Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 143
________________ २८५ तिलकमञ्जरी। मानगतीनभिषेकविधिना पट्टवन्धनान्यैश्च निवृतिकरै राज्यदानादिभिर्मधुरोपचारैः पुनस्तामेव प्राक्तनी प्रकृतिमानयम् [ल] । आत्मीकृतासन्नसामन्तचक्रश्च क्रमेण निरन्तरक्रमुकवनानि, प्रतिनगरमुपलक्ष्यमाणानेकभूमिकप्रभूतप्रासादानि, स्थानस्थानदृश्यमाननानामणिसुवर्णरजताकराणि, तत इतः पुञ्जितमहाप्रमाणशुक्तिकूटप्रकटितमौक्तिकप्राचुर्याणि, चन्दनविटपवृतिपरिक्षेपरक्षितक्षेत्रवलयानि, संपतत्समुद्रचरमहापक्षिरक्षणाक्षणिकवनपालपालितारामबालवृक्षाणि, बन्धकीजनावन्ध्यग्रामतरङ्गिणीतीरतमालतरुनिकुञानि, देशान्तरापतदनेकसांयात्रिकप्रवेशनिरवकाशपर्यन्तानि, दुर्गतगृहेष्वपि प्राप्यनरपतिभूषणोचितानन्तरत्नानि रेणुगगनयोत्सृज्य टिप्पनकम्- उष्मा-दर्प उष्णत्वं च । प्रसन्नमुखरागान् एकत्र गताग्रभागरक्तवान् , अन्यत्र प्रसादवद्वक्त्र विकारान् । विगलितोन्नतीन गतोदयांश्च [गतोदयान् विगलितवृद्धींश्च ] । अविद्यमानगतीन् एकत्र अविद्यमानपूयप्रवाहान् , अन्यत्र भविद्यमानप्रचारान् । अल्पैश्च निवृतिकरै राज्यदानादिभिर्मधुरोपायैः एकत्र घृतादिवितरणैः, अन्यत्र राज्यादिप्रदानः [ल] । क्रमुक-पूगीफलम् । बन्धकी-स्वैरिणी [ल.] । मुक्तदर्पज्वरान् , पक्षे त्यक्तसापान , पुनः प्रकटितप्रसन्नमुखरागान् प्रसन्नतावन्मुखविकारान् पक्षे प्रकर्षण गताप्रभागरक्तत्वान्, पुनः विगलितोन्नतीन निवृत्ताभ्युदयान , पक्षे निवृत्तवृद्धीन् , पुनः अविद्यमानगतीन् अविद्यमानजीवनोपायान् अविद्यमानप्रचारान् वा, पक्षेऽविद्यमानपूयप्रवाहान् , तानिति शेषः, अभिषेकविधिना सपनविधिना, पक्षे प्रक्षालनविधिना, पट्टबन्धेन पट्टे-राजसिंहासने, बन्धेन-निवेशनेन, पक्षे व्रणोपरि वस्त्रवेष्टनेन, च पुनः, अन्यैः तदतिरिक्तः, राज्यदानादिभिः राज्यार्पणप्रभृतिभिः, पक्षे आज्यदानादिभिः घृतदानादिभिः, निर्वृतिकरैः सुखजनकैः, मधुरोपचारैः प्रियचिकित्साभिः, पक्षे मनोजव्यवहारैः, तामेव, प्राक्तनी पुरातनीम् , प्रकृति राष्ट्र पक्षे स्वभावं स्वस्थतामित्यर्थः, आनयं प्रापयम् लि] | च पुनः, आत्मीकृतासन्नसामन्तचक्रः आत्मीकृतम्-आत्मतामापादितम् , स्वायत्तीकृतमित्यर्थः, आसन्नानांसन्निहितानां, सामन्तानां-लघुनृपाणां, चक्र-मण्डलं येन तादृशः सन् , द्वीपान्तराणि