Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 84
________________ २२६ टिप्पनक-परागविवृतिसंवलिता मनन्तरातीतायां विभावयमिह नगर्यां प्रविष्टः । दृष्टं चाद्य पुण्योदयेन चिरकालाभिकासितदर्शनं चरणकमलद्वयं देवस्य, एतां च दिव्याङ्गुलीयकप्रभावावेदनप्रसङ्गागतामवनिपतिराकर्ण्य विजयवेगतो वज्रायुधसमरकेतुसमरवार्तामास्थानवर्तिना नरपतिसमूहेन सहितः परं विस्मयमगच्छत् । अव्याजशौर्यावर्जितश्च न तथा लब्धविजये सुहृदि बज्रायुधे यथा विपक्षे समरकेतौ बबन्ध पक्षपातम् । तथाहि-अस्य चिन्तयन्नचिन्तितात्मपरसैन्यगुरुलाघवां मनस्विताम् , विभावयन्नेकरथेन कृतमहारथसमूहमध्यप्रवेशां साहसिकताम् , विचारयन् विधृतपौरुषप्रकर्षमरातिपरिभाषणेष्वरोषपरुषमालापविभ्रमम् , अवधारयन्ननादरनिरस्त्रीकृतनिखिलपरचक्रनायकं सायकव्यापारमतिचिरमतिष्ठत् । अनुरागतरलितश्च तत्रैव गत्वा तं द्रष्टुमिव परिष्वमिव संभाषयितुमिवाभ्यर्चितुमिव स्वपदेऽभिषेक्तुमिव चेतसा भिलषितवान् , दर्शनोत्सुकश्च पुनरवोचत्'विजयवेग! कास्ते स सिंहलेश्वरसूनुः कदा च सोऽस्मान् द्रक्ष्यति । स जगाद-'देव ! स शक्रावतारोद्यानसंनिधिरमणीये सरय्वाः परिसरे निवेशितशिबिरस्तिष्ठति । दर्शनं तु यदैव देवः प्रसीदति तदैव करोति । शूद्राणां वास एव वा ॥" इत्यन्यत्रोक्तलक्षणाः, जनपदा:-देशाच येन- तादृशः, अस्यां हृदि वर्तमानायाम् , अनन्तरातीतायाम् अव्यवहितपूर्वव्यतीतायाम् , विभावर्या रात्रौ, इह अस्थां, मगर्याम् अयोध्यायाम् , प्रविष्टः कृतप्रवेशोऽभूवम् । च पुनः, पुण्योदयेन सुकृतविपाकेन, चिरकालाभिकाशितदर्शनं चिरकालं-दीर्घकालम् , अभिकाक्षितम्-अभिलषितम् , दर्शनं यस्य तादृशम् , देवस्य भवतः, चरणकमलद्वयं पादपद्मयुगलम् , अद्य अस्मिन् दिने, दृष्टं दृष्टिगोचरीकृतम् । अवनिपतिः मेघवाहननृपतिः, दिव्याङ्गुलीयकप्रभावावेदनप्रसङ्गागतां दिव्यं-मनोहरम यद् अङ्गुलीयकं-लक्ष्मीदेवीदत्तमगुलिभूषणम् , तत्प्रभावावबोधनप्रसङ्गेनोत्थिताम् , एताम् इमाम् , वज्रायुध-समरकेत माख्यायिकाम् , विजयवेगतः तदाख्यवज्रायुधप्रधानपुरुषात्, आकर्ण्य श्रुत्वा, आस्थानवर्तिना सभावर्तिना, नरपतिसमूहेन राजगणेन, सहितः, परम् अत्यन्तम् , विस्मयम् आश्चर्यम् , अगच्छत् प्राप्तवान् । च पुनः, अन्याजशौर्यावर्जितः अव्याजेन-कपटरहितेन, वास्तविकेनेत्यर्थः, शौर्येण--वीर्येण, आवर्जितः-आह्लादितः सन् , लब्धविजये प्राप्तविजये, सुहृदि मित्रे, वज्रायुधे तदाख्यसेनापतौ, तथा तादृशम् , पक्षपातं प्रीतिम् , न बबन्ध कृतवान् , यथा यादृशम् , विपक्षे शत्रावपि, समरकेतौ तदाख्यनृपकुमारे । शौर्यमुपदर्शयति-तथाहीति । अस्य समरकेतोः, अचिन्तितात्मपरसैन्यगुरुलाघवाम् अचिन्तिते-अनालोचिते, आत्मपरसैन्ययोः-खसैन्य-शत्रसैन्ययोः. गुरुलाघवे-बलाबळे यया तादृशीम्, मनखितां खाभिमानिताम् , चिन्तयन् विचारयन् ; पुनः एकरथेन एकेनैव रथेन, कृतमहारथसमूहमध्यप्रवेशां कृतः, महारथानां-विशालरथानाम् , समूहस्य मध्ये प्रवेशो यया तादृश्चीम् , साहसिक रकमेकारिताम्, विभावयन् निरूपयन् पुनः अरातिपरिभाषणेषु रिपुजनकर्मकाहानविषयेषु, विधता पौरुषप्रकर्ष विधृतः-व्यजयविधया आश्रितः, आविष्कृत इत्यर्थः, पौरुषप्रकर्षः-पराक्रमोत्कर्षो येन तादृशम् , पुनः अरोषपरुषं रोषजन्यपारुष्यरहितम् , आलापविभ्रमम् आभाषणविलासम्, विचारयन् आलोचयन् । पुनः अनादरनिरस्त्रीकृतनिखिलपरचक्रनायकम् अनादरेण-तिरस्कारेण, निरस्त्रीकृताः-अनशून्यतामापादिताः, परचक्रस्य-शत्रुराष्ट्रस्य, नायका येन तादृशम् , सायकव्यापारं बाणविक्षेपम् , अवधारयन् निश्चिन्वन् ; अतिचिरम् अतिदीर्घकालम् , अतिष्ठत स्थितवान् । च पुनः, अनुरागतरलितः अनुरागेण-प्रीत्या, तर लितः-चञ्चलतापनः, तत्रैव यत्र समरकेतुरासीत् तस्मिनेव स्थाने, गत्वा, तं समरकेतुम् , द्रष्टुमिव निरीक्षितुमिव, पुनः परिष्वङ्गमिव आलिङ्गितुमिव, पुनः सम्भाषयितुमिव आलापयितुमिव, पुनः अभ्यर्चितुमिव अभिपूजयितुमिक, स्वपदे स्वाधिष्ठितराज्यासने, अभिषेक्तुमिव अभिषेकं कर्तुमिव, चेतसा हृदयेन, अभिलषितवान् अभिलषति स्म । च पुनः, दर्शनासुका दर्शनार्थमुत्कण्ठितः सन् , पुनः भूयोऽपि, अवोचत् उक्तवान् , विजयवेग! भो विजयवेग!, सः त्वयेहानीतः, सिंहलेश्वरसूनुः सिंहलद्वीपतृपकुमारः, व कुत्र स्थाने, आस्ते तिष्ठति, कदा कस्मिन् काले, सः तृपकुमारः, अस्मान् , द्रक्ष्यति दृष्टिगोचरीकरिष्यति । स विजयवेगः, जगाद प्रत्युक्तवान् । किमित्याह-देव! राजन् !, शक्रावतारोधानसन्निधिरमणीये शक्रावतारस्य-तदाख्यतीर्थविशेषस्य, यद्यानम्-आरामः, तत्सनिधिना-तत्सामीप्येन, रमणीये-मनोहरे, सरय्वा: सरयूनद्याः, परिसरे प्रान्ते, तटप्रदेश

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190