Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 80
________________ २२२ टिप्पनक-परागविवृतिसंवलिता स्याश्वासनाथं समन्तादभयप्रदानपटहमदापयत् [स] | तदीयसारग्रहणोद्यतं चात्मसैनिकलोकं न्यवारयत्। आसन्नसरिति निर्वर्तितस्नानक्रियश्च दत्त्वा संगरसमाप्तप्राणेभ्यो बान्धवेभ्यः प्रणयिभ्यश्च शोकदीर्घश्वासतरलिततिलोदकं निवापाञ्जलिम् , आदिश्य चायुधप्रहारक्षतमर्मणामरातियोधानामौषधकर्मण्याप्तजनम् , अधिरह्य च ससंभ्रमाधोरणोपनीतं प्रधानजयवारणम् , आरोप्य पुरः प्रत्यग्रयशःसुधाधवलवपुषमभ्युदयमङ्गलकलशमिव सिंहलाधिपसुतम् , आरब्धयुद्धकथालापवाचालेन प्रणयिना राजपुत्रलोकेनानुगम्यमानः शनैः शनैः शिबिरमागमत् [ह] । क्रमेण चासाद्य निजभवनमुपपादितसमस्ततत्कालोचितकरणीयो निर्वर्तितप्रत्यवसानादिकर्मणः समरकेतोरभ्यन्तर एव स्थितिमकल्पयत् । अधिशयिततल्पस्य च परिचारक इव स्वयं व्रणपट्टबन्धनादिक्रियामन्वतिष्ठत् । आप्तचिकित्सितप्रारब्धोपचारं च तमनतिचिरेणैव प्रगुणीभूतवपुषं प्रशस्तेऽहनि सातमुपनिमय सादरममात्यैर्बन्धुभिः सुहृद्भिरपरैश्च प्रधानपुरुषैः सहितमात्मगृहमानयत् [क्ष] । कृतभोजनोपचारं च तं सकला दिशो यस्य तादृशस्य; पुनः कान्दिशीकस्य को दिशं गच्छामीत्याहेति कान्दिशीकस्तस्य, भयपलायितस्येत्यर्थः [स] । च पुनः, तदीयसारग्रहणोधतं तदीयानां-तत्सम्बन्धिनाम् , साराणां-प्रधानवस्तूनाम् , ग्रहणाय, उद्यतम्-उत्सुकम् , आत्मसैनिकलोकं स्वसैनिकजनम् , न्यवारयत् तद्ग्रहणानिवारितवान् । च पुनः, आसन्नसरिति निकटनद्याम् , निर्वर्तितस्त्रानक्रियः सम्पादितस्त्रानात्मकक्रियः, संगरसमाप्तप्राणेभ्यः संगरे-संग्रामे, समाप्ताः-नष्टाः, प्राणा येषां तादृशेभ्यः, बान्धवेभ्यः बन्धुजनेभ्यः, च पुनः, प्रणयिभ्यः प्रियजनेभ्यः, शोकदीर्घश्वासतरलिततिलोदकं शोकेन-विश्लेषदुःखेन, दी| यः श्वासः-मुखनासावायुः, तेन तरलितं--चञ्चलितम् , तिलोदकं-तिलमिश्रितजलं यत्र तादृशम् , निवापाञ्जलिं मृतोद्देशेन निर्मिताञ्जलिम् , दत्त्वा । च पुनः, आयुधप्रहारक्षतमर्मणाम् आयुधप्रहारेण-बाणाघातेन, क्षतानि-व्रणितानि, मर्माणि-मर्मस्थलानि येषां तादृशानाम् , अरातियोधानां शत्रुभटानाम् , औषधकर्मणि चिकित्साकायें, आप्तजनं विश्वस्तजनं शिष्टजनं वा, आदिश्य नियुज्य । च पुनः, ससम्भ्रमाधोरणोपनीतं ससम्भ्रमेण-सत्वरेण, आधोरणेन