Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 111
________________ तिलकमारी। २५३ विलासिनीभिः संपादितसकलयात्रामङ्गलः [त], प्रत्यग्रसप्तच्छद्प्रवालदत्तसान्द्रमुखमुद्रमभिवन्द्य पुरःस्थापितं राजतपूर्णकुम्भमप्रतिरथाध्ययनध्वनिमुखरेण पुरःसरपुरोधसा द्विजातिवृन्देनानुगम्यमानश्चरणाभ्यामेव गत्वा प्रथमकक्षान्तरद्वारभूमिमग्रतः ससंभ्रमव्यापारिताकुशेन वज्राङ्कशनाम्ना महामात्रेण प्राङ्मुखीकृत्य विधृतं सितपिष्टपकपाण्डुरितगात्रमक्षुद्रमणिचित्रनक्षत्रमालापरिक्षिप्तं सिन्दूरपाटलविकटकुम्भभागमारोपितानेकनिशितशस्त्रप्रभाशारशातकुम्भशारीपरिकरितपृष्ठपीठमश्रान्तमदवारिधारादुर्दिनान्धकारितकरटकूटं त्रिकूटपर्वतमिव परित्यक्तस्थावरावस्थममरवल्लभाभिधानं गन्धगजमधिरूढो [थ], दृढावनद्धतारतूणीरबन्धुरोभयस्कन्धशिखरः कनकपत्रभङ्गचित्रमध्यभागभाजा शरासनेन सनाथवामहस्तः सलीलमुद्भूयमानवालव्यजनकलापः सदर्पसर्प टिप्पनकम्---अप्रतिरथः-प्रस्थानमन्त्रः । शारः-कर्बुरः [थ] । निहितं-स्थापितम् , दध्ना, कुसुमैः-पुष्पैः, दूर्वानुरै -दूर्वाख्यतृणविशेषाङ्करैः, सनार्थ-सहितम् , अक्षतपूर्णम्-आर्द्रतण्डुलपूर्णम्। कनकपात्रं-सुवर्णपात्रं याभिस्तादृशीभिः [त]। पुनः प्रत्यग्रसप्तच्छदप्रवालदत्तसान्द्रमुखमुद्रम् प्रत्यप्रैः-अभिनवैः, सप्तच्छदस्य-सप्तसप्तपत्र विशिष्टवृन्तकवृक्षविशेषस्य, प्रवालै:-पल्लवैः, दत्ता-सम्पादिता, सान्द्रा-निबिडा, मुखमुद्रा-मुखावरणं यस्य तादृशम्, पुरः अग्रे,स्थापितं धृतम् , राजतपूर्णकुम्भं रजतनिर्मितपुर्णकलशम् , अभिवन्द्य नमस्कृत्य, अप्रतिरथाध्ययनध्वनिमुखरेण अप्रतिरथस्य-प्रस्थानमन्त्रस्य, यः, अध्ययनध्वनिः-पठननादः, तेन, मुखरेण-वाचालेन, पुनः पुरस्सरपुरोधसा पुरःसरः-अग्रेसरः, पुरोधाः पुरोहितो यस्य तादृशेन, द्विजातिवृन्देन द्विजगणेन, अनुगम्यमानः अनुस्त्रियमाणः, पुरस्सरपुरोध इति पाठे तु पुरस्सरः-पुरोधा यस्मिंस्तादृशम् यथा स्यात् तथेति क्रियाविशेषण विधया व्याख्येयम् ; पुनः प्रथमकक्षान्तरित भूमिम् प्रथमकक्षाया-प्रथमप्रतोलिकाया, अन्तरद्वारभूमि-बाह्यद्वारप्रदेशम् , चरणाभ्यामेव पन्यामेव, गत्वा, अग्रतः अग्रे, ससम्भ्रमव्यापारिताङ्कुशेन ससम्भ्रमं-सत्वरं यथा स्यात् तथा, व्यापारितः-प्रयुक्तः, प्रेरित इति यावत् , अडशो येन तादृशेन, वज्राशनाम्ना