Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 45
________________ तिलकमञ्जरी । निवर्तितानप्राशनादिसकलसंस्कारस्य समाहृतसमप्रमङ्गलोपकरणाभिरन्तःपुरवृद्धाभिस्त्रि संध्यामारभ्यमाणावतारणकक्रियस्य सर्वायुर्वेदपारगैर्भिषग्भिर्मत्र सिद्धिलब्धप्रसिद्धिभिश्व महानरेन्द्रैरतन्द्रितैर्मुहुर्मुहुः प्रतिजागर्यमाणस्य प्रतिसंभ्रमाभिरन्तःपुरिकाभिर. हूयाहूय गाढमाश्लिष्यमाणस्य स्थानस्थानारोपित महाप्रभावानेकमणिभिः प्रधानभूषणैः प्रसाधितललितसर्वाङ्गस्य धृतायुगान्तर्वंशि कत्रात लततानुगम्यमानमार्गस्य स्वभावरम्येषु मणिकुट्टिमेषु शैलकटकेषु नन्दनवनप्रासादकेषु कृत्रिमापगापुलिनेषु च कपोलदोलायमानकमनीयकाकपक्षैः क्षितिपालदारकैः सह क्रीडासुखमने प्रकार मनुभवतो निरङ्कुशप्रचारस्य पश्च वर्षाणि तस्यान्तःपुरेऽतिचक्रमुः [ल] ॥ अवतीर्णे च षष्ठ किचिदुपजात देहसौष्ठव स्य व्यक्तवर्गवचनप्रवृत्तेर्विनयारोपणाय राजा राजकुलाभ्यन्तर एव कारितानवद्यविद्यागृहः सम्यगासेवितगुरुकुलानामवगताखिलशास्त्र मर्मनिर्मलोक्तियुक्तीनामुत्तमान्न/यलब्ध १८७ वर्धमाना, अवयवकान्तिः - अङ्गशोभा यस्य तादृशस्य । पुनः अखिलवेदोक्त विधिविदा वैदिकाशेषविधानाभिज्ञेन अपरेण द्वितीयेन, वेधसा ब्रह्मणेचेत्युत्प्रेक्षा, पुरोधसा पुरं हितेन स्वयम् आत्मना निवर्त्तितान्नप्राशनादिसंस्कारस्य निवर्तिताः - निष्पादिताः, अन्नप्राशनादयः संस्कारा यस्य तादृशस्य । पुनः समाहृतसकल मङ्गलोपकरणाभिः समा हृतानि - संगृहीतानि, सकलानि सर्वाणि, मङ्गलोपकरणानि मङ्गलसाधनवस्तुनि या भस्तादृशीभिः, अन्तःपुर वृद्धाभिः अन्तःपुरस्थवृद्ध स्त्रीभिः, त्रिसन्ध्यं प्रातर्मध्याह सायंरूपामु तिसृषु सन्ध्यासु आग्भ्यमाणावतारण कक्रियस्य आरभ्यमाणाअनुष्ठीयमाना अवतारणकक्रिया - लवणाद्यवतारणात्मक्रमाङ्गलिकक्रियाविशेषो यस्य तादृशस्य पुनः सर्वायुर्वेदपारगैः सर्वः - समयः, य आयुर्वेदः वेदोपाङ्गभूतं चिकित्साशास्त्रम्, तत्पारगैः - तदन्तः, मन्त्रसिद्धिलब्धप्रसिद्धिभिश्च मन्त्रसिद्ध्या लब्धा - प्राप्ता, प्रसिद्धिः - लोके ख्यातिर्यैस्तादृशैश्व, अतन्द्रितैः अनलसः, महानरेन्द्रः महामन्वादिभि, विशिष्टन्नृपश्च मुहुर्मुहुः पुनः पुनः प्रतिजागर्यमाणस्य प्रतिक्रियमाणस्य । पुनः प्रकटितसम्भ्रमाभिः प्रकटितः - प्रदर्शितः, सम्भ्रमः - वात्सल्यातिशयजन्यमौ सुक्यं याभिस्तादृशीभिः, अन्तःपुरिकाभिः अन्तःपुरखीभिः, आहूयाहूय पुनः पुनराहूय, गाढम् अत्यन्तम् आश्लिष्यमाणस्य आलश्यमानस्य, पुनः