अन्यद्वीपान्, प्रसाधयन् परिभ्रमणेन अलकुर्वन् , यद्वा वशीकुर्वन्नित्यर्थः, सुवेलनामानं तत्संज्ञकम्, अचलराज पर्वतराजम् , अवजम् अगच्छम् , इत्यनेणान्वेति । कीदृशानि द्वीपान्तराणि ? निरन्तरक्रमकवनानि निरन्तराणि-निबिडानि, कमुकवनानिपूगीफलकाननानि येषु तादृशानि, पुनः प्रतिनगरं नगरे नगरे, उपलक्ष्यमाणानेकभूमिकप्रासादानि उपलक्ष्यमाणाःदृश्यमानाः, अनेकभूमिका:-अनेकखण्डकाः, प्रभूताः-प्रचुराः, प्रासादाः-हाणि येषु तादृशानि, पुनः स्थानस्थानहश्यमाननानामणिसुवर्णरजताकराणि स्थानस्थानेषु-तत्तत्स्थानेषु, दृश्यमानाः नानामणीनां-हीरकमौक्तिकादिमणीनां, सुव. च. आकराः-खनयो येषु तादृशानि. पुनः इतस्ततः अत्र तत्र, पञ्जितमहाप्रमाणशक्तिकटप्रकटितमौक्तिकप्राचुर्याणि पुजिताना-संहतानां, महाप्रमाणानाम्-अधिकप्रमाणकानां, शुक्तीनां, कूटेन-राशिना, प्रकटितम्आविष्कृतं, मौक्तिकानां-मुक्तामणीना, प्राचुर्य-बाहुल्यं येषु तादृशानि, पुनः चन्दनविटपवृतिपरिक्षेपरक्षितक्षेत्रवलयानि चन्दनविटपवृत्या-चन्दनशाखानिर्मितया, वृत्या-प्राकारेण, यः परिक्षेपः-परिवेष्टनं, तेन रक्षित क्षेत्रवलयं-केदारमण्डलं येषु तादृशानि, पुनः संपतत्समुद्रचरमहापक्षिरक्षणाक्षणिकवनपालरक्षितारामबालवृक्षाणि संपतद्भध: आपत-द्वयः, समुद्रचरेभ्यः-समुद्रसञ्चारिभ्यः, महापक्षिभ्यः-पक्षिराजेभ्यः, रक्षणे-पुष्पफलादिसंरक्षणे, अक्षणिकाः-स्थायिनः. व्यग्रा वा, ये वनपालाः-उद्यानपालाः.तैः रक्षिताः-पालिताः, आरामस्य-उद्यानस्य, बालवृक्षा:-नववृक्षा येषु तादृशानि, पुन: बन्धकीजनापन्ध्यग्रामतरङ्गिणीतीरतमालतरुनिकखानि बन्धकीजनैः-कुलटाजनैः, अवन्ध्या:-सहिताः, प्रामतरशिणीनां-ग्रामनदीनाम् , तीरेषु तीरवर्तिनः, तमालतरूणां-तमालवृक्षाणां, निकुजाः-लतामण्डपा येषु तादृशानि, पुनः देशान्तरापतदनेकसांयात्रिकप्रवेशनिरवकाशपर्यन्तानि देशान्तरेभ्यः-अन्यदेशेभ्यः, आपतताम्-आगच्छताम् , अनेकेषां, सांयात्रिकाना-पोतवणिजा, प्रवेशेन, निरवकाशा:-अवकाशशून्याः, परिपूरिता इत्यर्थः, पर्यन्ताः-प्रान्तभूमयो येषु तादृशानि, पुनः दुर्गतगृहेष्वपि दरिद्रगृहेष्वपि, प्राप्यनरपतिभूषणोचितानन्तरत्नानि प्राप्याणि-लभ्यानि, नरपतिभूषणोचितानि-राजाभरणयोग्यानि, महार्हाणीत्यर्थः, अनन्तानि-असंख्ययानि रमानि येषु तादृशानि, पुनः रेणुगणनया

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190