Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 30
________________ १७२ टिप्पनक-परागविवृतिसंवलिता वृतो धृतासिपट्टप्रभापटलपोषितप्रदोषतिमिरैः शरीररक्षाविधावधिकृतैर्वीरपुरुषैभरदेशोपविष्टसोपायनानेकप्रधाननगरलोकमनेकभङ्गरचितरङ्गावलीतरङ्गितमसृणमणिकुट्टिमोत्सङ्गमविरलप्रकीर्णपुष्पप्रकरमखिललोकप्रार्थनीयसंगमामिर्मर्त्यलोकलक्ष्मीभिरिव राजलक्ष्मी द्रष्टुमेकहेलयोपगताभिरनयरत्नाभरणभूषिताङ्गायष्टिभिर्वारयोषाभिरापूर्यमाणपर्यन्तं कचित् सुखासीनसचिवपुत्रविचार्यमाणनव्यकविनिबद्धकाव्यगुणदोषविभागं कचिदाबद्धमण्डलीकवैपश्चिकप्रपञ्चयमानललितपश्चममामरागं कचिद्वाञ्छिताधिकारसेवकवारपरिचर्यमाणविकटवेत्रासनो. पविष्टप्रधानसचिवं कचिल्लिख्यमाननिःसंख्यराजाज्ञालेखमुद्रासिन्दूरपूरारुणीकृतदिवं कचिचतुरपरिहासरञ्जित टिप्पनकम्-वैपश्चिकः-वैणिकः [ग] । धृतः, विकट:-स्फुटः, शृङ्गारवेषः-शृङ्गारोद्दीपकवरूपं, येन ता शः स राजा, आस्थानमण्डपं सभागृहम् , अगच्छत् गतवानिति दूरेणान्वेति । कीदृशः? वीरपुरुषैः उद्भटजनैः, सर्वतः समन्ततः, परिवृतः परिवेष्टितः, कीदृशैः ? घटितपरिवेषैः बद्धमण्डलीकैः, पुनः धृतासिण्डप्रभापटलपोषितप्रदोषतिमिरैः धृतस्य-करगृहीतस्य, असिपमुस्यखड्गफलकस्य, प्रभापटलेन-कान्तिकलापेन, पोषितं-संवर्धितम् , प्रदोषतिमिरं-सायन्तनान्धकारो यस्तादृशैः; पुनः शरीररक्षाविधौ शरीररक्षणकार्ये, अधिकृतैः नियुक्तैः । कीदृशमास्थानमण्डपम् ! द्वारदेशोपविष्टसोपायनानेकप्रधाननगरलोकं द्वारदेशे-अन्तःप्रवेशनिर्गमप्रदेशे, उपविष्टा:-आसिताः, सोपायनाः-उपहारसहिताः, प्रधानाः-मुख्याः, नगरलोकाः-नागरिकजना यस्य तादृशम् ; पुनः अनेकभङ्गरचितरङ्गावलीतरङ्गितमसृणमणिकुटिमोत्सङ्गम् अनेकभङ्गैःबहुप्रकारैः, रचिताः-निर्मिताः,ये रजा:-नृत्यमण्डपाः, नील-पीतादिवर्णा वा, तेषामावल्या, तरङ्गितः-तरङ्गवत्वेन लक्षितः, मसृणमणिकुट्टिमस्य-चिकणमणिबद्धभूमेः, उत्सङ्गः-मध्यभागो यस्मिंस्तादृशम् ; पुनः अविरलप्रकीर्णपुष्पप्रकरम् अविरलं-निरन्तरम् , प्रकीर्णः-प्रक्षिप्तः, पुष्पप्रकरः-पुष्पसमूहो यस्मिंस्तादृशम् ; पुनः वारयोषाभिः वाराङ्गनाभिः, वेश्याभिरिति यावत् , आर्यमाणपर्यन्तम् आपूर्यमाण:-व्याप्या अखिललोकप्रार्थनीयसङ्गमाभिः अखिललोकः-सर्वजनैः, प्रार्थनीयः-स्पृहणीयः, सामः-सम्पर्को