Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 74
________________ २१६ टिप्पनक-परागविवृतिसंवलिता आसादितविजयरिपुदर्शनपरिजिहीर्षयेव निमिषितेक्षणारविन्दम् , आजिविपन्नसुभटजीवितसंजिघृक्षायातयमदर्शनागतया यमुनयेयाबद्धविकटतरङ्गया भ्रुकुट्याऽन्धकारितललाटभित्तिम् , उपरि रिपुशिलीमुखासारेणाधस्ताव रणरभसरोमाञ्चजालकेन जर्जरितमुल्लसितमिव मूर्छान्धकारमुन्निद्रतापिच्छनीलमस्थूलं कालायसकवचमुरःस्थलेनोद्वहन्तम् , उत्सृष्टचापयष्टिना वामेन दक्षिणेन च स्फुरितदीर्घनखकिरणेन तत्क्षणभ्रष्टकरवालान्वेषिणेव पाणिना विराजमानम् , उपान्तकेतुस्तम्भविन्यस्तदेहभारैश्च निद्रादूरमुग्नकण्ठनालैरात्मयोधैः परिवृतं प्रसुप्तसर:कुमुदधनमध्यवर्तिनमिव प्रतिमादिनकरम् , अव्याजशौर्यावर्जितहृदयैश्चागत्यागत्य वीरवृन्दैर्वन्धमानबाणत्रणोद्वाम्तरुधिरबिन्दुनिकरं कुमारम् [म], उपजातविस्मयश्च निश्चलस्निग्धतारकेण चक्षुषा सुचिरमवलोक्य तदवलोकनप्रीतमनसा समीपवर्तिना सामन्तलोकेन सह बहुप्रकारमारब्धतद्वीर्यगुणस्तुतिस्तस्मिन्नेव प्रदेशे मुहूर्तमात्रमतिष्ठत् । तद्वृत्तान्तश्रवणसकुतूहलश्च निपुणतरमपि व्यापारितया दृष्टया यदा प्रतिपक्षपक्षे कमपि पुरुष रथपश्चाद्भागे, पर्यस्तं लीनम् ; पुनः आसादितविजयरिपुदर्शनपरिजिहीर्षयेव आसादितः-प्राप्तः, विजयो येन तारजस्य, रिपो:-वशत्रोः, यद् दर्शनम् , तत्परिजिहीर्षयेव-तत्परिहारेच्छयेव, निमिषितेक्षणारविन्दं निमीलितनयनारविन्दम् । पुनः भृकुट्या नेत्रोपरितनकुटिलरोमराज्या, अन्धकारितललाटभित्तिम् अन्धकारिता-अन्धकारव्यापिता, ललाटभित्तिः-ललाटस्थलं यस्य तादृशम्, कीदृश्या? आजिविपन्नसुभटजीवितसंजिघक्षायातयमदर्शनागतया आजी-संग्रामे, विपन्नाः-मृताः,ये सुभटाः-सुयोधाः, तेषां यानि जीवितानि-प्राणाः, तत्संजिघृक्षया-तत्संहरणेच्छया, आयातस्य-आगतस्य, यमस्य-तदाख्यभ्रातुः, दर्शनाय-अवलोकनाय, आगतया-उपस्थितया, यमुनयेव तदाख्यनयेव, आबद्ध विकटतरल्या आबद्धाः-रचिताः, विकटा:-विशाला, तरङ्गा यया तादृश्या; पुनः कालायसकवचं लोहविशेषमयं कवचम्, उरस्थलेन वक्षःस्थलेन, उद्वहन्तं धारयन्तम् , कीदृशं कवचम् ? उपरि ऊर्श्वभागे, रिपुशिलीमुखासारेण रिपशिलीमुखाना-स्वशक्षिप्तबाणानाम् , आसारेण-धारापातेन, च पुनः, अधस्तात अधोभागे, रणरभसरोमाञ्चजालकेन रणरभसेन-संग्रामवेगेन, उद्गतो यो रोमाञ्चः-पुलकः, तज्जालकेन-तत्पुजेन, जर्जरितं विह्वलीकृतम् , अत