स्थानस्थानारोपितमहाप्रभानेकमणिभिः स्थाने स्थाने-तत्तदंशे आरोपिताः निवेशिताः, महाप्रभाः- उत्कृष्टप्रभाशालिनः अनेके मणयो येषु तादृशैः, प्रधानभूषणैः उत्तमालङ्करणैः, प्रसाधितललित सर्वाङ्गस्य प्रसाधितानि - अलङ्कृतानि, ललितानि - मनोहरणानि सर्वाणि समस्तानि, अङ्गानि - इस्तपादादीनि यस्य तादृशस्य । पुनः धृतायुधान्तर्वेशिक बात सततानुगम्यमानमार्गस्य धृताः - तद्रक्षार्थं गृहीताः, आयुधा: - बाणा स्तादृशा ये अन्तर्वेशिकाः अन्तःपुररक्षकाः कुब्ज- वामनादयः, तेर्षा व्रातेन - समूहेन सततं सर्वदा, अनुगम्यमानः- अनुत्रियमाण, मार्गों यस्य तादृशस्य । पुनः स्वभावरम्येषु स्वभावतो मनोहरेषु, मणिकुट्टिमेषु मणिबद्धभूमिषु, क्रीडाशैलकटकेषु क्रीडाये ये शैलाःपर्वताः, तत्कटकेषु - तनितम्बः परि, नन्दनवनप्रास | दकेषु नम्दनवनं नाम - मेरुपर्वतपरितनमिन्द्रवनम्, तत्सदृशं यद् वनम् तत्रत्याः प्रासादाः - राजगृहा एव प्रासादकास्तेषु यद्वा नन्दयतिआनन्दयतीति नन्दनं यद् वनं तत्रत्यप्रामादेषु, प्रसाद केष्वि ते पाठकल्पे तु नन्दनवनवत्प्रसादजनका ये क्रीडा शैल कटकारस्तेष्विति विशेषण वधया व्याख्येयम् । च पुनः, कृ त्रमापगापुलिनेषु कृत्रिमाः क्रियया निर्वृताः, क्रीडार्थमुत्खाता इत्यर्थः, या आपगाः-नद्यः, तत्पुलिनेषु तदीय सैकतप्रदेशेषु, कपोल दोलायमान कमनीय काकपक्षैः कपोलेषु - गण्डस्थलेषु, दोलायमानाः- इतस्ततश्चलन्तः, कमनीया: मनोहराः, काकपक्षा:- मस्तकांभयपार्श्वलम्बमानाः “बालानां तु शिखा प्रोक्तः काकपक्षः" इत्युक्तबालककेशपाशा येषां तादृशैः, क्षितिपालदारकैः राजशिशुभिः सह अनेकप्रकारं बहुविधम्, क्रीडासुखं क्रीडाजन्यमानन्दम्, अनुभवतः अनुभवगोचरीकुर्वाणस्य । पुनः निरङ्कुशप्रचारस्य निर्वाधगमनस्य, स्वेच्छाचारिण इत्यर्थः [ल ] 1 च पुनः, षष्ठे षष्ठा अवतीर्णे प्रारब्धे “ति, किञ्चिदुपजातदेह सौष्ठवस्य किञ्चिदुपजातम् - ईदुत्पन्नम्, देहसौष्ठव - शरीरसौन्दर्यं यस्य तादृशस्य; पुनः व्यक्तवर्ण वचनप्रवृत्तेः व्यक्तानां स्फुटानाम्, वर्णानाम्, वचने प्रतिपादने, प्रश्नात्तर्यस्य तादृशस्य तस्य बालकस्य, विनयारोपणाय विनयशिक्षणाय, राजा मेघवाहनः, राजकुलाभ्यन्तर एव राजधानीमध्य एव, कारितानवद्यविद्यागृहः कारितं निर्मापितम्, अनवद्यं-मनोहरम् विद्यागृहं विद्याध्ययनगृहं येन तादृशः सन्, अद्दरद्दः प्रतिदिनम्, विद्यागुरूणां विद्याध्यापकानाम्, संग्रहं सञ्चयम्, अकरोत् कृतवान् । कीदशानाम् ? सभ्य

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190