यासां तादृशीभिः पुनः राजलक्ष्मी राजशोभा, द्रष्टुं साक्षात्कर्तुम् , एकहेलया युगपत , उपगताभिः आगताभिः, मर्त्यलोकलक्ष्मीभि. रिव मर्त्यभुवनसम्बन्धिनीभिलक्ष्मादेवीभिरिवेत्युत्प्रेक्षा; पुनः अनर्घ्यरत्नाभरणभूषितालयष्टिभिः अनध्य:-अमूल्यैः, रत्नाभरणैः-रक्षमयालङ्करणैः, भूषिता-उद्भासिता, अङ्गयष्टिः-शरीरयष्टिर्यासां तादृशीभिः; पुनः कचित् सुखासीनसचिव पुत्रविचायमाणनव्यकविनिबद्धकाव्यगुणदोषविभागं वचित्-कुत्रचित्स्थाने, सुखेन-आनन्देन, आसीनैः-उपविशद्भिः, सचिवपुः,-मत्रिपुत्रैः, विचार्यमाण:-आलोच्यमानः, नव्यकविनिबद्धस्य-नवीनकविप्रणीतस्य, काव्यस्य, गुणदोष. विभाग:-गुण-दोषयोविभागः-पार्थक्यं, यस्मिंस्तादृशम् । पुनः कचिदाबद्धमण्डलीकवैपश्चिकप्रपश्यमानललितपञ्चमग्रामरागं कचित्-कस्मिंश्चित् स्थाने, आबद्धमण्डलीकैः-रचितमण्डलिकः, वैपच्चिकैः-विपञ्ची-वीणा, तद्वादनं शिल्पं येषां तैः, वीणावादिभिरित्यर्थः, प्रपञ्च्यमानाः-स्फुटीक्रियमाणाः, पञ्चमः-"वायुः समुत्थितो नाभेरुरोहत्कण्ठमूर्धसु । विचरन् मध्यमस्थानप्राप्या पञ्चम उच्यते ॥" इत्यभियुक्तोक्तः, खरसन्दोहरूपो ग्रामश्च, रागो लयश्च यस्मिंस्तादृशम् ; पुनः कचिद्वाछिताधिकारसेवकवारपरिचर्यमाणविकटवेत्रासनोपविष्टप्रधानसचिवं कचित्-कस्मिंश्चित् स्थाने, वाञ्छितः-अभिलषितः, अधिकारः-उच्चाधिकारी यैस्तादृशानां सेवकानां-परिचारकाणाम् , वारेण-समूहेन, परिचर्यमाणःसेव्यमानः, विकटे-विस्तृते, वेत्रासने-वेत्ररचितासने, उपविष्टः प्रधानसचिवः-प्रधानमन्त्री, यस्मिस्तादृशम् , “स्तोमीध-निकरवात-वार-संघात-संचयाः” इत्यमरः; पुनः, कचिल्लिख्यमाननिःसंख्यराजाशालेखमुद्रासिन्दूरपूरारुणीकृतदिवं कचित्-कुत्रचित् स्थाने, लिख्यमानानां, निःसंख्यानां-संख्यारहितानाम् , राजाज्ञाना-राजकीयादेशानाम् , ये लेखा:-तद्बोधकाक्षराणि, तेषां यानि मुद्रासिन्दूराणि-मसीशोषणार्थमक्षररजनार्थ च तदुपरि विकीर्यमाणारुणरेणवः, तेषां पूरेण-पुजेन, अरुणीकृता द्यौराकाशं यस्मिंस्तादृशम् , “सिन्दूरं रकचूर्णके” इति मेदिनी; पुनः क्वचिचतुरपरिहासरञ्जितराजगणिकाकटाक्षवीक्षणकृतार्थीकृतपूर्वसंसृष्टविटसामन्तं वचित्-कस्मिंश्चित् स्थले, चतुरेण-वैदग्ध्यपूर्णेन, परिहासेन,

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190