Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 176
________________ ३१८ टिप्पनक-परागविवृतिसंवलिता स्वभावचञ्चलैः प्रधानवाजिभिरुह्यमाननायकम् , अदृश्यमानहरितच्छायामण्डलेश्वलद्भिरुद्दण्डैरातपत्रखण्डैरभिनवतापसलिलनिर्झरे नभःसरसि मूलभागनिननलिनीपलाशप्रकराणि पङ्कजवनानीव संचारयमाणम् , अचिरांशुतेजःस्तबकचन्द्रकितैरिन्द्र नीलकान्तिभिः तरुगजलदैरध्यासितो कदलिकाशिखरेषु समुच्छ्रितोदण्डमायूरातपत्रेष्विव द्विरदसारिसदनेषु निद्रायमाणकुमारम् , अच्छिन्नसंतानपवनप्रसारिताभिरतिभास्वरतया दिवापि प्रेखदुल्कादण्डमिव व्योम दर्शयन्तीभिः कल्पतरुरत्नांशुकवैजयन्तीभिः समन्ततो ज्वलद्रथविमानकेतनम् , उदारनेपथ्यधारिणा गृहीतनानाप्रहरणेन विद्यानुभावसिद्धत्वाद् गतेरकृतपदविक्षेपमग्रतः प्रसर्पता समपादस्थितेन प्रदातिसंदोहेन कृतकलकलं [ण], पृष्ठतश्च वरकरेणुकारूढाभिरुपरिधृतकुन्दधवलातपत्रिकाभिः पुरःप्रधावमानकनकदण्डोड्डामरमायूरच्छत्रमण्डलाभिरुभयतः प्रचलितभुजलतारत्नक्लयेन वाराङ्गनाजनेन सलीलमुद्भयमानचामरकलापाभिराप्रपदीनचीनकञ्चकावच्छन्नवपुषा निजनिजवाहनाधिरूढेन वृद्धान्तर्वशिक यथा स्यात् तथा, अतिवल्गु अतिमनोहरं, वल्गद्भिः गच्छद्भिः । पुनः स्वभावचञ्चलैः प्रकृतिचपलैः । पुनः अदृश्यमानहरितच्छायामण्डलैः अदृश्यमानम्-अप्रतीयमानम् , हरितच्छायामण्डलं-हरितकान्तिकलापो येषां तादृशैः, उद्दण्डैः ऊर्ध्वदण्डैः, आतपत्रखण्डैः छत्रमण्डलैः, अभिनवातपसलिलनिझरे अभिनवः- नवीनः, आतपात्मकानां सलिलानांजलाना, निर्झरः-प्रवाहो यस्मिस्तादृशे. नभःसरसि आकाशरूपसरसि, मूलभागनिळूननलिनीपलाशप्रकराणि मूलभागे-मूलप्रदेशे, निर्लनः-छिन्नः, नलिनीपलाशप्रकरः-पशिनीपत्रसमूहो येषु तादृशानि, पङ्कजवनानि कमलवनानि, सञ्चारयमाणमिष संवाहयमानमिव, पुनः द्विरदसारिसदनेषु द्विरदानां-गजाना, ये सारयः-पर्याणानि, तद्रूपगृहेषु, निद्रायमाणकुमारं निद्रायमाणः-शयानः, कुमारः-युवराजो यस्मिंस्तादृशम् , कीदृशेषु ? तरुणजलदैः परिणतमेधैः, अध्यासितोचकदलिकाशिखरेषु लेकानाम् -उपरितनवेजयन्तीनां, शिखरं-शिरोभागो येषां तादृशेषु, कीदृशैः ? अचिरांशुतेजास्तबकचन्द्रकितैः अचिरांशतेजःस्तबकेन-विद्युत्तेजोगुच्छेन, चन्द्रकितैःसञ्जातमयूरपक्ष्मस्थचन्द्राकारचिङः, पुनः इन्द्रनीलकान्तिभिः