Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 119
________________ तिलकमञ्जरी। २६१ प्रौढिमात्मनः प्रकटयद्भिः [ह), अन्यैस्तु दूरोदस्तकण्ठैः पृष्ठलग्नहृष्टबालकवृन्दकलकलसूचितान् ग्राममध्ये विचरतः स्वच्छन्दचारिणो महामात्रतत्रेण परिवृतान् वारणपतीनवलोक्य जातसंक्षोभैझटिति कोष्ठकद्वारेषु संग्रहकान् पातयद्भिः पश्चाद्वाटकेषु गोमयपिण्डकूटानि गोपयद्भिर्भनवृतिषु निष्कुटेषु त्रपुसकर्कारुकारवेल्लकादिवल्लीफलान्यादायादाय वेश्मनि प्रवेशयद्भिगृहधनं च कांस्यपात्रिकासूत्रकम्बलप्रायं बलाधिकृतधामन्यवलाजनस्य न्यासीकुर्वद्भिरनेकवृत्तान्तैसियकैरवलोक्यमानबलसंहतिः [१] प्रतिमार्गमुत्तम्भिताभिनयतोरणान् स्थानस्थानो. पसर्पत्कुसुमफलहस्तवास्तव्यवित्ताढ्यलोकानू/कृतासु तत्क्षणं वेणुयष्टिषु कुड्मलीकृत्य योजितैर्माञ्जिष्टैश्व माहारजनैश्च कर्पटैः जटालीकृतशीर्णगृहपटलानतिक्रम्य कतिचिद् वेलावनग्रामकानग्रतो दत्तदृष्टिः [ज्ञ] पिधानमिव पातालस्य, मणिकुट्टिममिय त्रिभुवनचतुःशालस्य, जन्मपल्वलमिवाकाशकुवलयस्य, प्रभापटलमिव टिप्पनकम्-कोष्ठकः-वरण्डकः, संग्रहकाः-पलिहकाः, निष्कुट:-गृहवाटिका क्ष] । माहारजनानि-कौसुम्भानि [] ॥ शालीनः-अधृष्टो लज्जायुक्तः, कुलपुत्रकाणां-कुलप्रसूतानुकम्पितपुत्राणाम् , वर्ग:-समूहो येस्तादृशैः, ग्रामपोटानां ग्रामस्थानां पुलक्षणानां स्त्रीणाम् , अग्रतः अग्रे, सगर्व साभिमानम् , आत्मनः स्वस्य, प्रौढिं प्रगल्भताम् , प्रकटयद्भिः प्रदर्शयद्भिः [ह]; पुनः अन्यैस्तु अन्यन्यक्तिभिस्तु, दूरोदस्तकण्ठैः दूरम्, उदस्तः-उरिक्षप्तः, कण्ठःकण्ठव्यापारो येस्तादृशैः, अतिशुष्ककण्ठैरियर्थः, पृष्ठलग्नहृष्टबालकवृन्दकलकलसूचितान् पृष्ठलमस्य-पृष्ठसम्बद्धस्य, हृष्टबालकवृन्दस्य-प्रसन्नशिशुसमूहस्य, कलकलेन-कोलाहलेन, सूचितान-बोधितान्, ग्राममध्ये विचरतः भ्रमतः, स्वच्छन्दचारिणः खेच्छाचारिणः, महामात्रतन्त्रेण हस्तिपकप्रधानेन, परिवृतान् परिवेष्टितान् , वारणपतीन् गजेन्द्रान् , अवलोक्य दृष्ट्वा, जातसंक्षोभैः उत्पन्नसम्भ्रमैः, कोष्ठकद्वारेषु वरण्डकद्वारेषु, संग्रहकान् परिधकान् , पातयद्भिः, पुनः पश्चाद्वाटकेषु वृतीनां पश्चाद्भागेषु, गोमयपिण्डकूटानि गोमयपिण्डसमूहान् , गोपयद्भिः रक्षद्भिः, पुनः