Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 71
________________ तिलकमलरी। ' अथ तस्य संनिहितदीपिकाखण्डकरदण्डताडिताः कोपेनेव प्रजज्वलुः प्राज्यतेजसो मणयः, प्रचिक्षिपुश्च दिङ्मुखेषुः क्षेपीयः कटाक्षानिव दीर्घारुणानंशून [न] । तैश्च प्रभापीतचन्द्रातपैः समन्ततः परामृष्टमभिनवार्ककिरणस्पृष्टमिव कुमुदकाननं सद्य इव निद्रया प्रत्यपद्यत प्रतिपक्षसैन्यम् , उद्दामदानपङ्कलमानीव नोद्धर्तुमङ्कुशानि शेकुरनेकपकपोलकूटेभ्यो निषादिनः, सुराङ्गनादर्शनोपारूढमदेव सद्योऽमुकुलायत दृष्टिः सुभटानाम्, कृतकचग्रहकालदूताकृष्यमाणानीव शनैः शनैरवनेमुः परिशिथिलकन्धरासंधीनि शिरांसि योधानाम् , विघटितमुष्टिबन्धविगलितासयश्च कृपाणिकाग्रहणस्पृहयेव निपेतुर्जघनपार्श्वेषु प्रहारदानाय दूरोरिक्षप्ता दक्षिणपाणयः पादातस्य, अर्धावकृष्टसस्तकार्मुकनिरस्ताश्चार्धपथे एवाधोमुखीबभूवुरप्राप्तशरव्यास्त्रपयेव सायका धनुष्मताम् , दृष्टसुरवधूविभ्रमाविर्भूतमदनार्तानामिव प्रावर्तन्त जम्भिका मुखेषु रथारोहाणाम् , स्वप्नदृष्टाचिरविमुक्तोद्वाष्पनिजजायाजनितदुःखानामिव प्रसस्रुरायतानि श्वसितान्यश्ववाराणाम् , श्रवणप्रविष्टारातिसिंहनादमुहूर्तविस्फा पुनः वाडवार्चिषा वडवानलज्वालया, समुद्रोमिरिव समुद्रतरङ्ग इव [ध] ॥ अथ अालीयकधारणानन्तरम् , तस्य भङ्गुलीयकस्य, प्राज्यतेजसः प्रचुरतेजसः, मणयः, प्रजज्वलुः प्रज्वलन्ति स्म; कीदृशाः केनेव ? सन्निहितदीपिकाखण्डकरदण्डताडिताः सन्निहितानां-पार्वस्थितानाम् , दीपिकानां-प्रदीपानाम् , यः खण्ड:-समूहः, तदीयकरदण्डै:हस्तदण्डाभेदेनाध्यवसीयमानकिरणदण्डैः, ताडिताः-आहताः, अत एव कोपेनेव ताडनजन्यक्रोधेनेवेति प्रज्वलनहेतृत्प्रेक्षा । च पुनः, दिल्खुखेषु दिनायिकामुखेषु, नायकविधया कटाक्षानिव, क्षेपीयः अति शीघ्रम् , दीर्घारुणान् दीर्घान्-आयतान्, अरुणांश्च, अंशून् किरणान् , प्रचिक्षिपुः प्रक्षिप्तवन्तः [न]। च पुनः, प्रभापीतचन्द्रातपैः प्रभया-कान्त्या, पीतः, चन्द्रातपः-चन्द्रिका यस्तादृशैः, तैः मणिकिरणैः, समन्ततः सर्वतः, परामृष्टं स्पृष्टम् , प्रतिपक्षसैन्यं शत्रुसैन्यम् , अभिनवार्ककिरणस्पृष्टम् अभिनवस्य-उदयकालिकस्य, अर्कस्य-सूर्यस्य, किरणः स्पृष्टम् , कुमुदकाननं कुमुदवनमिव, सद्य एव तत्क्षणमेव, निद्रया प्रत्यपद्यत प्राप्यत, अभिभूतमिति यावत् । निषादिनः हस्तिपकाः, उद्दामदानपङ्कलमानीय उद्दामा-उगाढो यो