हस्तिपकेन, उपनीतम्-उपस्थापितम् , प्रधानजयवारणं प्रधानभूतं जयोपकरणहस्तिनं जयोत्तरमारोहणीयगजं वा, आरुह्य । च पुनः, अभ्युदयमङ्गलकलशमिव अभ्युदयाय-उन्नतये, यो मङ्गलकलश:-मालार्थघटः, तमिव-तं यथा पुरः स्थापयति तथेत्यर्थः, प्रत्यग्रयशःसुधाधवलवपुषं प्रत्यग्रम्-अभिनवं यद् यशः, तद्रूपाभिः सुधाभिः-अमृतैः, धवलं-खच्छम् , वपुः-शरीरं यस्य तादृशम् , सिंहलाधिषसुतं सिंहलद्वीपनृपकुमारम् , पुरः अग्रे, आरोग्य स्थापयित्वा, उपवेश्येत्यर्थः । आरब्धयुद्धकथालापवाचालेन आरब्धा-प्रारब्धा, या युद्धकथा-युद्धवार्ता, तदालापवाचालेन-तदाभाषणमुखरेण, प्रणयिना नेहास्पदेन, राजपुत्रलोकेन राजकुमारजनेन, अनुगम्यमानः अनुत्रियमाणः, शनैः शनैः मन्दं मन्दम् , शिविरं सैन्यसन्निवेशस्थानम् , आगमत् आगतवान् । [ह ] | च पुनः, क्रमेण ऋमिकगल्या, निजभवनं दम् , आसाद्य प्राप्य, उपपादितसमस्ततत्कालोचितकरणीयः उपपादितानि-सम्पादितानि, समस्तानिसर्वाणि, तत्कालोचितानि-तत्कालयोग्यानि, करणीयानि-कर्तव्यानि येन तादृशः सन् , निर्वर्तितप्रत्यवसानादिकर्मणः कृतभोजनादिकार्यस्य, समरकेतोः तत्संज्ञकस्य नृपकुमारस्य, अभ्यन्तर पव पार्श्व एव, स्थितिम् अक्स्थानम् , अकल्पयत् अकरोत् । च पुन:, अधिशयिततल्पस्य अधिशयितं-शयनार्थमधिष्ठितम् , तल्पं-शव्या येन तादृशस्य, तस्य नृपकुमारस्य, स्वयं स्वयमेव, परिचारक इव सेवक इव, व्रणपट्टवन्धनादिक्रियां व्रणानाम्-अस्त्राघातकृतशरीरक्षतानाम् , पट्टबन्ध• नादिक्रियां-वस्त्रविशेषवेष्टमादिकार्यम्, अन्वतिष्ठत् अनुष्ठितवान् । च पुनः, आप्तचिकित्सितप्रारब्धोपचारम आप्तेन-विश्वस्तेन शिष्टेन वा, यत् चिकित्सित-चिकित्सनम्, तेन प्रारब्धः, उपचारः-परिचर्या यस्य तादृशम् , अत एवं अनतिचिरेणैव अतिशीघ्रमेव, प्रगुणीभूतधपुषं प्रबलीभूतशरीरम् , प्रशस्ते शुभावहे, अहनि दिने, स्नातं कृतस्नानम् , तं नृपकुमारम् , उपनिमन्त्र्य ससन्मानमाहूय, आमात्यैः मत्रिभिः, बन्धुभिः भ्रात्रादिभिः, सुहृद्भिः मित्रैः, अपरैः अन्यश्च, प्रधानपुरुषः प्रधानजनेः, सहितम्, सादरम आदरपूर्वकम्, आत्मग्रहं स्वगृहम, आनयत आनीतवान् [क्ष] । च पुनः, कृतभोजनोपचारं कृतः, भोजनरूप उपचारः-सेवा यस्य तादृशम् , तं नृपकुमारम् , वितीर्ण

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190