Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
२८१ देहस्थितिसाधनमधिकृतैर्यः कश्चिदर्पितः सोऽपि सर्पिस्तैलकम्बलौषधप्रायः प्रायशो विन्यस्तः समस्तोऽपि द्वीपान्तरदुरापो द्रव्याणां कलापः, स्थापिताश्च सर्वतः समारोपितसमर्थनाविकास्तीर्थेषु दृढकाष्टाम्फनिष्टुरा नावः, प्रतिष्ठते अनवरतमारुह्यारुह्य तासु गृहीतननाविधास्त्रः शिबिरवीरलोकः, निवर्तते नगरसंमुखमखिलोऽपि तत्तत्कार्यमङ्गीकृत्य प्रवर्तितः प्रस्थानकाले स्थाश्ववारणादिनौतन्त्रयात्रायामनुपयुक्तः सेनापरिच्छदः, कुमारस्यापि शत्रुविजयाय सजीकृता विजययात्राभिधाना नौः, यदि न कश्चित् कार्यविलम्बस्ततः प्रस्थीयतामभ्युदयाय' इति [स] । अहं तु तद्वचनानन्तरमेव सत्वरमुपसृत्य मौहूर्तिकेन शंसितप्रस्थानक्षणस्तरक्षणमेव राजलोकपरिवृतो गत्वा समासन्निनीरमर्णवतीरदेश, तथैवोर्ध्वस्थितः पुरस्थितानुत्तमाङ्गार्जनेन विनयाञ्जलिकर्मणा नर्मालापेन स्मितेन स्निग्धावलोकितेन च यथोचितं प्रयुक्तेन कृतानुव्रजनान् स्वाभिजनवृद्धवान्धवान सुहृदो राजसेवकान् नगरलोकांश्च प्रत्येकं व्यसर्जयम् [ह] । अथ ससंभ्रमेण नौौरिति समकालमुच्चैाहरतः प्रतीहारवृन्दस्य शब्दमाकर्ण्य तूर्णमानीयत तटाभ्यर्णमर्णवस्य नाविकगणेन नौः, तां
टिप्पनकम्-स्वाभिजनः-स्वकुलम् [ह ] ।
रोपितं निहितम् [प] ! पुनः अपरोऽपि तदन्योऽपि, देहस्थितिसाधनं शरीरोपकरणभूतः, सर्पिस्तैलकम्बलौषधप्रायः घृततैलादिप्रचुरः, द्वीपान्तरदुरापः अन्यद्वीपदुर्लभः, यः कश्चित् कोऽपि, द्रव्याणां वस्तूनाम् , कलापः समूहः, अधिकृतैः नियुक्तजनैः, अर्पितः दत्तः, सोऽपि असावपि, प्रायशः प्रायेण, समस्तोऽपि, विन्यस्तः निवेशितः। च पुनः, समारोपितसमर्थनाविकाः समारोपिताः-सम्यगारोहिताः, समर्थाः-नौवाहनक्षमाः, नाविकाः-कर्णधारा यासु ताः, पुनः तीर्थेषु तत्तजलावतारस्थलेषु, दृढकाष्ठगुम्फनिष्ठुराः प्रबलकाष्ठनिवेशनदृढाः, नावः नौकाः, सर्वतः समन्ततः, स्थापिताः निवेशिताः । गृहीतनानाविधास्त्रः धृतविविधास्त्रः सन् , शिबिरवीरलोकः सेनाशूरजनः, तासु नौषु, अनवरतं सततम् , आरुह्य आरुह्य प्रत्येकम् आरुह्य, प्रतिष्ठते प्रस्थानं करोति । नौतन्त्रयात्रायां नौसाध्ययात्रायाम्, अनुपयुक्त: अनपेक्षितः, अखिलोऽपि सर्वोऽपि, रथाश्ववारणादिः रथ-तुरग-गजप्रभृतिः, सेनापरिच्छदः सेनापरिवारः, तत्तत्कार्यम् , अङ्गीकृत्य स्वीकृत्य, प्रवर्तितः प्रेरितः सन् , प्रस्थानकाले प्रयाणवेलायाम् , नगरसम्मुखं निवर्तते प्रत्यावर्तते । कुमारस्यापि भवतोऽपीत्यर्थः, शत्रुविजयाय शत्रुविजयनिमित्तम् , विजययात्राभिधाना अन्वर्थतदाख्या, नौः, सजीकृता सजिता । यदि कश्चित् कोऽपि, कार्यविलम्बः प्रस्थानविलम्बो न, अस्तीति शेषः, तर्हि अभ्युदयाय शत्रुविजयाय, प्रस्थीयता प्रस्थान विधीयताम् [स] । अहं तु अहं समरकेतुस्तु, तद्वचनानन्तरमेव तत्कथनानन्तरमेव, सत्वरं शीघ्रम्, उपसृत्य उपगत्य, मौहूर्तिकेन मुहूर्ताभिलेन, शंसितप्रस्थानक्षणः सूचितप्रस्थानमुहूर्तः सन् , तत्क्षणमेव तत्कालमेव, राजलोकपरिवृतः तृपजनपरिवेष्टितः, समासन्ननीरम् अतिसन्निहितजलम् , अर्णवतीरदेश समुद्रतटप्रदेशम् , गत्वा, तत्रैव तत्तौरदेश एव, तथैवेति पाठे तेनैव प्रकारेण, राजलोकपरिवृताकारेणैवेत्यर्थः, ऊर्ध्वस्थितः तीरदेशोपरि अनुपविष्टः सन् , पुरः स्थितान् अग्रे स्थितान् , स्वाभिजनवृद्धवान्धवान् स्ववंश्यान् वयोवृद्धवन्धुजनान् , सुहृदः मित्राणि, च पुनः, राजसेवकान् राजशुभचिन्तकान , नगरलोकान् नगरवास्तव्यजनान् , प्रत्येकम् एकैकम् , व्यसर्जयं प्रत्यावर्तयम् , कीदृशान् ? यथोचितं यथायोग्यम् , प्रयुक्तेन कृतेन, उत्तमाङ्गापर्जनेन उत्तमाङ्गस्य-मस्तकस्य, आवर्जनेन-किञ्चिन्नमनेन, पुनः विनयाञ्जलिकर्मणा विनयपूर्वकाञ्जलिबन्धरूपकार्येण, पुनः नालापेन प्रेमपूर्वकाभाषणेन, स्मितेन मन्दहासेन, च पुनः, खिग्धावलोकितेन स्नेहपूर्णावलोकनेन, कृतानुवजनान् कृतानुगमनान् , कतिपयपदान्यनुगम्येत्यर्थः [ह]
अथ अनन्तरम् , नौनौः आनीयतामिति शेषः, इति उचैः उच्चस्तरेण, समकालं युगपत् , ब्याहरतः उद्घोषयतः, प्रतीहारवृन्दस्य द्वारपालवर्गस्य, शब्दम् उद्घोषम्, आकर्ण्य श्रुत्वा, ससम्भ्रमेण संभ्रान्तेन, नाविकगणेन कर्ण
३६ तिलक.
Loading... Page Navigation 1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190