दानपङ्कः-मदकर्दमः, तत्र लग्नानीव-ममानीव, अशानि हस्तिनियामकास्त्रविशेषान् , अनेकपकपोलकुटेभ्यः अनेकपानां-हस्तिनाम् , कपोलकुटेभ्यः-गण्डमण्डलेभ्यः, उद्धर्तुं निष्कासयितुम् , न शेकुः शक्नुवन्ति स्म । सुभटानां सुयोधानाम् , दृष्टिः, सुराङ्गनादर्शनोपारूढमदेव सुराङ्गनाना-देवानानाम, दर्शनेन-अवलोकनेन, उपारून:-उद्भूतः, मदः-व्यामोहो यस्यास्तादृशीव, सद्यः तत्क्षणम् , अमुकुलायत समकुचत् । परिशिथिलकन्धरासन्धीनि परिशिथिलः-अतिशिथिलः, कन्धरासन्धिः-प्रीवासन्धिर्येषां तादृशानि, योधानां सुभटानाम्, शिरांसि मस्तकानि, कृतकचग्रहकालदूताकृष्यमाणानीव कृतः कचहा-केशाकर्षणं यैस्वादशैः, कालदूतैः-यमराजदूतैः, आकृष्यमाणानीव-कृताकर्षणानीव, शनैः शनैः मन्द मन्दम् , अवनेमुः अवनमन्ति स्म । च पुनः, विघटितमुष्टिबन्धविगलितासयः विघटितः-विलिष्टो यो मुष्टिबन्धः-अङ्गुलिसन्निवेशः, तेन विगलिताः-स्खलिताः, असयः-कृपाणा येभ्यस्तादृशाः, प्रहारदानाय प्रहारकरणाय, दरोक्षिताः दूरमुत्पातिताः, पादातस्य पादगामिसैनिकसमूहस्य, दक्षिणपाणयः दक्षिणहस्ताः, कृपाणिकाग्रहणस्पृहयेव कतरिकाग्रणकामनयेव, जघनपार्श्वषु कटिपुरोभागनिकटेषु, निपेतुः निपतिताः। च पुनः, अर्धावकृष्टनस्तकामुकनिरस्ताः प्राग् अर्धम् अवकृष्टानि आकृष्टानि, पश्चात् सस्तानि-स्खलितानि यानि कामुकाण-धषि तेभ्यो निरस्ताः-स्खालताः, धनुष्मतां धनुर्धारिणाम् , सायकाः बाणाः, अप्राप्तशरव्या अप्राप्त. लक्ष्याः, अर्धपथ पव अर्धमार्ग एव, अधोमुखीयभूवुः अधोमुखीभूताः । पुनः दृष्टसुरवधूविभ्रमाविर्भूतमदनार्ता नामिव दृष्टैः-अक्लोकितैः, सुरवधूना-देववधूनाम् , विभ्रमः-विलासैः, आविर्भूतेन-प्रकटितेन मदनेन-कामेन, आर्तानामिषपीडितानामिव, रथारोहाणां रथारूढसैनिकानाम् , मुखेषु जम्भिका:-मुखविकाशाः, प्रावर्तन्त प्रवर्तन्ते स्म। पुनः समरष्टाचिरविमुक्तोदापनिजजायाजनितदुःखानामिव खनदृष्टाभिः-खप्नावस्थाऽवलोकिताभिः, अचिरविमुक्तो. द्वाष्पाभिः-सरक्षणविगलितोद्गताश्रुभिः, निजजायाभिः-खवधूभिः, जनितम्-अनुभावितं दुःखं येषां तादृशांनामिव, मश्ववाराणाम् अश्वारोहिसैनिकानाम् , आयतानि दीर्घाणि, श्वसितानि निःश्वासाः, प्रसनुः प्रसरन्ति स्म। पुनः श्रवणप्रविरा. रातिसिंहनावमुहूर्तविस्फारितापि श्रवणयो:-कर्णयोः, प्रविधैः, अरावीना-शत्रूणाम् , सिंहनादैः-सिंहनादसरसनादः

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190