भग्नवृतिषु भन्नाः-भङ्गं प्राप्ताः, वृतयः-प्राकारा येषां तादृशेषु, निष्कुटेषु गृहवाटिकासु, पुस-कर्कारु-कारवेल्ल. कादिवल्लीफलानि त्रपुसं नाम-फलविशेषलता, कारः-कूष्माण्डलता, कारवेलक 'कारेला' प्रसिद्धफलविशेषलता, तदादीनां-- तत्प्रभृतीनो, वल्लीना-लतानां फलानि, आदाय आदाय गृहीत्वा गृहीत्वा, वेश्मनि गृहे, प्रवेशयद्भिः प्रवेश्य गोपयद्भिः, च पुनः, कांस्यपात्रिकासूत्रकम्बलप्रायं कांस्यपात्रिका-कांस्यस्य-धातुविशेषस्य भाजनम् , सूत्र-तन्तुः, कम्बल:ऊतन्तुमयः पटः, तत्प्रायं-तत्प्रचुरम् , गृहधनं गृहवित्तम् , अबलाजनस्य स्त्रीजनस्य, बलाधिकृतधामनि बलेनस्वसामर्थेन बलात्कारेणेत्यर्थः, अधिकृते रक्षिताधिकारे, धामनि-गृहे, न्यासीकुर्वद्भिः निक्षिपद्भिः, पुनः अनेकवृत्तान्तैः विविधवार्ताकैः, बहुविधप्रवृत्तिकैरिति यावत् [२] 1 पुनः कीदृशोऽहं समरकेतुः? कतिचित् कतिपयान , वेलावनग्रामकान वेलाया:-जलधितीरस्य यद् द्वनं तन्मध्यवर्तिनो लघुग्रामान् ,अतिक्रम्य उल्लङ्घय, अग्रतः तदने, दत्तहष्टिः क्षिप्तलोचनः, कीदृशान् ? प्रतिमार्गमार्गे मार्ग, उत्तम्भिताभिनवतोरणान् उत्तम्भितानि, उदद्धानि, अभिनवानि-नवीनानि, तोरणानिद्वारा स्तम्भोपरि निबद्धानि बहिराणि येषु तादृशान् , पुनः स्थानस्थानोपसर्पत्कुसुमफलहस्तवास्तव्यवित्ताढ्यलोकान् स्थाने स्थाने उपसर्पन्तः-उपगच्छन्तः, कुसुमफलहस्ताः-पुष्पफलरूपोपहारहस्ताः, वास्तव्याः-तग्रामवासिनः, वित्तायाः-धनाब्याः, लोकाः-जना येषु तादृशान् , पुनः तत्क्षणं तत्कालमेव, ऊर्वीकृतासु उन्नमितासु, वेणुयष्टिषु वंशदण्डेषु, कुडालीकृत्य आकुव्य, योजितैः उत्क्षिप्तः, माञ्जिष्ठैः मञ्जिष्ठाख्यरागविशेषरक्तैः, च पुनः, माहारजनैः माहारजनेन-कुसुम्माख्यरागविशेषेण रक्तैः, कर्पटैः पटखण्डैः,जटालीकृतशीर्णगृहपटलान् जटालीकृत-व्याप्तं, शीर्णानांभन्माना, गृहाणां पटलं-समूहो येषु तादृशान् []। कीदृशमम्भोनिधिम् ? पातालस्य अधोलोकस्य, पिधानमिव आवरणमिव, पुनः त्रिभुवनचतुःशालस्य त्रिभुवनरूपस्य चतुःशालस्य-चतसृणां शालानां समाहारस्य, अन्योऽन्याभिमुखगृहतुष्टय स्य, मा डेमसिव मणिखचितं मध्यवर्ति संस्कृतभूमितलमिव, पुनः आकाशकुवलयस्य आकाशरूपस्य कमलस्य,

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190