अन्वर्थतदाख्येन, महामात्रेण हस्तिपकेन, प्राङ्मुखीकृत्य पूर्वमभिमुखीकृत्य, विधृतं स्थापितम् , पुनः सितपिष्टपङ्कपाण्डुरितगात्रम् सितं-शुभ्रम्, यत् पिष्टं-चूर्णम् , पिष्टातकमित्यर्थः, तस्य पर्न-कर्दमेन, पाण्डुरितं-किञ्चित्पीतरक्तीकृतम् , गात्रं-शरीरं यस्य तादृशम् , पुनः अक्षुद्रमणिचित्रनक्षत्रमालापरिक्षिप्तम् अक्षुद्राः-महार्धाः,ये मणयः, तद्रूपाणां-चित्राणाम्-अनेकवर्णानाम् , नक्षत्राणां-ताराणाम् , मालया-समूहेन, सप्तविंशतिमौक्तिकनिर्मितहारेण वा, परिक्षिप्त-व्याप्तम् पुनः सिन्दरपाटलविकटकम्भभागमा सिन्दूरेण-रक्त रक्तः, विकटः-विशालः, कुम्भभाग:-घटाकारमस्तकभागो यस्य तादृशम् , पुनःअनेकनिशितशस्त्रप्रभाशारशातकुम्भशारीपरिकरितपृष्ठपीठम् अनेकेषां-बहूनाम् , निशितानां-तीक्ष्णानाम् , शस्त्राणां प्रभाभि:-द्युतिभिः, शारा:चित्रवर्णाः, याः शातकुम्भशार्यः-सुवर्णमयपर्याणानि, ताभिः परिकरित-परिवेष्टितं, पृष्ठपीठं-पृष्ठरूपमासनं यस्य तादृशम् , पुनः अश्रान्तमद्वारिधारादुर्दिनान्धकारितकरटकूटम् अश्रान्ताभिः-अविच्छिन्नाभिः,मदवारिधाराभिः-मदजलधाराभिः, यदुर्दिन-मेघाच्छन्नदिनम् ,तेन अन्धकारितः-अन्धकारावृतः,करटकूट:-गण्डस्थलशिखरं यस्य तादृशम् , अत एव परित्यक्तस्थावरावस्थम् परित्यक्ता स्थावरावस्था-स्थावरत्वरूयावस्था येन तादृशम्, गृहीतजङ्गमावस्थमित्यर्थः, कि पर्वतमिव त्रिकूटाख्यपर्वतविशेषमिवेत्युत्प्रेक्षा, अमरवल्लभाभिधानम् अमराणां-देवानाम्, वल्लभः-प्रियः, इत्यन्वर्थतदाख्यम्, गन्धगजम् यस्य गन्धेनान्ये हस्तिनः पलायन्ते तादृशं मदगन्धाढ्यहस्तिनम् , अधिरूढः आरूढः [थ पुनः दृढा. वनद्धतारतूणीरबन्धुरोभयस्कन्धशिखरः दृढं यथा स्यात् तथा, अवनद्धेन-आबद्धेन, तारामां-विशुद्धमौक्तिकानाम् , तूणीरेण-इषुधिना, बाणाधारपात्रेणेति यावत् , बन्धुरम-उन्नतानतम्, उभयस्कन्धशिखरं-स्कन्धद्वयोपरिभागो यस्य तादृशः: पुनः कनकपत्रभङ्गचित्रमध्यभागभाजा कनकपत्रभङ्गैः-सुवर्णपत्ररचनाभिः, चित्र:-चित्रवर्णो यो मध्यभागस्तद्वता. शरासनेन धनुषा, सनाथवामहस्तः सनाथः-सहितः, वामहस्तो यस्य तादृशः, पुनः सलीलं-सकोडं यथा स्यात् तथा, उद्भूयमानबालव्यजनकलापः उद्भूयमानः-उत्क्षिप्यमाणः, बालव्यजनस्य-चामरस्य, कलापः-समूहो यस्मितादृशः;

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190