Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 98
________________ २४० टिप्पनक-परागविवृतिसंवलिता च तत्र तमुपसेवितुमतीय सेवाकुशलाः कलाविदो विदितसकलशालतत्त्वाः कवयो वाग्मिनः काव्यगुणदोषज्ञा विज्ञातविविधपुराणेतिहासकथाः कथाख्यायिकानाटकादिप्रबन्धबद्धरतयो रतितन्त्रपरम्परापरामर्शरसिक मनसः प्रियदर्शना विदग्धोज्जवलवेषवपुषः परिहासशीलाः स्वभावपेशलोक्तयः प्रत्येकमावेदिताः प्रतिहारेण राजपुत्राः प्राविशन् । अपरेऽपि तत्कालसेवोचिताः सवयसः प्रधानराजलोकाः संनिदधुः [क]। यथास्थानमुपविष्टैश्च तैः सह प्रस्तुत विचित्रकथालापस्य चित्रपदभङ्गसूचितानेकसुन्दरोदारार्था प्रवृत्ता कथञ्चित् तस्य चित्रालङ्कारभूयिष्ठा काव्यगोष्ठी । तत्र च पठ्यमानासु विद्वत्सभालब्धख्यातिषु प्रहेलिकाजातिषु, चिन्त्यमानेषु मन्दमतिजनितनिर्वेदेषु प्रश्नोत्तरप्रभेदेषु, भाव्यमानासु प्रसन्नगम्भीरभावार्थासु षट्प्रज्ञक इव, एकम् अद्वितीयम् , कुसुमतल्पं पुष्पशय्याम् , अध्यास्त तदुपरि उपाविशत् । तत्र तस्मिन् , कुसुमतल्प इत्यर्थः, निषण्णम् उपविष्टम् , तं हरिवाहनम् , सेवितुं परिचरितुम्, राजपुत्राः राजकुमाराः, प्राविशन् प्रविष्टाः, कीदृशाः! अतीव अतिशयेन, सेवाकुशलाः परिचरणनिपुणाः पुनः कलाविद: शिल्पाभिज्ञाः पुनः विदितसकलशास्त्रतत्त्वा: परिशीलिताशेषशास्त्रसाराः; पुनः कवयः कवित्वशक्तिशालिनः पुनः वाग्मिनः सम्यग्वतार, पुनः काव्यगुणदोषशा: काव्यसम्बन्धिनो ये गुणाः-माधुर्यादयः; ये च दोषाः-श्रुतिकटुत्वादयः, तेषां विज्ञाः; विश्वातविविधपुराणेतिहासकथाः विज्ञाताः-सम्यगवगताः, अभ्यस्ता इत्यर्थः, विविधानि अनेकप्रकाराणि यानि पुराणानि-सर्गप्रतिसर्गादिपञ्चलक्षणोपेतप्रबन्धाः, इतिहासाः-महाभारतादिपूर्ववृत्तार्थकग्रन्थाः, तेषां कथाः-कथानकानि यैस्तादृशाः पुनः कथाख्यायिकानाटकादिप्रबन्धबद्धरतयः कथा नाम-कादम्बर्यादयः कल्पितप्रबन्धाः, आख्यायिका-उपलब्धार्थकः प्रबन्धः, नाटकं-दृश्यकाव्यम्, तदादयःतत्प्रभृतयो ये प्रबन्धाः-ग्रन्थाः, वेषु बद्धरतयः-बद्धानुरागाः; पुनः रतितन्त्रपरम्परापरामर्शरसिकमनसः रतितत्रस्यरतिशास्त्रस्य, कामशास्त्रस्येत्यर्थः, या परम्परा-समूहः, तत्परामर्श-तत्समालोचने, रसिकम-अनुरक्तं मनो येषां तादृशाः पुनः प्रियदर्शनाः प्रियम्-आनन्दजनकम् , दर्शनम्-अवलोकनं येषां तादृशाः; पुनः विदग्धोज्वलवेषवपुषः