Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 134
________________ २७६ टिप्पनक-परागविकृतिसंवलिता तस्य जलकेतोः सुता सुतारवृत्तमौक्तिकप्रकल्पितं हारमादाय पितुराज्ञया गता तद्गृहम् [५] । दृष्टश्च स तथा प्रथमदर्शन एव रूपातिशयदर्शनारूढदृढतरानुरागया, सस्पृहमुपनीतोपायना च स्थित्वा कश्चित् कालं कृतप्रत्युपपारा तेन पुनर्गता स्वसदनम् , अनुरागप्रेरिता च तद्दर्शनाशया तैस्तैर्व्यपदेशैरागन्तुमारब्धा प्रतिदिनम् [न] । एकदा तु तदीयसौधशिखरशालायां सख्या सह क्रीडन्त्याः कथञ्चित् सविधमागतोऽसौ, तद्दर्शनोपारूढसाध्वसा च सत्वरं ब्रजन्ती वेपथुविशृङ्खलैः पदैः परिस्खलिता कुट्टिमतले, पतन्त्याश्च तस्याः सोपानपथसंनिधौ सत्वरमुपेत्य तेनावलम्बितः प्रवाल इव बालवनलतायाः करिकलभकेन स्निग्धसुकुमारसरलारुणाङ्गुलिदक्षिणः पाणिः, प्रयुक्तपाणिना च मधुरमभिहिता स्मितमुखेन- 'सुमुखि! किमिदं समेऽपि स्खलनम् , अलममुना संभ्रमेण, संवृणु क्षोभविगलितस्तनांशुकमस्थान एव विसंस्थुलीभूतमात्मानं, गच्छ गेहम्' इति [प]। सा तु तत्करप्रणसमकालमेवोत्थितेन सरभसाकृष्टधनुषा कुसुमसायकेन कृतसाहायकेनेव दूरमपसारितसाध्वसा निकामकमनीयदर्शना अत्यन्तप्रियदर्शना, प्रियदर्शना तदन्वर्थसंज्ञिका, तस्य जलकेतोः तदाख्यकर्णधारस्य, सुता कन्यका, सुतारवृत्तमौक्तिककल्पितं सुतारैः-विशुद्धः, वृत्तैः-वर्तुलाकारैश्च, मौक्तिकैः-मुक्तामणिभिः कल्पितं-निर्मितं, हारं माल्यम्, आदाय गृहीत्वा, पितुः जलकेतोः, आक्षया आदेशेन, तद्गृहं तस्य-तारकाख्यकुमारस्य, गृह, गता गतवती [ध] । च पुनः, प्रथमदर्शन एव प्रथमावलोकनकाले एव, रूपातिशयदर्शनारूढदृढतरानुरागया रूपातिशयस्य - रूपोत्कर्षस्य, दर्शनेन आरूढः-उत्पन्नः, दृढतरः-अतिदृढः, अनुरागः-प्रीतिर्यस्यास्तादृश्या, तया प्रियदर्शनया, स . तारकः, दृष्टः दृष्टगोचरीकृतः । च पुनः, सस्पृहं सानुरागम् , उपनीतोपायना उपाहतोपहारा, कश्चित् कियन्तं कालं स्थित्वा, तेन कुमारेण, कृतप्रत्युपचारा विहितप्रतिसत्कारा सती, पुनः स्वसदनं खगृहं गता; च पुनः, अनुरागप्रेरिता तत्प्रीतिप्रवर्तिता सती, तदर्शनाशया तदवलोकनाकाझ्या, तैस्तैः व्यपदेशैः व्यवहारैः छलैनिमित्ता, प्रतिदिनम् , आगन्तुं तद्गृहमुपस्थातुम् , आरब्धा प्रवृत्ता [न] एकदा तु एकस्मिन् काले तु, तदीयसौधशिखरशालायां तारकीयप्रासादशिखरवर्तिभवने, सख्या खवयस्यया सह, क्रीडन्त्याः खेलन्त्याः , प्रियदर्शनाया इति शेषः, सविधं समीपम् , असौ तारकः, कथञ्चित् केनापि प्रकारेण, आगतः उपस्थितः। तहर्शनोपारूढसाध्वसा तद्दर्शनेन-तारकावलोकनेन, आरूढम्-उत्पन्नं, साध्वसं-भयं यस्यास्तादृशी सती, सत्वरं शीघ्रं, ब्रजन्ती अपसरन्ती, वेपथुविशृङ्खलैः कम्पनविघटितैः, पदैः चरणैः, तद्विक्षेपैरित्यर्थः, कुट्टिमतले मणिबद्धभूतले, परिस्खलिता निपतितुं प्रवृत्ता । पतन्त्याः स्खलन्त्याः, तस्याः प्रियदर्शनायाः, दक्षिणः वामेतरः, पाणिः हस्तः, तेन तारकेण, अवलम्बित: गृहीतः। कीदृशः स्निग्धसुकुमारसरलारुणालिः निग्धाःसरसाः, न तु रूक्षा इत्यर्थः, सुकुमारा:-कोमलाः, सरलाः-ऋजवः, अरुणाः-रक्तवर्णाश्च, अञ्जलयो यस्मिंस्तादृशः, किं कृत्वा ? सोपानपथसन्निधौ सोपानमार्गसमीपे, सत्वरं शीघ्रम् , उपेत्य आगत्य, केन क इव ? करिकलभकेन हस्तिशिशुना, बालवनलतायाः बनस्थवाललतायाः, प्रवाल इव पल्लव इव 1 च पुनः, प्रयुक्तपाणिना प्रयुक्तःअवलम्बनाय प्रहितः, पाणिः-करो येन तादृशेन, तारकेणेति शेषः, स्मितमुखेन मन्दहासान्वितमुखेन, मधुरं यथा स्यात् तथा, अभिहिता उक्ता, प्रियदर्शनेति शेषः, किमित्याह-सुमुखि! सुन्दरवदने !, समेऽपि अविषमस्थलेऽपि, इदं प्रत्यक्षभूतं, स्खलनं पतनम् , किं? किंहेतुकम् , अमना तरकारणभूतेन, सम्भ्रमेण भयजन्यसंक्षोभेण, अलं व्यर्थम्, क्षोभविगलितस्तनांशुकं क्षोभेण-सम्भ्रमेण, विगलितं-स्खलितं, स्तनांशुकं-स्तनावरणभूतवस्त्रं यस्य तादृशम् , पुनः अस्थान एव अनवसर एव, विसंस्थूलीभूतं—विक्षिप्तं, विह्वलीभूतमित्यर्थः, आत्मानं खम् , संवृणु उपसंहर, प्रकृतिस्थं कुरु इत्यर्थः, गेहं खगृह, गच्छ याहि, ई ह, हात [प]। सा तु प्रियदर्शना तु, तत्करग्रहणसमकालमेव तारककरग्रहणसमकालमेव, उस्थितेन उद्गतेन, सरभसाकृष्टधनुषा सरभसं-सत्वरम् , आकृष्टम्-आततं, धनुर्येन तादृशेन, पुनः कृतसाहाय्यकेन कृतसहायताकेन, कुसुमसायकेनेव कामदेवेनेव, यद्वा कुसुमसायकेन कृतं यत् साहाय्यक-साहाय्यं तेनेव, दूरं दूरदेशम् ,

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190