:-शरीररूपा यष्टिर्यस्य तादृशः; अत एव ऐरावताधिरूढः ऐरावताख्यमहागजारूढः, साक्षात् सहस्राक्ष इव साक्षादिन्द्र इव, उपलक्ष्यमाणः प्रतीयमानः; पुनः समरकेतोः तदाख्यप्रकृतकुमारस्य, अधिस्कन्धं स्कन्धोपरि, अर्पितोभयबाहुपाशः अर्पितः-स्थापितः, उभयबाहुपाशः-उभयबाहुरूपः,, पाश:-बन्धनविशेषो येन तादृशः, कीदृशस्य समरकेतोः? निक्षिप्तनिजवेषानुरूपनिःशेषप्रथ्यस्य निक्षिप्तं-त्यक्तम् , निजवेषानुरूपं-नृपकुमारवेषोचितम् , निःशेष-समस्तम् , नेपथ्य-कृत्रिमशरीरशोभा येन तादृशस्य, पुनः तत्क्षणगृहीतनिशित. सुणेः तत्क्षणं-तत्कालम्, गृहीता-धृता, निशिता तीक्ष्णा, सृणि:-अडशो येन ताशस्य, पुनः निषादितां हस्तिपकताम. प्रतिपद्य प्राप्य, सिन्धुरस्कन्धं हस्तिस्कन्धम्, अध्यासितस्य आरूढस्य; पुनः पश्चिमासनाध्यासिना पश्चिमपश्चाद्भागावस्थितम् , यद् आसनम्-उपवेशनाधारः, तदध्यासिना-तदुपवेशिना, ताम्बूलदायकेन ताम्बूलदानाधिकृतपुरुषेण, प्रतिवेल सततम्, उद्धयमानकनकदण्डडामरैकचामरः उद्भूयमानः-उरिक्षप्यमाणः, कनकदण्डेन-सुवर्णमयदण्डेन, डामरः-सुदृढः, एकचामरः-प्रधानन्यजनविशेषो यस्य तादृशः; पुनः तुलितगत्वरतमालतरुखण्डेन तुलितःउपमितः, गत्वराणां-जङ्गमभूतानाम् , तमालतरूणां-तमालाख्यश्यामलवृक्षविशेषामाम् , खण्डः-विशेषः, वनमिति यावत् , येन तादृशेन, अग्रेसरेण अग्रगामिना, मायरातपत्रमण्डलेन मयूरस्य-विकारो मायूरम्, मयूरपक्षनिर्मितमित्यर्थः, यद्वा मयूराणां समूहो मायूरम् , तद्रूपं यद् आतपत्रं-छत्रम् , तन्मण्डलेन-तत्समूहेन, अन्धकारिताग्रिमभूमिः अन्धकारिताअन्धकारावृता, अग्रिमा-अग्रवर्तिनी, भूमिर्थस्य तादृशः, केन क इव ? संक्रन्दनानुचरीकृतेन संक्रन्दनेन-इन्द्रेण, अनुचरीकृतेन-अनुचरतामापादितेन, जलधरव्यूहेन मेघमण्डलेन, जयन्त इव तत्संज्ञक इन्द्रपुत्र इव [ऐ]।

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190