विदग्धःनैपुण्यपूर्णः, उज्ज्वल:-उद्भासुरश्च, वेषः-कृत्रिमाशमण्डनं यस्य तादृशं, वपुः-शरीरं येषां तादृशाः; पुनः परिहासशीलाः परिहासखभावाः; पुनः खभावपेशलोकयः खभावेन पेशलाः-प्रियाः, उत्तयः-वचनानि येषां तादृशाः; पुनः प्रतीहारेष द्वारपालेन, प्रत्येक प्रतिव्यक्ति, आवेदिताः हरिवाहनं प्रति सूचितागमनवार्ताः। अपरेऽपि अन्येऽपि, तत्कालसेवोचिता: तत्कालसेवायोग्याः, सवयसः समानवयस्काः,प्रधानराजलोकाः मुख्यराजकीयजनाः, सन्निदधुः सन्निहिताः [क]। __ च पुनः, यथास्थानं खखस्थानमनतिकम्य, उपविष्टैः कृतोपवेशनैः, तैः राजपुत्रैः, सह, प्रस्तुतविचित्रकथालापस्य प्रस्तुतः-प्रारब्धः, विचित्रकथानाम्-अपूर्वकथानाम्, आलापः-आभाषणं येन तादृशस्य, तस्य हरिवाहनस्य, चित्रपदभङ्गसूचितानेकसुन्दरोदारार्था चित्राणाम्-अर्थचित्रालङ्कारविशिष्टानाम् , पदानाम् , भङ्गेन-विच्छित्या, चमत्कृत्येत्यर्थः, सूचिताः अभिव्यक्ताः, अनेके, सुन्दराः-मनोहराः, उदाराः-विस्तृताः, अर्था यया ताक्षी, चित्रालङ्कारभूयिष्ठा चित्रालङ्कारप्रचुरा, काव्यगोष्ठी काव्यपाठपरिषत् , कथञ्चित् केनापि प्रकारेण, प्रवृत्ता। पुनः तत्र गोष्टयाम्, विद्वत्सभालब्ध. ख्यातिषु विद्वत्सभायां-विद्वगोष्टयाम् , लब्धा-प्राप्ता, ख्यातिः-प्रसिद्धिर्याभिस्तादृशीषु,प्रहेलिकाजातिषु प्रहेलयति-सूचयति वास्तविकार्थगोपनपूर्वकमवास्तविकमसम्भाव्यमर्थ या सा प्रहेलिका, यथा-"पानीयं पातुमिच्छामि स्वतः कमललोचने 1। यदि दास्यसि नेच्छामिन दास्यसि पिबाम्यहम् ॥ इति, तजातिषु-तजातीयेषु दुर्वेद्यार्थककाव्येषु, पठ्यमानासु पठनकर्माक्रियमाणासु । पुनः प्रश्नोत्तरभेदेषु प्रश्नोत्तरविशेषेषु, चिन्त्यमानेषु आलोच्यमानेषु, कीदृशेषु मन्दमतिजनितनिवेदेषु मन्दमतीनाम्ऊहापोहाक्षमबुद्धीनाम् , जनितः-उत्पादितः, निर्वेदः-ग्लानियेस्तादृशेषु । पुनः प्रसनगम्भीरभावार्थासु प्रसन्नः-श्रवणमात्रेण बोधविषयः, गम्भीरः-गाम्भीर्यगुणयुक्तश्च, भावार्थ:-अभिप्रायविषयार्थी यासां तादृशीषु, षट्पक्षकगाथासु पदसु-'धर्मः, अर्थः, कामः, मोक्षः, लोकः, तत्त्वार्थः' एषु षद्विषयेषु, प्रज्ञा येषां ते षट्प्रज्ञकाः, तदुक्तम्-“धर्मार्थ-काम-मोक्षेषु लोकतत्त्वार्थयोरपि । पदसु प्रज्ञा तु यस्यासी षट्प्रज्ञः परिकीर्तितः ॥ १ ॥ इति, तदीयगाथासु-तदीयकथासु, भाव्यमानासु आलोच्य

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190