एव उल्लसितम् उद्भूतम् , मूर्छान्धकारमिव मूर्छारूपान्धकारमिवेत्युत्प्रेक्षा, पुनः उन्निद्रतापिच्छनीलम् उनिद्रःउत्फुल्लो यस्तापिच्छः-तमालः, तद्वन्नीलवर्णम् , पुनः अस्थूल लघुम्; पुनः कीदृशं कुमारम् ? उत्सृष्टचापयष्टिना सृष्टा-त्यक्ता, चापाष्टः-धनुदण्डा येन तादृशेन, वामन दक्षिणेतरण, पाणना हस्तेन, च पुनः, स्फुरितदीधेनख किरणेन स्फुरिताः-ज्वालिताः, दीर्धाः, नखकिरणा:-नखकान्तयो यस्मिस्तादृशेन, तत्क्षणभ्रकरवालान्वेषिणेव तत्क्षणंतत्कालम् , भ्रष्टः-खसकाशात् पतितो यः, करवालः-खङ्गः, तदन्वेषिणेव-तदन्वेषणव्यातेनेव, दक्षिणेन, पाणिना हस्तेन, विराजमान शोभमानम् ; च पुनः, उपान्तकेतुस्तम्भविन्यस्तदेहभारः उपान्तेषु-निकटस्थेषु, केतुस्तम्भेषु-ध्वजदण्डेषु, विन्यस्तः-धृतः, देहभारो यैस्तादृशः, पुनः निद्रादूरभुन्नकण्ठनालैः निद्रया दूरभुनानि-दूरपर्यन्तकुटिलानि, कण्ठनालानि-कण्ठरूपकमलदण्डा येषां तादृशैः, आत्मयोधैः स्वकीयसुभटैः, परिवृतं परिवेष्टितम् , अत एव प्रसुप्तसर:कुमुदवनमध्यवर्तिनं प्रसुप्त-संकुचितम् , यत् सरःकुमुदवन-तडागस्थकुमुदवनम्, तन्मध्यवर्तिनम् , प्रतिमादिनकरमिव सूर्यप्रतिबिम्बमिव; च पुनः, अव्याजशौर्यावर्जितहृदयैः अव्याजेन-वास्तविकेन, शौर्येण, आवर्जितम्-अवनमितं हृदयं येषां तादृशैः, वीरवृन्दैः शूरसमूहै, आगत्य आगत्य उपस्थायोपस्थाय, वन्द्यमानबाणवणोद्वान्तरुधिरबिन्दुनिकर वन्धमानः-स्तूयमानः, बाणव्रणोद्वान्तानां-बाणवणनिर्गतानाम् , रुधिरबिन्दूनां-शोणितबिन्दूनाम् , निकरः-समूहो यस्य तादृशम् [मच पुनः, उपजातविस्मयः उत्पन्नाचयः, निश्चलस्निग्धतारकेण निश्चला-निःस्पन्दाः, स्निग्धाः-आर्द्रा च, तारकाकनीनिका यस्य यस्मिन् वा तादृशेन, चक्षुषा नेत्रेण, सुचिरम् अतिदीर्घकालम् , अवलोक्य दृष्ट्वा, तदवलोकनप्रीतमनसा तद्दर्शनप्रसन्नहृदयेन, समीपवर्तिना पार्श्ववर्तिना, सामन्तलोकेन अधिकृतनृपजनेन, सह, बहुप्रकारम् अनेकप्रकारं यथा स्यात् तथा, आरब्धतद्वीर्यगुणस्तुतिः आरब्धा-प्रारब्धा, तीर्यगुणानां-तत्पराक्रमगुणानाम् , स्तुतिः-प्रशंसा येन तादृशः, तस्मिन्नेव प्रदेशे राजकुमारावस्थितिप्रदेशे, मुहूर्तमानं क्षणमात्रम् , अतिष्ठत् स्थितवान्, मेनापतिरिति शेषः। च पुनः, तद्वत्तान्तश्रवणसकुतूहल: नृपकुमारवृत्तान्तश्रवणे, सकुतूहल:-सोत्कण्ठः, निपुणतरमपि

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190