Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 75
________________ तिलकमञ्जरी । चैतन्यालिङ्गितं नाद्राक्षीत, तदाऽस्य चामरग्राहिणीमप्राक्षीत्- 'बालिके ! कथय कोऽयम् , कस्य वाऽपत्यम् , किमभिधानः, किंनिमित्तमनपेक्षितात्मविनिपात: पतङ्ग इव पावके सहसैवास्मत्सैन्ये प्रविष्टः, किमर्थमसमर्थसहायेनानेन साहसप्रायमिदमतिदुष्करं कर्माध्यवसितम् , कया प्रत्याशया शक्तेनापि शत्रुवधकर्मणि न कृतो दिवस एवाभियोगः, किं फलमभिलष्य निर्व्याजपौरुषेणाप्यङ्गीकृतः क्षुद्रक्षत्रियलोकसूत्रितः साप्तिकयुद्धमार्गः' [य] । सैवमापृष्टा सेनाधिपेन किमपि ध्यात्वा परामृष्टनयनबाष्पसलिला विलोक्याभिमुखमन्तदुःखावेगपिशुनमत्यायतं निःश्वस्य च शनैरवादीत्-'महाभाग! किं कथयामि मन्दभाग्या, कीडशोऽयमिदानी कथ्यते, गता खल्वस्तमस्य कथा, कथ्यमानापि कीदृशी भवत्येतदवस्थस्यास्य पूर्वावस्था, तथापि श्रूयताम्-- एष खल्वशेषद्वीपावनीपालमौलिमालामलनदुर्ललितपादयुगलस्य युगायतभुजप्राकाररक्षितनिजक्षितेरवधीरितविषधरेन्द्रोप्रवदननिःश्वासविषवेगेनागणितकालकूटज्वालाटोपेनानपेक्षितरामविशिखशिखिशिखाडम्बरेणाविज्ञात अवधानातिशयपूर्वकमपि यथा स्यात् तथा, व्यापारितया प्रेरितया, उश्या चक्षुषा, यदा यस्मिन् काले प्रतिपक्षपक्षे शत्रुपक्षे, कमपि एकमपि, पुरुष, चैतन्यालिहितं चैतन्यवन्तम् , न, अद्राक्षीत् दृष्टवान् , तदा अस्य राजकुमारस्य, चामरग्राहिणी चामरवाहिनी दासीम् , अप्राक्षीत् पृष्टवान् , किमित्याह-बालिके! भो बाले !, कथय ब्रूहि, कोऽयम् अयं राजकुमारः कः ?, वा अथवा, कस्य अपत्यं पुनः?, किमभिधानः किन्नामा?, किंनिमित्तं कस्माद्धेतोः, पावके अग्नौ, पतङ्ग इव, अनपेक्षितात्मविनिपातः अनपेक्षितः उपेक्षितः, आत्मविनिपातः-खविनाशो येन तादृशः, सहसैव अविविच्यैव, अस्सत्सैन्ये अस्मत्सेनामध्ये, प्रविष्टः आपतितः, किमर्थम् किमुद्दिश्य, असमर्थसहायेन असमर्थः-शक्तिशून्यः, सहायो यस्य तादृशेन, अनेन राजकुमारेण, साहसप्रायम् अविवेकप्रयुक्तम् , अतिदुष्करम् अत्यन्तकठिनम् , इदं, कर्म कार्यम् , अध्यवसितं कर्तुं विचारितम् ?, कया प्रत्याशया सम्भावनया, शत्रुवधकर्मणि रिपून्मूलनात्मककार्ये, शक्तेन समर्थनापि, दिवस एव दिनमध्य एव, अभियोगः सङ्घर्षः, न कृतः ?, किं फलं के परिणामम् , अभिलष्य उद्दिश्य, निर्व्याजपौरुषेणापि वास्तविकपराक्रमशालिनापि, अनेनेति शेषः, क्षुद्रक्षत्रियलोकसूत्रितः क्षुदै:-राजनीतिज्ञानशन्यैः, क्षत्रियलोकैः-क्षत्रियजनैः, सूत्रितः-रचितः, सौप्तिकयुद्धमार्गः सुप्तिकालिकस्य-रात्रिकालिकस्य, युद्धस्य, मार्गःरीतिः, अङ्गीकृतः स्वीकृतः ? [य]। एवम् अनेन प्रकारेण, उक्तप्रकारेणेत्यर्थः, सेनाधिपेन सेनापतिना, आपृष्टा समन्ताजिज्ञासां ज्ञापिता, सा चामरग्रहिणी बालिका, किमपि किञ्चित् , ध्यात्वा विचिन्त्य, परामृष्टनयनबाष्पसलिला परामृष्टानि-प्रोग्छितानि, नयनयोः, बाष्यसलिलानि-अश्रुजलानि यया तारशी सती, अभिमुखं सम्मुखम् विलोक्य निरीक्ष्य, च पुनः, अन । हार्दिकवेदनातिशयसूचकम् , अत्यायतम आंतदीर्घ यथा स्यात् तथा, निःश्वस्य निःश्वासं कृत्वा, शनैः मन्दम् , अवादीत् उक्तवती । किमिलाह-महाभाग ! हे महोदय !, मन्दभाग्या तुच्छभाग्या, अहमिति शेषः, किं कथयामि किमुत्तरयामि, अतिदुःखाकुलतया न किमपि वक्तुमहीमीत्यर्थः । इदानीम् अस्मिन् विपदवसरे, अयं नृपकुमारः, कीदृशः कथम्भूतावस्थः, कथ्यते वर्ण्यते, खलु निश्चयेन, अस्य राजकुमारस्य, कथा वार्ता, अस्तं विनाशम्, गता प्राप्स्यति। एतदवस्थस्य एषा-मरणरूपा, अवस्था यस्य तादृशस्य, अस्य नृपकुमारस्य, कथ्यमानापि वर्ण्यमानापि, पूर्वावस्था पुरातनवृत्तम् , कीडशी कथम्भूता, दुःखावहेत्यर्थः, भवति सम्पद्यते । तथापि तादृश्यपि, श्रूयतां श्रवणगोचरीक्रियताम् । एषः अयम् , खलु निश्चयेन, सिंहलद्वीपभर्तुः सिंहलाख्यो यो द्वीप:-जलमध्यवर्तिस्थलप्रदेशः, तद्भः-तदधिपतेः, महानरेन्द्रस्य महानृपतेः, अतिसमृद्धनृपतेरित्यर्थः, चन्द्रकेतोः तन्नामकस्य, आत्मजः औरसपुत्रः, समरकेतुः तत्संज्ञकः, अस्तीति शेषः, नामेति वाक्यालङ्कारे । कीदृशस्य ? अशेषद्वीपावनीपालमौलिमालामलनदर्ललितपादयगलस्य अशेषाः-समस्ता ये. द्वीपानां-जलमध्यवर्तिस्थलप्रदेशानाम्, अवनीपाला:-नृपाः, तन्मौलिमालाना-तन्मस्तकस्थमालानाम्, तन्मुकुटपक्कीनां वा, मलनेनसम्पर्केण, दुर्ललितं-सङ्घर्षणदुःखेन, ललित-सुन्दरम्, पादयुगलं-चरणद्वयं यस्य तादृशस्य पुनः युगायतभुज. प्राकाररक्षितनिजक्षितेः युगो नाम वृषस्कन्धारोप्यरथावयवविशेषः, तद्वद् आयतो-दीघौं यौ, भुजा-बाहू, तद्रूपेण २८ तिलक. प

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190