Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 142
________________ २८४ टिप्पनक-परागविवृतिसंवलिता पर्यन्तप्रामनगरसंनिवेशं प्रदेशमासादयम् [3] 1. ततः प्रभृति सैकतेषु क्षितिमर्कोपलेषु ज्वलनोद्गति जलमानुषेषु जनपदप्रचारमशनिभीतागतक्षितिधरेषु पक्षिव्यवहारं जलचरेषु तिर्यग्जाति विद्रुमवनेषु काननस्फातिमीक्षमाणः [ ऊ], पृष्ठतो वहद्भिरप्रतीक्षितसमप्रसंगलत्पदातितत्रैः श्रुत्वा श्रुत्वानुचरपुरुषेभ्यः प्रयाणवार्तामतिजवेन निजमण्डलेभ्यः प्रधावितैरनीकपतिभिः सामन्तैश्च भयसंभ्रान्तैरनवरतमनुसृतगतिः [], गत्वा स्थानस्थानेषु लब्धोदयानहितोपचारैः परमुपचयं प्राप्तान् सर्वतः समासादितप्रसरानाविष्कृतानेकविकाराननवरतकृतरुजो जनस्य दुष्टवणानिव नृपान् कांश्चित् तत्रशक्त्या कांश्चिन्मत्रशक्त्या कांश्चिन्निशितशस्त्रव्यापारेण कांश्चित् क्षारैर्दूतवचनैः कांश्चिद् रक्तापकर्षणेन कांश्चित् तीक्ष्णक्षुरप्रभेदेन कांश्चिदेकदेशदहनेन कांश्चित् सर्वमण्डलोपमर्दनेन दर्पज्वरमत्याजयम् [ऋ], उज्झितोष्मणश्च प्रकटितप्रसन्नमुखरागान् विगलितोन्नतीनविद्य टिप्पनकम्-मण्डलं-धृत्तता देशश्च [*] । अदृश्यतीरभागम् अदृश्यः-अनुपलक्ष्यः, तीरभागो यस्मिंस्तादृशम् , अविभाव्यमानपर्यन्तग्रामनगरसन्निवेशम् अविभाव्यमान:-अप्रतीयमानः, पर्यन्तप्रामनगराणां-प्रान्तस्थग्रामनगराणां, सनिवेशो यस्मिंस्तादृशम् , अतिदूरमित्यर्थः, प्रदेश समुद्रमध्यदेशम् , आसादयं प्राप्तवान् अस्मि [उ] । ततः तस्मात् , प्रदेशादित्यर्थः, प्रभृति आरभ्य, न तु ततः प्राक्, सैकतेषु सिकतामयस्थलेषु, क्षिति भूमिम् , पुनः अर्कोपलेषु सूर्यकान्तशिलासु, न त्वन्यत्र, ज्वलनोद्गतिं पावकोद्गमम् , पुनः जलमानुषेषु जलीयमनुष्येषु न त्वन्यमानुषेषु, जनपदप्रचारं मनुजचरणव्यवहारम्, पुनः अशनिभीतागतक्षितिधरेषु अशनेः-चजात, भीताः, अत एव आगता ये क्षितिधरा:-पर्वताः, तेष्वेव, पक्षिव्यवहार-पक्षिणः-पक्षवन्त इमे इत्यादिव्यवहारम् , जलचरेषु जलीयहस्त्यादिषु, तिर्यगजातिं पशुजातिम् , पुनः विद्रुमवनेषु प्रवालवनेषु, काननस्फाति वनविस्तारम् , ईक्षमाणः पश्यन् [ ऊ] पुनः भयसम्भ्रान्तैः भयसंक्षुब्धैः, अनीकपतिभिः सेनानायकैः, च पुनः, सामन्तैः क्षुद्रनृपः, अनवरतं निरन्तरम् , अनुसृतगतिः अनुगतगतिकः, कीदृशैः ? पृष्ठतः पश्चाद्, वहद्भिः गच्छद्भिः, अप्रतीक्षितसमग्रसंगलत्पदातितन्त्रैः