Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 58
________________ २०० टिप्पनक-परागविवृतिसंवलिता नामानौ प्रज्ञाततमावश्ववारावद्राक्षीत् , अप्राक्षीच सत्वरम्-'अरे!, किमेष कटकक्षोभः' इति [क] | अथ तौ समीपमेत्य त्यक्ततुरगावुरगाविव सर्वाङ्गस्पष्टभूतलौ प्रणम्य युगपदूचतुः-'दण्डनाथ ! संप्रत्येव संनद्धसकलकरितुरङ्गयोधमाबद्धवीरपट्टपादातभीषणमरुनेत्रपताकापटपल्लवितरथनिरन्तरमुत्तरप्रतोलिमार्गेण निर्गत काभ्याः कृतसमस्तसमरसामग्रीकमहितानामनीकममर्षपरवशं च पौरुषावलेपेन तृणलघूनस्मान् मन्यमानमतिजवन प्राप्तमभ्यर्णेऽस्य कटकस्य वर्तत इति श्रुत्वा प्रभुः प्रमाणम्' इत्युक्त्वा विरेमतुः [ख]॥ सेनापतिस्तु तं तयोराकर्थ कर्णामृतकल्पं जल्पमुपजातहर्षा रणरसोत्कर्षपुष्यत्पुलकजालकः सजलजीमूतस्तनितगम्भीरेण स्वरेण तत्क्षणादिष्टकिङ्करससंभ्रमास्फालितमाबद्धस्फुटप्रतिशब्दमिव दर्शयन् ध्वनन्तमाजिदुन्दुभिमभ्यर्णचरमनुचरगणं स्थानयनार्थमादिक्षत् । नचिराञ्च तेनान्तिकमुपनीतमुभयतः प्रचलदतिचारुपत्रमुदरविनिहितमहाहिभीषणानेकास्त्रं पत्ररथराजमिव रथाङ्गपाणिरध्यास्य रथं यथासंनिहितेनात्मसैन्येनानु टिप्पनकम्-वीरपट्टः-चीरिका [ख] भन्यत्र पत्राणि-पिच्छानि । ससम्भ्रम-सादरम् । प्रचलदतिचारुपत्रम् एका पत्रम्-अश्वः, औत्सुक्यस्य उत्सुकतायाः, विलम्बासहिष्णुताया इत्यर्थः, उत्सेकाविव उन्नतिखरूपाविव; पुनः विगतपर्याणतुरङ्गं विगत-नष्टम् , पर्याणम्-उपरितनसुखासनं यस्मिन् तादृशमश्वम् , अधिरूढी आरूढौ। च पुनः, सत्वरं शीघ्रम् , अप्राक्षीत् पृष्टवान्, अरे! इति खन्यूनसम्बोधनम् , किमित्याह-एषः अयम् , कटकक्षोभः कटकस्य-सेनायाः, क्षोभः सम्भ्रमः, किम् ? किंतुकः [क]। अथ प्रश्नानन्तरम् , त्यक्ततुरगौ त्यक्ताश्वौ, तो काचरक-काण्डरातनामानौ अश्ववारी, समीपमेत्य निकटमागत्य, उरगाविध साविव, सर्वाङ्गस्पृष्टभूतली सर्वाजालिशितभूतलौ सन्तौ, प्रणम्य प्रणाम कृत्वा, युगपत् एककालम् , ऊचतुः उक्तवन्तौ । किमित्याह-दण्डनाथ! हे चतुरङ्गसेनापते !, सम्प्रत्येव इदानीमेव, अहितानां शत्रूणाम् , अनीकं सैन्यम् , अस्य कटकस्य सैन्यस्य, अभ्यणे निकटे, अतिजवेन अतिवेगेन, प्राप्तम् उपस्थितम्, वर्तते, इति श्रुत्वा श्रवणगोचरीकृत्य, भवन्तः यूयम्, प्रमाणं किंकर्तव्यनिर्णायकाः, इत्युक्त्वा विरेमतुः विरामं प्राप्तो। कीदृशं तत् ? सन्नडसकलकरितुरङ्गयोधं सन्नद्धाः-सज्जिताः, सकलाः-समयाः, करिणः-हस्तिनः, तुरङ्गाः-अश्वाः, योधाः-सुभटाश्च यस्मितादृशम् ; पुनः आबद्धवीरपट्टपादातभीषणम् आबद्धः-धृतः, वीरपट्टःवीरचिभूतपद्यो ध्वजो येन तादृशेन, पादान-पदातीनां पदगामिसैनिकानां समूहेन, भीषणं-भयानकम् । पुनः अरुणनेत्रपताकापटपल्लवितरथनिरन्तरम् अरुणानां-रकानाम् , नेत्रपताकानां-नेत्राकारविशिष्टवस्त्रनिर्मितध्वजानाम् , पटैः-वस्त्रैः, याप्ता ये रथास्तैः, निरन्तर-संकीर्णमः पुनः काश्याः तदाख्यप्रकृतनगर्याः, उत्तरप्रतोलिमार्गेण उत्तररथ्यात्मकमार्गेण, निर्गतं निष्कान्तम् ; पुनः कृतसमस्तसमरसामग्रीकं कृता-सम्पादिता, समस्ता समरसामग्रीयुद्धसामग्री यस्मिस्तादृशम् । पुनः अमर्षपरवशम् ईर्ष्याधीनम् । पुनः पौरुषावलेपेन पराक्रमगर्वेग, अस्मान् , तृणलघून तृणवत्तुच्छान् , मन्यमानम् [ख]॥ सेनापतिस्तु सेनानायकल, तयोः अश्ववारयोः, कर्णामृतकल्पं श्रवणामृतप्रायम् , जल्पं वचनम् , आकर्ण्य श्रुत्वा, उपजातहर्षेः उत्पन्नानन्दः, रणरसोत्कर्षपुष्यत्पुलकजालका रणरसस्य-रणानुरागस्य, उत्कर्षेण-औत्कम्येन, पुष्यत्-पुष्टिमापाद्यमानम् , पुलकजालं-रोमाञ्चपुओ यस्य तादृशः, सजलजीमूतस्तनितगम्भीरेण सजलस्य-जलपूर्णस्य, जीमूतस्य-मेघस्य, यत् स्तनितं-गर्जितं तद्वद्, गम्भीरेण, स्वरेण, तत्क्षणादिष्टकिङ्करससम्भ्रमास्फालितं तत्क्षणंतत्कालम, आदिष्टैः-आज्ञप्तः, किङ्करैः-मृत्यैः, ससम्भ्रमं-सवेगम्, आस्फालितं-ताडितम्, ध्वनन्तं नदन्तम् , आजिदुन्दुभि संग्रामदुन्दुभिम्, आबद्धस्फुटप्रतिशब्दमिव धृतस्पष्टप्रतिध्वनिमिव, दर्शयन् प्रत्याययन् , अभ्यर्णचरं निकटवत्तिनम्, अनुचरगण भूत्यवृन्दम्, रथानयनाथ रथापस्थापनार्थम्, आदिक्षत् आदिष्टवान् । मचिरात् शीघ्रम् , तेन अनुचरगणेन, अन्तिकं निकटम् , उपनीतम् उपस्थापितम् । पुनः उभयतः उभयपार्थे, . प्रचलतिचारुपत्रं प्रचलन्ती अतिचारुणी-अतिमनोहरे, पत्रे-वाहने, पक्षे पक्षौ यस्य तादृशम् । पुनः

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190