Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 94
________________ २३६ टिप्पनक-परागविवृतिसवलिता प्रविश्य च तत्र परिमिताप्तराजपुत्रपरिवृत इतस्ततस्तत्कालबद्धमुग्धकुमलानि नवपरिमलाकृष्टवाचालषट्पदकुलानि धूलीकदम्बगहनानि, कादम्बकुलनिषेवितोद्दण्डकमलिनीपत्रखण्डाश्च तटपाटलाकुसुमवासिताम्भसः क्रीडादीर्घिकाः, निदाघतप्ताध्वगरचितपल्लवतल्पांश्च सलिलपरिपूरितालवालवलयितमध्यान् माधवीमण्डपान्, वातायनासीनवनिताकरप्रचेयतरुफलांश्च सुधापङ्कधवलान् प्रासादकानवलोकयन्नविरलफलितजलजम्बूनिकुरुम्बमुद्गतस्तोककुसुमस्तबककेतकीस्तम्बमुच्चोचरच्चीत्कारमुखराणां प्रेक्षतामनवरतमुद्घाटकानां घूर्णमानैर्नभसि नभस्खदाघट्टनजर्जरैर्जलतुषारजालकैर्जडीकृतनिदाघकर्कशार्ककरवितानमापानकमृदङ्गरवजनितशृङ्गारैर्नगरीजनैनशिखण्डिभिश्व युगपदारब्धताण्डवैर्मण्डितलतामण्डपमदूरवहदगाधनीरं सरय्वास्तीरपरिसरमुपासरत् [ओ]। टिप्पनकम्-उद्घाटकानां जलयात्राणाम् [ओ] । च पुनः, प्रविश्य तदन्तःप्रवेशं कृत्वा, तत्र तस्मिन्नुद्याने, परिमिताप्तराजपुत्रपरिवृतः परिमितैः परिगणितैः, कतिपयरित्यर्थः, आप्तेः- विश्वस्तैः, राजपुत्रैः-नृपकुमारैः, परिवृतः-परिवेष्टितः, इतस्ततः अत्र तत्र, तत्कालबद्धमुग्ध कुङमलानि तत्काल-सद्यः, बद्धाः-गृहीताः, मुरधाः-मनोहराः, कुडाला:-कलिका यस्तादृशानि, पुनः नवपरिमलाकृष्ट. वाचालषट्पदकुलानि नवपरिमलैः-अभिनवसौरभैः, आकृष्ट-कृताकर्षणम् , वाचालं-मुखरम् , षट्पदफुलं-भ्रमणनिकरो यस्तादृशानि, धूलीकदम्बगहनानि धूलीकदम्बाना-वसन्तविकासिकदम्बतरुविशेषाणाम् ,गहनानि-वनानि च पुनः, कादम्बकुलनिषेवितोद्दण्डकमलिनीपत्रखण्डाः कादम्बकुलेन-हंससमूहेन, निषेविता:-कृतसेवाः, उद्दण्डानाम्-उन्नतकाण्डा. नाम् , कमलिनीनां-कमलसमूहानाम् , पत्रखण्डा:-दलदेशा यासु तादृशीः, पुनः तटपाटलाकुसुमवासिताम्भसः तटेतीरे, यापाटला-कृष्णवृन्ताख्यलताविशेषः, तस्याः कुसुमैः-पुष्पैः, वासितानि-सुगन्धकलितानि, अम्भांसि-जलानि यासांताचीः; क्रीडादीर्घिकाः क्रीडावापिकाः; च पुनः, निदाघतताध्वगरचितपल्लवतल्पान् निदाघतप्तैः-प्रीमतप्तैः, अध्वगैःथिकैः, रचिताः-निर्मिताः, पल्लवतल्पा:-पलपशव्या येषु तादृशान् , सलिलपरिपूरितालवालवलयितमध्यान् सलिलपरिपूरितैः-जलपरिपूरितैः, आलवाले:-क्षमूले सेकार्थ मृदादिरचितर्जलाधारैः, वलयित-वेष्टितम् , मध्यं येषां तादृशान् , माधवीमण्डपान् माधवीनामकलतागृहान् ; च पुनः, वातायनासीनवनिताकरप्रचेयतरुफलान् वातायनेषुगवाक्षेषु, आसीनाभिः-उपविशन्तीभिः, वनिताभिः-वधूभिः, कराभ्यां-हस्ताभ्याम्, प्रचेयानि-प्रचेतु-त्रोटयितुमित्यर्थः, शक्यानि, तरुफलानि-वृक्षफलानि येषु तादृशान् , अत्युचतानित्यर्थः, पुनः सुधापाधवलान् सुधाप?:-चूर्णद्रवैः, धवलान्शुभ्रान्, प्रासादकान् राजगृहान् ; अवलोकयन् पश्यन् , सरय्वाः सरयूनद्याः, तीरपरिसरं तीरप्रान्तम् , उपासरत् उपजगाम, कीदृशम् ? अविरलफलितजलजम्बूनिकुरम्बम अविरलं-निरन्तरम्, सान्द्रमित्यर्थः, फलिताना-संजातफलानाम् , जलजम्बूना-जलसम्पर्केण फलनशीलानां जम्बूवृक्षाणाम् , निकुरम्ब-वृन्दं यस्मिंस्तादृशम् । पुनः उद्गतस्तोक कुसुमस्तषककेतकीस्तम्बम् उद्गत:-उन्मीलितः, स्तोक:-अल्पः, कुसुमस्तबकः-पुष्पगुच्छो येषां तादृशाः, केतकीस्तम्बा:केतकीसंज्ञकलताकाण्डा यस्मिंस्तादृशम् ; पुनः उचोचरञ्चीत्कारमुखराणाम् उच्च-तारं यथा स्यात् तथा, उच्चरनिः-- उद्गच्छद्भिः, चीत्कारैः-घ्यनिविशेषैः, मुखराणां-शब्दायमानानाम्, पुनः अनवरतं निरन्तरम् , प्रेसतां चलताम् , व्याप्रिय मागानामिति यावत् , उद्घाटकानां कूपाजलोद्धरणयन्त्राणाम् ,नभसि गगने, धूर्णमानैः भ्राम्यद्भिः,नमस्खदाघट्टनजर्जरैः नभखतः- पवनस्य, आघट्टनेनआधातनेन, जर्जरैः-खण्डीभूतैः, जलतुषारजालकैः उक्तयन्त्रोद्भूतजलविकारात्मकहिमसंघातैः, जडीकृतनिदाघकर्कशार्ककरवितानं जडीकृतः-शिशिरीकृतः, शैत्यमापादित इति यावत् , निदाधे-ग्रीष्मकाले कर्कशःकठोरः, अर्कस्य-सूर्यस्य, करवितानः-किरणविस्तारः, किरणरूपो गगनमण्डपोल्लोचो वा यस्मिस्तादृशम्, पुन: आपानक मृदङ्गरवजनितशृङ्गारैः आपानके-सुरापानगोष्ट्याम् , यो मृदङ्गरवः-मृदङ्गाख्यवाद्यविशेषध्वनिः, तेन जनितः-आविर्भावितः, भारः-तदाख्यरसविशेषो येषु तादृशैः, युगपत् एककाले, आरब्धताण्डवैः आरब्धनृत्यैः, नगरीजनैः प्रकृतनगरीवास्तव्यलोकैः, वनशिखण्डिभिः धनमयूरेश्व, मण्डितलतामण्डपम् अलङ्कतलतागृहम् ; पुनः अदूरवहदगाधनीरं

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190