अप्रतीक्षितः अनपेक्षितः, समग्राणां-समस्तानां, संगलतां-सार्थभ्रष्टानां, पदातीनां-पादगामिसैन्यानां, तन्त्रः-समूहो यैस्तादृशैः, पुनः अनुचरपुरुषेभ्यः अनुचरजनेभ्यः, प्रयाणवार्ता मदीयप्रस्थानप्रवृत्तिम्, श्रुत्वा श्रुत्वा असकृत् श्रवणगोचरीकृत्य, अतिजवेन अतिवेगेन, निजमण्डलेभ्यः खखराष्ट्रेभ्यः, प्रधावितैः कृतप्रधावनैः [क] गत्वा तत्र तत्रोपसृत्य, जनस्य लोकसम्बन्धिनः, दृष्टवणानिव दुष्टानि-क्षरद्रक्तपूयादीनि क्षतानीव, स्थानस्थानेष तत्तत्स्थानेषु, लब्धोद्यान प्राप्ताधिपत्यान् , पक्षे प्राप्तोगमान् , पुनः अहितोपचारैः लोकाहितकरणैः, पक्षे अपथ्याचरणैः, परम् उत्कृष्टम् , उपचयम् अभ्युदयं, पक्षे वृद्धिं, प्राप्तान् , पुनः सर्वतः सर्वत्र, समासादितप्रसरान प्राप्तप्रसारान् , पुनः आविष्कृतानेकविकारान् आविष्कृताः-प्रकटिताः,अनेके विकारा:-काम-क्रोध-लोभ-मोह-मदरूपाः, पक्षे व्यथा यस्ता. दृशान् , पुनः अनवरतकृतरुजः निरन्तरविहितलोकपीडान्, पक्षे निरन्तरविहितज्वरान् , कांश्चित् कतिपयान् , नृपान् प्रतिकूलनृपतीन्, तन्त्रशत्या प्रधानशक्त्या, पक्षे औषधशक्त्या, पुनः कांश्चित् कतिपयान् , मन्त्रशत्या मत्रणबलेन, पक्षे मन्त्रमाहात्म्येन, पुनः कांश्चित् कतिपयान् , निशितशस्त्रव्यापारेण तीक्ष्णशस्त्र प्रहारेण, पक्षे तीक्ष्णच्छुरिकयोद्भेदनेन, पुनः कांश्चित् कतिषयान् , क्षारीः रूक्षः, पक्षे क्षारद्रवनिक्षेपैः, दूतवचनैः दूतोक्तिभिः, पुनः कांश्चित् कतिपयान् , रक्तापकर्षणेन रुधिराकर्षणेन, पक्षे अनुरक्तजनापरञ्जनेन, पुनः कांश्चित् कतिपयान् , तीक्ष्णक्षुरप्रभेदेन तीक्ष्णेन, क्षुरेण-बाणेन, यद्वा क्षुरप्रेण-बाणविशेषेण, यः प्रभेदः-मार्मिकभेदन. भेदः-सामान्यतो भेदनं तेन, पक्षे तीक्ष्णो यः धरःनापितास्त्रं तेन यः प्रभेदः-प्रकृष्टभेदनम् , यद्वा क्षुरप्रः-घासच्छेदनास्त्रं तेन यो भेदस्तेन, पुनः कश्चित् कतिचित् , एकदेशदहनेन एकदेशस्य-शरीरावयवस्य, एकजनपदस्य च, पक्षे व्रणैकदेशस्य, दहनेन-दाहेन, पुनः कांश्चित् कतिचित् , सर्वमण्डलोपमर्दनेन सर्वस्य-समग्रस्य, मण्डलस्य-देशस्य अमात्यादिवर्गस्य वा, पक्षे वर्तुलवणभागस्य, उपमर्दनेनविघटनेन, पक्षे समीपतो मर्दनेन, दर्पज्वरं गर्वोष्माणम् , अत्याजयम् व्यमोचयम् [] | च पुनः, उज्झितोष्मण

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190