मरकतमणितुल्यकान्तिभिः, अत एव, समुच्छ्रितोइण्डमायूरातपत्रेष्विव समुच्छ्रितं-समुन्नमितम् , उद्दण्डम्-अर्वदण्डं, मायूरं-मयूरसम्बन्धि, आतपत्रं छत्रं येषु तादृशेष्विवेत्युत्प्रेक्षा । पुनः कल्पतरुरत्नांशुकवैजयन्तीभिः कल्पतरुसम्बन्धिरत्नमयवस्वरूपपताकाभिः, समन्ततः सर्वतः, ज्वलद्रथविमानकेतनं ज्वलद्-दीप्यमानं, रथस्य विमानस्य च, केतनं-पताकादण्डो यस्य तादृशम् , की शीभिः ? अच्छिन्नसन्तानपवनप्रसारिताभिः अच्छिन्नसन्तानेन-अविरतसन्ततिकेन, पवनेन-वायुना, प्रसारिताभिः-विस्तारिताभिः, पुनः अतिभावरतया अतिदीप्तिमत्तया, दिवापि दिनेऽपि, प्रेसदुल्कादण्डमिव प्रेङ्खन्-प्रचलन् , उल्कादण्ड:निर्गच्छजवालारूपदण्डो यस्मिंस्तादृशमिवेत्युत्प्रेक्षा, व्योम गगनमण्डलं, दर्शयन्तीभिः प्रत्याययन्तीभिः, पुनः पदातिसन्दोहेन पादगामिगणेन, कृतकलकलं कृतकोलाहलम् , कीदृशेन ? उदारनेपथ्यधारिणा उज्वलकृत्रिमषधारिणा, पुनः गृहीतनानाप्रहरणेन धृतविविधास्त्रेण, पुनः गतेः गमनस्य, विद्यानुभावसिद्धत्वात् विद्या प्रभावसिद्धत्वात् , अकृतपदविक्षेपम् अकृतपादप्रक्षेपणं यथा स्यात् तथा, अग्रतः अग्रे, प्रसर्पता प्रचलता, पुनः समपादस्थितेन अन्यूनानधिकदेशवर्तिपादावलम्बितेन [ण ] 1 च पुनः पृष्ठतः पृष्ठभागे, प्रधानावरोधसुन्दरीभिः प्रधानान्तःपुरसुन्दरस्त्रीभिः, अनुगम्यमानम् अनुत्रियमाणम् , कीदृशीभिः ? वरकरेणुकारूढाभिः उत्तमहस्तिनीमारूढवतीभिः; पुनः उपरिधृतकुन्दधवलातपत्रिकाभिः उपरि धृता-गृहीता, कुन्दपुष्पवद् धवला-शुभ्रा, आतपत्रिका-लघुच्छत्रं याभिस्ताहशीभिः; पुनः पुरःप्रधावमानकनकदण्डोड्डामरमायूरच्छत्रमण्डलाभिः पुर:-अग्रे प्रधावमानं, कनकदण्डेन-सुवर्णमयदण्डेन, उड्डामरम्-उद्भर्ट, मायूरच्छत्रमण्डलं-मयूरपक्षमयच्छत्रवृन्दं यासा तादृशीभिः पुनः उभयतः पार्श्वद्वये, प्रचलितभुजलतारत्नवलयेन प्रचलितम्-उद्वेलितं, भुजलतयोः-बाहुलतयोः, रत्नमयं वलय-कङ्कणं यस्य तादृशेन, वाराङ्गनाजनेन वेश्याजनेन, सलील सविलासं, यथा स्यात् तथा, उद्धूयमानचामरकलापाभिः उद्धयमानः-उत्क्षिप्यमाणः, चामरकलापः-चामरसमूहो यासां तादृशीभिः पुनः वृद्धान्तर्वशिकसमूहेन वृद्धान्तःपुराधिकारिगणेन, सर्वतः परितः,

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190